अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 96, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ९ इदमत्र विचार्यते । वेदान्तानां विचार आरम्भणीयो न वेति । भाष्यप्रकाशः । रिक्तस्य मङ्गलस्यादर्शनेन, शाबरभाष्ये च 'अथातो धर्मजिज्ञासा' इति सूत्रमेवोपम्यस्य भाष्या- रम्भदर्शनेन च विरोधाभावादिति । अस्यारम्भसूत्रत्वादत्राधिकारिविषयसंबन्धप्रयोजननिरूपण- द्वारा शास्त्रारम्भः समर्थनीयः । शास्त्रप्रवृत्त्यावश्यकत्वहेतुरूपा संगतिश्च निरूपणीया । अन्यथा प्रेक्षावत्प्रवृत्त्यभावेन शास्त्रवैयर्थ्यं स्यात् । शास्त्रस्य वैधत्वमपि विचारणीयम् । अन्यथा वेदान्तानु- पयुक्तत्वं, प्रामाणिकानादरणीयत्वं च स्यात् । यदिदं सर्वं हृदि कृत्वा भगवता श्रीबादरायणाचा- र्येणेदमधिकरणरूपं सूत्रं प्रणीयते, न तु ब्रह्मविचारप्रतिज्ञामात्रमत्र क्रियत इत्याशयेनाडुः इदमित्यादि । विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । संगतिश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम्' ॥ इति लक्षणाद् विषयादिपञ्चकघटितं वाक्यमधिकरणम् । तेनास्मिन् सूत्रे, इदं वक्ष्यमाणं बुद्धिस्यं विचार्यते । अग्रिमसूत्रेषु वेदान्तानां विचारणीयत्वादुपोद्धातेन चिन्त्यत इत्यर्थः । विषयादि- कमाहुः वेदान्तानामित्यादि । नन्वत्रायं विषयाद्युपन्यासो न युक्तः, असौत्रत्वात् । रश्मिः । इत्युक्तेः शुश्रूषायाः संबन्धप्रयोजनज्ञानाधीनत्वम् । तर्ह्येतेति मङ्गलेनापि भाव्यं तत्राहूः शाबरभाष्ये चेति । अन्यथेति वैधत्वाभाव इत्यर्थः । प्रणीयत इति । स्मेति शेषः । उपोद्घातेनेति । तेनोपोद्घातोत्र संगतिरित्युक्तम् । तत्त्वं च प्रकृतसिद्धयनुकूलचिन्ताकालाव- च्छेदेन प्रकृतानुकूलत्वं प्रकृतोपपादकत्वं वा । एवमपि विशेषलक्षणसमन्वयेपि सामान्यलक्षणस्यान- न्तर्याभिधानघटितत्वेनास सूत्रस्य च प्राथम्यान्न नैयायिक लक्षणसमन्वयः । किंतु, अधिकरणस्य पञ्चावयवत्वेन 'अथातो ब्रह्मजिज्ञासा' इति सावधानपुरुषप्रयुज्यमानवाक्यप्रयोजनकप्रकृतोपपाद- कत्वावच्छेदेन ब्रह्मभक्तिविचारत्वेन रूपेण स्मृतस्य ब्रह्मभक्तिविचारस्योपेक्षानर्हत्वमिलेवं संगति- सिद्धान्तलक्षणसमन्वय इति बोध्यम् । इदं चेक्षत्यधिकरणे संगतिग्रन्थनिरूपणावसरे स्फुटमुप- पाद्यम्, इयं चाध्यायानां पादानां च संगतिः । त्रिपदं जिज्ञासासूत्रं अथातो ब्रह्मजिज्ञासेति । तत्र अतःशब्दार्थः स्वयमग्रे वक्तव्यः । तस्याधिकरणरचनानुपयोगात् । ब्रह्मशब्दार्थो वेदान्ता- नामिति । जिज्ञासाशब्दार्थो विचारः । अथशब्दार्थः आरम्भः । कर्तव्यादिपदाध्याहारापेक्षयारम्भो घञन्तादिरत आरम्भणीयो रमिरनीयर्प्रत्ययान्तः । अत उक्तं वेदान्तानां विचार आरम्भणीयो नवेति । अत्र प्रतीतार्थग्रहिलवादी तु शङ्कते नन्वत्रेति । असौत्रेति । सौत्रः प्रतीतोर्थः तद्भिन्नत्वात् । तद्विषयादिकमाहुः विषयादिकमाहुरिति । सूत्रे ब्रह्मपदस्य वेदेपि वृत्तिदर्शनेन तत्संबन्धि- वेदान्तानां सूचनेन ब्रह्मपरत्वेपि ब्रह्मजिज्ञासेति शेषषष्ठया समासस्य वक्ष्यमाणत्वेन च जिज्ञासा- पदस्य विचारार्थकत्वस्य च तथात्वेनाथशब्दस्यारम्भापरपर्यायाधिकारार्थत्वस्यापि तथात्वेनायमेव विषयादिरित्याशयेन विषयादिकमाहुरित्यर्थः । वेदान्तानां विचार आरम्भणीयो न वेति भाष्यात् । आरम्भार्थ उद्यम एवोत्तरत्रानुवृत्तिरूपाधिकारनिवेशाच्चेति । तथाहि, उद्यमत्वे सत्युत्तरत्रानुवृत्तिरासमन्तात् ताच्छ्दारम्भार्थः । भाष्ये विचार इति । सूत्रैर्वस्तुतस्तत्परीक्षण- मित्यर्थः । मीमांसेति यावत् । शेषे षष्ठी । अन्यथा, 'स्मृतेश्च' इत्यादिसूत्रेषु स्मृतीनां विचारकर्मता १ प्र० सू० २ ० 9