भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 95, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 95

श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ अथातो ब्रह्मजिज्ञासा ॥ १ ॥ ( १-१-१ ) भाष्यप्रकाशः। भाष्यशब्देनैव मङ्गलसिद्धेश्च सूत्रमेवादौ पठन्ति अथातो ब्रह्मजिज्ञासेति । नच मङ्गलाचरणा- न्तरादर्शनाच्छिष्टाचारविरोधः शङ्कनीयः । महाभाष्ययोगभाष्ययोर्ग्रन्थकृत्कृतसाद्यशब्दाति- रश्मिः । श्रुत्यनुसारित्वान्नातिव्याप्तिः आर्थिकार्यस्पर्शस्यास्मद्भाष्येपि न सेति । यत्तु शंकराचार्यैः 'शास्त्रयोनि- त्वात्' इति सूत्रांशं प्रथमान्तत्वेनानन्दमयाधिकरणं च भक्त्वोत्सूत्रं व्याख्यातम्, 'भावे चोपलब्धेः' इति सूत्रं 'भावाच्चोपलब्धेः' इति पाठं भित्त्वा व्याख्यातम्, मध्वरामानुजभास्कराचार्यैः 'सामाव्याप- त्तिरूपपत्तेः' इति सूत्रं 'क्षामाव्यापत्तिः' इत्येवं पाठं भित्त्वा व्याख्यातम्' तत्राव्याप्तिर्न दोषाय, अन्यत्र तु गौण्या निर्वाहः । सूत्रमेवेति । सर्वतः सारभूतार्थबोधकत्वे सूचकत्वे च सति स्वल्पाक्षरपदत्वमिति सूत्रलक्षणम् । 'खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रम्' इत्यारुणि श्रुतेः । 'लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च, । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः' ॥ इति स्मृतेश्च । वस्तुतस्तु यत्राभियुक्तानां सूत्रत्वव्यवहारस्तानि सूत्राणीति । अतो महति 'अचतुरविचतुर'इत्यस्मिन्पाणिनीये सूत्रे नाव्यासः ॥ अथातो ब्रह्मजिज्ञासेति इति ॥ १ ॥ प्रतीकमिदम्, क्रियाविशेषणं तृतीयान्तव्य- तिरिक्तम् । तृतीयान्तं तु करणमिति विवेकः । ननु ब्रह्मपदेन किमुच्यते प्राणो वा ब्रह्मैव वा । तथाहि 'एष उ एव बृहस्पतिः' इति श्रुतेः प्राण एष प्राण इत्यर्थात् । न च प्राणेत्यनया श्रुत्या बृहस्पतित्वं विहितम्, न ब्रह्मत्वमिति वाच्यम् । 'ब्रह्म वै देवानां बृहस्पतिः' इत्यारण्यकसमाप्ति- ग्रन्थसम्भूतैरिति चेत्, मैवम् । द्वितीयाध्याये चतुर्थचरणे 'श्रेष्ठश्च' इत्यधिकरणे 'न वायुक्रिये पृथ- गुपदेशात्' इति सूत्रे प्राणस्योपपादितत्वान्तरत्वात् । न च ब्रह्मापेक्षया ब्रह्मणस्पतिजिज्ञासा प्रस्तोतव्येति शङ्क्यम् । बृहदारण्यके 'एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एषे पतिस्तस्मादु ब्रह्मणस्पतिः' इतिश्रुतोर्ब्रह्मपदेन वाग्ग्रहणेनादोषात्, तत्त्वान्तरत्वाच्चेति । अत एव जिज्ञासासूत्रे ब्रह्मपदेन वेदान्ता गृहीताः । 'वाग्वै ब्रह्म' इति श्रुतेः । न च शुकादिप्रभृतीनां जिज्ञासा जैमिनि- सूत्रानुसारिणाधिकर्त्तव्येति वाच्यम् । पौर्वापर्य्यात्वात् । 'न च वेदादृते किञ्चिन्नामं ब्रह्माभिधा- यकम्' इति महाकौर्म्यात् । 'नन्वेवमपि स दोषस्तदवस्थ एवेति चेत्, न । जैमिनेर्भगवतो व्यासस्य शिष्यत्वाच्छास्त्रभेदाच्च । न च वेदजिज्ञासाधिकर्त्तव्या नामाख्यातोपसर्गनिपातादिभिर्धर्मजिज्ञासया षड- ङ्गैरितराङ्गैश्च तस्या निराकाङ्क्षत्वात् । इतरत् सर्वं साधनाध्यायतुर्यपादेऽचीकुपद्भाष्येऽथशब्दतोऽवधे- यम् । शङ्कनीय इति तर्कितव्य इत्यर्थः । आद्यपूर्वसाप्यद्यमर्थः । ग्रन्थकृत्कृतस्येति । तत्र ग्रन्थो नाम संबन्धप्रयोजनज्ञानाधीनशुश्रूषाजन्यश्रुतिविषयः संदर्भः । 'सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः' ॥ १. अस्मत्सन्निधौ द्वित्राणि रश्मेः पुस्तकानि सन्ति, तेषां रश्मिकारसंशोधितं पुस्तकं शुद्धं समीचीनं च । तत्र इत आरभ्य एकोनविंशतिः पत्राणि न लभ्यन्ते तदर्थमतीव प्रवर्त्तितोपि तत् संपादने न सफलप्रयत्नोऽभवम् । प्रस्थान्तराणि तु अशुद्धिप्रचु- रत्विन्नपुस्तकानि न विश्वसनीयानि तथापि तदवलम्बनेन ग्रन्थसंशोधने कृते बहूनिस्खलितानि नयनपथातिथीनि भवन्ति तानि विद्वद्भिः संशोध्य्यानि इत्यभ्यर्थयते मुद्रिकर्त्ताः । 8

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 95, कुल 2600 में से · BharatKosha