अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 966, कुल 2600 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमविरचिता । ४१ सर्वभगवद्गुणोपसंहारः ज्ञानभक्त्यर्थं विचारितः । ततश्चित्तिरावेशिनि गुरुप्रतिमादावाविष्टे रूपे तदनु- पसंहारः केवलभक्त्यर्थं विचारितः ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे पुरुषविद्यायामित्यधिकरणे उत्तमाधिकारिभिरशेषगुणपूर्णं परं ब्रह्मै- वोपास्यम्, न विभूतिरूपमिति साधितम् । आध्यात्मिकेषु विभूतिरूपेषु सर्वगुणानुपसंहारेऽसाधारण- गुणानामानन्दपो हेतुश्चोक्तः ॥ ४ ॥ ततः पञ्चमे द्विसूत्रे वेधाद्यधिकरणे पूर्वसूत्रेणासन्यरूपे चेतनविभूतौ भगवत्संबन्धाद्यो- षाभावनिरूपणात्कैमुतिकन्यायेन मूलरूपस्य निर्दोषत्वं समर्थितम्, आधिभौतिकरूपाणां जीवानां सदोषत्वं च बोधितम् । ततो द्वितीये सूत्रे तत्सदोषत्वं भगवत्सकाशात् विभागदशायामेव, तथा सति मुक्तिदशायां तारतम्याभावे प्राप्ते भगवत्तुल्यतापि स्यादिति