भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 98, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 98

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ११ भाष्यप्रकाशः। किंच। व्यासप्रवृत्तिबीजबोधनार्थत्वेनापि युक्तः। तथाहि । प्रथमस्कन्धे चतुर्थाध्याये 'द्वापरे समनुप्राप्ते' इत्यारभ्य, 'एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः' इत्यन्तेन सर्वेषां श्रेयोऽर्थं प्रवृत्तिर्व्यासचरणानामुक्ता। पञ्चमे च, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति नारदेन ब्रह्मविचारान्तायाः कृतेस्तथात्वं बोधितम् । तथाच ज्ञानविधिनार्थज्ञानार्थं प्रवृत्तानपि यदा जैमिनीयादिदर्शनैरेकदेशीयविरुद्धज्ञानवतो दृष्टवांस्तदा भारतकरणोत्तरमत्र प्रवृत्तः वेदार्थनिश्चयो वेदान्तार्थनिश्चयं विना न भविष्यतीति । अत एवात्राग्रे वेदान्तवाक्यैरेव ब्रह्म- विचारदर्शनं ब्रह्मणि सर्ववेदार्थत्वस्याग्रे स्थाप्यत्वाच्च । तदर्थं वेदान्तविचारावश्यकत्वमवश्यं साधनीयम् । तेन तत्र हेत्वाकाङ्क्षोपशमात् । अतस्तदुप