अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 94, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९ भाष्यप्रकाशः। इति भाष्यलक्षणात् सूत्रोपन्यास एवानुसरणसिद्धेः प्रकृतेरादित एव भाष्यत्वाय सूत्री- रश्मिः। कथं सालौकिकानुभावप्रकटनमिति चेन्नैवम्। तैः सगुणब्रह्मणः सकाशात् सृष्टिरिति निरूपणान्न तात्पर्यविषयत्वम्, किंतु अभिधेयत्वमिति, लौकिकत्वात् । तत्र ब्रह्मनिर्गुणादिपदानांमभिधामूलं तात्पर्यम्, ब्रह्मणि नारायणादिपदानां कथमु तात्पर्य, लक्षणाया अप्यभावेन लक्षणामूलव्यञ्जनापरपर्या- यतात्पर्यस्याप्यभावादिति चेन्न । जन्यजनकभावसंबन्धस्य शक्यसंबन्धस्य सत्त्वेन लक्षणा गौणीरूपा भविष्यति, सति प्रमाणे तात्पर्यं त्वलौकिकपरमोत्कृष्टत्वे, यथा 'गङ्गायां घोष' इत्यत्र शक्यस्य प्रवाहस्य संबन्धः संयोगः, तस्य तीरे सत्त्वात्तीरे लक्षणा, शैत्यपावनादौ तदभावात्, तात्पर्यवृत्तिरालंकारिकाणां