अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 97, कुल 2600 में से
संदर्भ में पढ़ेंकिंतु ब्रह्मजिज्ञासा कार्या न वा, ब्रह्म जिज्ञास्यं न वा, इत्येवं सूत्रानुसरणाद् युक्त इति चेन्न । तपोप- न्यासे, 'तपसा ब्रह्म विजिज्ञासस्व' इतिश्रुत्या तपस एवोपदेशात् तद्विहाय व्यासपादैः किमिति वेदान्तवाक्यानि विचार्यन्ते, तपः कुतो नोपदिश्यत इत्याशङ्का स्यात्, श्रुतिविरुद्धत्वं च मायात् । एवमुपन्यासे त्वधीतवेदस्य, 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतिस्फुरणादस्यां च श्रुतार्थनिश्चयं प्रति वेदान्तविज्ञानस्य हेतुताकथनात् तस्य च विचारसाध्यत्वात् तत्स्फूर्त्या- च्छङ्कोदयाद् युक्त इति । किंच । जिज्ञासापदस्य च यौगिकार्थ एव प्रायः प्रसिद्ध इति ब्रह्मज्ञानेच्छा कर्तव्या न वा, ब्रह्म ज्ञानेच्छाविषयं कार्यं न वेति प्रथमो बोधे, ततस्तावन्मात्रस्यापुरुषार्थत्वात् तत्रानु- पपत्तौ भातायां पश्चाद् विचारं लक्षयित्वा ततस्तत्कर्तव्यत्वादिकं विचार्यम् । तदपि वेदान्तैरेव वक्ष्यमाणरीत्या विचार्यम् । अन्यथाकस्मिकता स्यात् । अत आवश्यकत्वादपि युक्तः । न स्यात् । स्मृतयो विचार्यन्त इति । कर्मषष्ठ्या स्मृतीनां विचारकर्मत्वात् । तथाच कर्मषष्ठीपरिग्रहे प्रतिज्ञाहान्याख्यनिग्रहस्थानापत्तिः । प्रकृते किंतु ब्रह्मेति । ब्रह्मपदेन वेदान्ताः । अन्वयोऽनुपपत्त्या अध्याहारनिवृत्तये वा पक्षान्तरमाहुः ब्रह्म जिज्ञास्यं न वेति । तपसेति । नन्वियं श्रुतिः ब्रह्मप्रत्यक्षात्मकज्ञानसाधनविचारसाधनं तपः संतापात्मकमाह, द्वितीयस्कन्धनवमाध्याये तथोक्तेः । वेदान्तवाक्यानि तुपाङ्गत्वेन विचार्यन्त इति उपाङ्गविषयत्वा- भावादिति चेत् तत्राहुः इत्याशङ्केति । तथा च तर्कस्यान्यथाज्ञानत्वादुपाङ्गविषयेऽपि प्रत्यक्षसाधक- विचारसाधनतपःप्रतिपादकश्रुतिस्फुरणमिति भावः । विचार्यन्त इति । सूत्रान्तरेषु विचार्यन्त इत्यर्थः । श्रुतिस्फुरणादिति । नन्वितिकरणाभावात् कथं वेदान्तानामिति पदस्य 'वेदान्तविज्ञाने'ति श्रुतौ वेदान्तानामित्यन्तर्वर्तिविभक्तिमाश्रित्य वाक्यप्रतीकत्वमिति चेन्नैवम् । 'यावद्धस्तवत्सकाल्पकवपु- र्यावत्कराङ्गादिकम्' इत्युपक्रम्य 'सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ' इति प्रक्षिप्ताध्या- यश्लोके सर्वं विष्णुमयमिति पदद्वयसेतिकरणाभावेऽपि सर्वं विष्णुमयं जगदिति वाक्यप्रतीकतायाः श्रीधरैः स्वीकारात् । आचार्यैरप्येवमिति । नन्वेवमपि सूत्रेण 'तपसा ब्रह्म विजिज्ञासस्व' इति श्रुति- स्फुरणस्य दुर्निवारत्वेन तस्यां च तपसो ब्रह्मजिज्ञासाकारणतोपन्यासेन वेदान्तश्रुतिस्फुरणात्, तस्यां चार्थविचारस्य वेदान्तज्ञानकारणता, एवं चोभयोरर्थयोः स्फुरणमधिकम्, न तु शङ्कोदय इत्यरुच्याहुः किंचेति । ब्रह्म, ज्ञानेच्छाविषयं कार्यं न वेति । क्रियाविशेषणत्वाद्वितीयान्तम्, आर्द्रं पचतीतिवत् । सन्प्रत्ययान्तधातुपस्थाप्यक्रियाविशेषणानां कर्मत्वमिति व्युत्पत्तेः । उभय- लिङ्गता वा विषयपदस्य । तत्रेति यौगिकार्थे इत्यर्थः । लक्षयित्वेति असाध्यत्वात्स्व- संबन्धेन लक्षयित्वेत्यर्थः । नन्वेवमपि स्फुरितश्रुतिविरोधो नापैतीति चेत् न । तपो न मुख्य- साधनमित्यानन्दमयाधिकरणे वक्ष्यमाणत्वादिति, करणाभावश्रुतेरस्फुरणमेव वा । न्यायस्य काचि-