भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 99, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 99

१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ किं तावत् प्राप्तम् । नारम्भणीय इति । कुतः । साङ्गोऽध्येयस्तथा ज्ञेयो वेदः भाष्यप्रकाशः। तत्र विषयो नामापाततः प्रतिपन्नः संदिग्धोऽर्थः । तादृशश्चात्र वेदान्तविचारो न तु वेदा- न्ताः । तेषामग्रिमसूत्रेषु विचार्यत्वात् । विशयः संशयः । एकधर्मिकविरुद्धकोटिद्वयावगाहि ज्ञानम् । तदाकारश्चात्र, आरम्भणीयो न वेत्यनेनोक्तः । पूर्वपक्षः प्रतिवादिमतम् । तदाहुः नारम्भणीय इति । तत्र पृच्छति कुत इति । 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतावर्थनिश्चयं प्रति वेदान्तवि- ज्ञानस्य हेतुताबोधनाद् विचारं विना च तदसंभवात् स आवश्यक इति कुतो नेत्युच्यत इत्यर्थः । एवं प्रश्ने प्रतिवादी अनारम्भणीयतामुपपादयन् गृह्णाति साङ्ग इत्यादि । अयमर्थः । वेदान्तवि- चारस्यारम्भणीयत्वं वदता सिद्धान्तिना विधिप्रयुक्त्यारम्भणीयत्वं वक्तव्यम् । तत्र विचारे प्रत्यक्ष- विधेरदर्शनात् कथंचिद् कुतश्चिद् वैधत्वं साधनीयम् । ततश्च कर्मादिविधिभ्यस्तत्सिद्धेरसंभवाद- ध्ययनादिविधिभ्यः साधनीयम् । तत्र, 'स्वाध्यायोऽध्येतव्यः' इत्येकः । 'अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत' इत्यपरः । 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्यन्यः । एते त्रयः पूर्वकाण्डस्थाः । 'श्रोतव्यः' इत्यादिरुत्तरकाण्डस्थश्चेतरः । तत्र भाट्टास्तावदेवं मन्यन्ते । अध्ययनविधेरक्षरग्रहणमात्रपर्यवसानेऽदृष्टकल्पनापत्तेरर्थज्ञान- रूपदृष्टफलार्थतैव युक्ता । न च विमतं वेदाध्ययनमर्थज्ञानहेतुरध्ययनत्वाद् भारताध्ययनवदित्य- नुमानेनाध्ययनस्य स्वाध्यायसंस्कारद्वाराऽर्थज्ञानहेतुत्वप्राप्तेर्न तावत्पर्यन्तं विधिव्यापारो युक्त इति वाच्यम् । विमतं वेदाध्ययनं नार्थज्ञानहेतुर्वेदाध्ययनत्वादाधुनिकाध्ययनवदिति प्रत्यनुमानेन तद्बाधात् । न च लोकेऽवगतसामर्थ्यानां शब्दानां वेदेऽपि बोधकत्वान्लिखितपाठादिनाऽप्यर्थ- ज्ञानसंभवादर्थबलादेव तत्प्राप्तेरर्थज्ञानांशे तस्यापूर्वविधित्वाभावाच्च तत्पर्यन्तं विधिव्यापारो युज्यत रश्मिः । तत्र विषय इत्यादि । वेदान्तविचार इति । 'जन्माद्यस्य यतः' इत्यारभ्य 'अनावृत्तिः शब्दादना- वृत्तिः शब्दात्' इत्यन्तसूत्रजातं ब्रह्मविचारशास्त्रं तत्तादृशमित्यर्थः । वेदान्तविज्ञानेति बुद्धिविज्ञानं मन्तव्यमिति प्रसिद्धश्रुतिमपहाय श्रुत्यन्तरोपन्यासोनेकस्मृत्यनुगृहीतत्वार्थः । तदसंभवा- दिति । वेदान्तविज्ञानजन्यनिश्चितार्थे सुष्ठु ( असंदिग्धोपि वेदार्थ इति भाष्येप्याह ) तस्यासं- भवादित्यर्थः । गृह्णातीति हेतून् संगृह्णातीत्यर्थः । यदि च प्रतीकमत्र कर्मत्वेनान्वेति तदा तु ज्ञेयोपि पूरणीयः । प्रथमप्रतीकेपि सूत्रविशेषणं भवितुमर्हति प्रतीकं 'अथातो ब्रह्मजिज्ञासा'इति सूत्रमेवादौ पठन्तीति । तथा च त्रेधान्वयः प्रतीकस्य कर्मत्वेनाऽभेदेन करणत्वेन चेति सिद्धम् । तत्र स्वाध्याय इत्यादि । अत्रार्धं वाक्यं तैत्तिरीयब्राह्मणस्थम्, अन्यद्वाक्यद्वयं शाखान्तरीयम् । अध्यापयीतेत्यत्राध्यापयेदिति केचित् पठन्ति, तृतीयं च 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽ- ध्येयो ज्ञेयश्च' इति पठन्ति । स्वाध्यायसंस्कारद्वारेति । 'अपहतपाप्मा स्वाध्यायो देवपवित्र- मिति' श्रुतेरपहतपाप्मत्वमादिपदोक्तमयातयामित्वं च तद्रूपसंस्कारद्वारेत्यर्थः । अथवा स्वाध्याय एव संस्कारस्तद्वारेत्यर्थः । अध्ययनं वेदे स्वाध्यायतासंपादनं यदर्थज्ञानहेतुरिति यावत् । विधि- व्यापार इति शाब्दी प्रवर्त्तनेत्यर्थः । दृष्टान्तवैषम्यान्नियमविधिमाश्रित्य शङ्कां निषेधति 12