अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 936, कुल 2600 में से
संदर्भ में पढ़ेंकरणं वदन् वेदो देवानामधिकारं वदेत् । देवाश्च जन्या इति वेदार्थज्ञानसमये तेषामभावाद्, ज्ञप्तौ चात्माश्रय इति कर्मकर्तॄणां ज्ञातृत्वेन वक्तुमशक्यत्वात् कर्मकर्तृविरोधः । वेदश्च तेषां वृत्तान्तं वदन् स्वयं कथं नित्यो भवेत् । अतो वेदानित्यत्वापादकत्वादयं देवाधिकारपक्षो न सङ्गत इति सूत्रांशे- नाशङ्क्य, अंशान्तरेण समाधिमाह, शब्दोक्ताः पदार्थाः सर्वे एवाधिदैविका भगवदवयवरूपाः, शब्द एव विवर्त्तते, नित्याख्यैः सह पदानां सम्बन्धोपि नित्य इति न वेदानित्यत्वम् । इदमेव चतुर्थेन सूत्रेण वक्तव्यम् । न च वैदिकपदार्थानामतिरिक्तत्वाङ्गीकारे प्रत्यक्षविरोधः शङ्क्यः । इदानीमपि यजमानर्त्विक्प्रभृतीनां वेदादेव सपरिकरकर्मावगतेर्वृद्धव्यवहारादिना दर्शनेन वैदिकपदार्थांतरेष्वपि तेनैवावगतिसम्भवात् । अतो यैर्भगवान् दृष्टस्तेषां तु तत्रैव सर्वपदार्थदर्शनात्तेष्वेव संकेतग्रहः, ततोर्वा- चीनानामिदानीन्तनापर्यन्तानां तूपमानात्तेषु संकेतग्रहः, भगवतः सर्वानुकारित्वात् । किं च, यथा 'जमदग्नीनां पञ्चावत्त'मित्यत्र कस्मिन् जामदग्न्य इति प्रत्यक्षज्ञानाभावेपि परोक्षानुभवो भवति, तथा वैदिकप्रपञ्चस्यापि परोक्षानु