अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 967, कुल 2600 में से
संदर्भ में पढ़ें४२ वेदान्ताधिकरणमाला । ततो द्वादशे त्रिसूत्रेऽन्तरा भूतग्रामवदित्यधिकरणे श्रुतावसंग्रहोपासनस्य मुख्यलक्ष- णत्वात् ज्ञाने भक्तौ च तस्य तुल्यत्वादुभयोस्तौल्यस्य ज्ञानाधिक्यस्य वा प्राप्तौ तस्या उपासनाया भक्त्येकदेशकथनेन ज्ञानापेक्षया मुख्यभक्तेर्विरहरूपान्तरंगसाधनत उत्कर्षः पूर्वोक्तसंगत्या प्रति- पादितः ॥ १२ ॥ ततस्त्रयोदशे द्विसूत्रे सैव हीत्यधिकरणे प्रथमसूत्रेण विहिताविहितरूपाया द्विविधाया अपि मध्यमभक्तेः पूर्वोक्तसंगत्या साधनत उत्कर्षः प्रतिपादितः । द्वितीयसूत्रेण भगवद्विषयककामा- दीनामपि मुक्तिफलकत्वकथनेन मुक्तौ भगवद्विषयकत्वरूपसाक्षात्संबंधस्यैव मुक्तिसाधनतावच्छेदक- त्वम्, न तु ज्ञानत्वं भक्तित्वं वेति निरूपितम् ॥ १३ ॥ ततश्चतुर्दशे द्विसूत्रे आदरादित्यधिकरणे कैमुतिकन्यायेन कर्मापेक्षया भक्तिसाधनाना- मुत्कर्षः कर्मिप्रत्यवस्थाननिवृत्त्यर्थं प्रतिपादितः ॥ १४ ॥ ततः पंचदशे एकसूत्रे तन्निर्धारणाधिकरणे स्वश्रुतवेदमर्यादारक्षार्थं विहिताविहितभक्ति- मार्गीयस्य कर्मकरणाकरणयोर्हेतुफले बोधिते । द्वितीयपक्षेपि मुख्यभक्तेः पूर्वोक्तमच्छिद्रत्वाद्युत्कर्षः साधनतः फलतश्च प्रसंगात् प्रतिपादितः ॥ १५ ॥ ततः षोडशे प्रदानवदित्यधिकरणे सर्वात्मभावात्मकमुख्यभक्तेर्विहितयावत्साधनसाध्यत्व- निराकरणेन वरदानवत्प्राप्तिरित्युक्तम् ॥ १६ ॥ ततः सप्तदशे दशसूत्रात्मके लिंगभूयस्त्वाधिकरणे सर्वात्मभावात्मकमुख्यभक्तेः स्वरूपमंतरंगतमत्वकाष्ठाबोधनार्थं श्रुतिवाक्यैः प्रपंचितम् ॥ १७ ॥ ततोऽष्टादशे त्रिसूत्रे व्यतिरेकाधिकरणे ज्ञानिनां पूर्णाक्षरज्ञानाभावस्य प्रतिपादनेन अग्रिमसूत्रद्वये निदर्शनकथनेन च भक्तानां पूर्णतज्ज्ञानकथनात्सर्वात्मभावरूपमुख्यभक्तिफलस्य योग्यस्य पुरुषोत्तमज्ञानमध्यमभक्तिफलरूपपुरुषोत्तमसायुज्यादाधिक्यमर्थतः प्रतिपादितम् ॥ १८ ॥ तत ऊनविंशे एकसूत्रे भूम्न इत्यधिकरणे फलविचारेण सर्वात्मभावस्य साधनदशायां दुःखरूपदोषः परिहृतः ॥ १९ ॥ एवं च पंचदशभिरधिकरणैः संबंधिरूपमार्गस्तत्तारतम्यं च निरूपितम् । एवं स्वरूपपरासू- पासनासु तारतम्यबोधनेन तासु तासु तत्तज्ज्ञानोपयोगिनो गुणा उपसंहार्थ्या इति पादार्थसंगतिः । ततो विंशे एकसूत्रे नानाशब्दादिभेदादित्यधिकरणे ततो न्यूनासु सत्त्वोपहितावतार- रूपोपासनासु नानात्वं विचारितम् ॥ २० ॥ ततोऽग्रिमे एकसूत्रे एकविंशे तासां तासां विकल्पो विचारितः । गुणोपसंहारस्तु तत्तज्ज्ञा- नोपभोग्येवेति पूर्वोक्तैव व्यवस्था ॥ २१ ॥ ततो द्वाविंशे काम्योपासनासु समुच्चयविकल्पौ यथाकामं विचारितौ, तेन तासु तत्तत्कामो- पयोगी गुणोपसंहारो बोधितः ॥ २२ ॥ ततस्त्रयोविंशे द्विसूत्रे अंगेष्वित्यधिकरणे उपासनांगानां क्रतूनामप्यनित्यत्वं प्रसंगा- द्विचारितम् ॥ २३ ॥ 870