भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

४२ वेदान्ताधिकरणमाला । ततो द्वादशे त्रिसूत्रेऽन्तरा भूतग्रामवदित्यधिकरणे श्रुतावसंग्रहोपासनस्य मुख्यलक्ष- णत्वात् ज्ञाने भक्तौ च तस्य तुल्यत्वादुभयोस्तौल्यस्य ज्ञानाधिक्यस्य वा प्राप्तौ तस्या उपासनाया भक्त्येकदेशकथनेन ज्ञानापेक्षया मुख्यभक्तेर्विरहरूपान्तरंगसाधनत उत्कर्षः पूर्वोक्तसंगत्या प्रति- पादितः ॥ १२ ॥ ततस्त्रयोदशे द्विसूत्रे सैव हीत्यधिकरणे प्रथमसूत्रेण विहिताविहितरूपाया द्विविधाया अपि मध्यमभक्तेः पूर्वोक्तसंगत्या साधनत उत्कर्षः प्रतिपादितः । द्वितीयसूत्रेण भगवद्विषयककामा- दीनामपि मुक्तिफलकत्वकथनेन मुक्तौ भगवद्विषयकत्वरूपसाक्षात्संबंधस्यैव मुक्तिसाधनतावच्छेदक- त्वम्, न तु ज्ञानत्वं भक्तित्वं वेति निरूपितम् ॥ १३ ॥ ततश्चतुर्दशे द्विसूत्रे आदरादित्यधिकरणे कैमुतिकन्यायेन कर्मापेक्षया भक्तिसाधनाना- मुत्कर्षः कर्मिप्रत्यवस्थाननिवृत्त्यर्थं प्रतिपादितः ॥ १४ ॥ ततः पंचदशे एकसूत्रे तन्निर्धारणाधिकरणे स्वश्रुतवेदमर्यादारक्षार्थं विहिताविहितभक्ति- मार्गीयस्य कर्मकरणाकरणयोर्हेतुफले बोधिते । द्वितीयपक्षेपि मुख्यभक्तेः पूर्वोक्तमच्छिद्रत्वाद्युत्कर्षः साधनतः फलतश्च प्रसंगात् प्रतिपादितः ॥ १५ ॥ ततः षोडशे प्रदानवदित्यधिकरणे सर्वात्मभावात्मकमुख्यभक्तेर्विहितयावत्साधनसाध्यत्व- निराकरणेन वरदानवत्प्राप्तिरित्युक्तम् ॥ १६ ॥ ततः सप्तदशे दशसूत्रात्मके लिंगभूयस्त्वाधिकरणे सर्वात्मभावात्मकमुख्यभक्तेः स्वरूपमंतरंगतमत्वकाष्ठाबोधनार्थं श्रुतिवाक्यैः प्रपंचितम् ॥ १७ ॥ ततोऽष्टादशे त्रिसूत्रे व्यतिरेकाधिकरणे ज्ञानिनां पूर्णाक्षरज्ञानाभावस्य प्रतिपादनेन अग्रिमसूत्रद्वये निदर्शनकथनेन च भक्तानां पूर्णतज्ज्ञानकथनात्सर्वात्मभावरूपमुख्यभक्तिफलस्य योग्यस्य पुरुषोत्तमज्ञानमध्यमभक्तिफलरूपपुरुषोत्तमसायुज्यादाधिक्यमर्थतः प्रतिपादितम् ॥ १८ ॥ तत ऊनविंशे एकसूत्रे भूम्न इत्यधिकरणे फलविचारेण सर्वात्मभावस्य साधनदशायां दुःखरूपदोषः परिहृतः ॥ १९ ॥ एवं च पंचदशभिरधिकरणैः संबंधिरूपमार्गस्तत्तारतम्यं च निरूपितम् । एवं स्वरूपपरासू- पासनासु तारतम्यबोधनेन तासु तासु तत्तज्ज्ञानोपयोगिनो गुणा उपसंहार्थ्या इति पादार्थसंगतिः । ततो विंशे एकसूत्रे नानाशब्दादिभेदादित्यधिकरणे ततो न्यूनासु सत्त्वोपहितावतार- रूपोपासनासु नानात्वं विचारितम् ॥ २० ॥ ततोऽग्रिमे एकसूत्रे एकविंशे तासां तासां विकल्पो विचारितः । गुणोपसंहारस्तु तत्तज्ज्ञा- नोपभोग्येवेति पूर्वोक्तैव व्यवस्था ॥ २१ ॥ ततो द्वाविंशे काम्योपासनासु समुच्चयविकल्पौ यथाकामं विचारितौ, तेन तासु तत्तत्कामो- पयोगी गुणोपसंहारो बोधितः ॥ २२ ॥ ततस्त्रयोविंशे द्विसूत्रे अंगेष्वित्यधिकरणे उपासनांगानां क्रतूनामप्यनित्यत्वं प्रसंगा- द्विचारितम् ॥ २३ ॥ 870

[Header] श्रीपुरुषोत्तमविरचिता । ४१ [Divider] .ततोऽस्मिंसे द्वित्रिसूत्रे समाहारादिलिङ्गाधिकरणद्वये ज्ञानमार्गीयोपासनासु सर्वगुणोपसंहा- रानुपसंहारावधिकारादिभेदेन विचारितौ । तेन ज्ञानमार्गीयो विचार एवात्र मुख्यो, भक्तिमार्गविचा- रस्तु भक्तौ भगवत्कृपारूपस्याधिकस्य साधनस्य प्रवेशाच्च सर्वोपयोगी यद्यपि, तथापि शास्त्रारंभे ब्रह्मसंबन्धिजिज्ञासाप्रतिज्ञानुरोधात्कृतः, तत्प्रयोजनं त्वग्रि- मपादे 'भक्तिमार्गप्रचारैकहृदयो बादरायण' इति श्लोकेन वक्तव्यमिति ॥२४,२५॥ इति श्रीवल्लभाचार्यचरणरजःदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ [Divider] वेदान्तेषु कर्माङ्गभूता उद्गीथाद्युपासना उक्ताः । आचार्येणापि अङ्गेषु यथाश्रयभाव इत्यादिना पूर्वपादान्ते ता विचारिताः । भाष्यकारैरपि प्राचीनवृत्तिकारादिसंमतं

४४ वेदान्ताधिकरणमाला ।

ततस्तत्फलं किं, कथं च तस्य ज्ञानफलदाधिक्यमित्याकांक्षायां चतुर्थे एकसूत्रे तद्भूतस्ये- त्यधिकरणे भगवद्धर्माणां साधनदशायामुत्कृष्टत्वेपि फलदशायां मुक्तिभवने फलतो न कश्चिद्विशेष इत्याशंक्य, नियमादिभिर्हेतुभिस्तस्य नित्यत्वं, भक्तानां मुक्त्यनिच्छया तत आधिक्यं च मुख्य- भक्तिमार्गोत्कर्षार्थ प्रसंगात्प्रतिपादितम् ॥ ४ ॥ ततः पंचमे द्विसूत्रे न चाधिकारिकमित्यधिकरणे मर्यादापुष्टस्यापि यत् भगवदीयत्व- रूपमंतरंगिष्ठारूपं यत्फलं तन्नित्यं, ज्ञानमार्गियमुक्तेः सकाशादधिकमित्यनुप्रसंगेन निरूपितम् । एवमधिकरणद्वयेन पूर्वोक्तकर्मोपसंहारप्रकारे बीजं बोधितम् ॥ ५ ॥ ततः षष्ठे चतुःसूत्रे बहिस्तूभयथेत्यधिकरणे सर्वविधस्य पुष्टिमार्गीयस्य आश्रमरूप- संन्यासधर्मानुपसंहारार्थं साधनत उत्कर्षबोधनायानुप्रसंगेन गृहत्यागो विचारितः । स च मध्यमा- धिकारे एवेति फलति ॥ ६ ॥ ततः सप्तमे एकसूत्रे सहकार्यंतराधिकरणे गृहत्यागिनो मर्यादापुष्टिमार्गीयस्य शमादिकं भावनासहकारित्वेन कर्तव्यम्, पुष्ट्यंशबाहुल्ये तु तेनापि भावनामात्रमेव कर्तव्यमिति साधन- व्यवस्थाऽनुप्रसंगाद् दर्शिता ॥ ७ ॥ ततोऽष्टमे चतुःसूत्रे गृहिणोपसंहाराधिकरणे, प्रथमसूत्रेण पूर्वोक्तेभ्यो जघन्याधिकारिणां त्यागानुकल्परूपं गृहे स्थित्वा भगवद्भजनं कर्तव्यमिति विचार्य, द्वितीयादिभिस्तस्य करणप्रकारस्तदा- धिक्यं, भगवद्भावस्य लोकेष्वप्रकटनं, भगवद्भजनव्यतिरिक्तसमये लौकिककरणं, गृहिणोपसंहार- श्रुतिमनुसृत्यानुप्रसंगाद्विचारितम् । तेन विहितत्वाच्चाश्रमकर्मापीत्यनेन यत्पूर्वमुक्तं तस्य प्रकारो बोधितः ॥ ८ ॥ ततो नवमे एकसूत्रे एवं मुक्तिफलानियम इत्यधिकरणे तादृशस्य देहपातोत्तरं मुक्तिर्वा भगवदीयत्वं वेति संशये मुक्तिस्तु नियतैव, भगवदीयत्वं तु भगवत्कृपाधीनमित्यनियमो निर्णीतः । तेनानुकल्पोपि मर्यादामार्गादधिकः, निरवद्यानंदपुरुषोत्तमसायुज्यादिति ॥ ९ ॥ एवमस्मिन्पादे बहिरंगविचारेण सप्रकारः कर्मोपसंहारो दर्शितः । एवमस्मिन्नध्याये चतुर्भिः पादैः सर्वसाधनं सप्रकारमुपदिष्टम् ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः । तृतीयाध्यायः समाप्तः ।

चतुर्थोध्यायः । अथ चतुर्थाध्यायेऽवसरसंगत्या फलं निरूप्यते । तच्च फलं ब्रह्मविद इति चतुर्भिः पादै- र्जीवतो म्रियमाणस्य गच्छतः प्राप्तफलस्य च क्रमेण तस्य यथाधिकारमवस्था निरूप्यंते । तत्र प्रथमपादस्य द्विसूत्रे प्रथमेधिकरणे प्रथमवर्णकेन श्रवणादीनामवांतरफलसद्भाव तेषामावृत्तिः कर्तव्येत्युच्यते । तेन पूर्वपादांते गृहिणोपसंहारे सर्वेद्रियाणामात्मनि प्रतिष्ठापनमुक्तम्, तत्प्रकारोत्र दर्शित इति पूर्वेण सह प्रकारप्रकारिभावः संगतिरिति बोध्यम् । द्वितीयवर्णकेन तु

872

श्रीपुरुषोत्तमविरचिता । ४५ ज्ञानभक्त्योः फलत उत्कृष्टत्वाय कर्ममार्ग आवृत्तिव्युत्पादनेन फलजघन्यत्वमपि बोधितम् । तेन कर्मणि तत्फले चानासक्तिरपि तत्प्रकारत्वेन बोध्यत इति सैव पूर्वेण सह संगतिरिति बोध्यम् ॥ १ ॥ ततो द्वितीये त्रिसूत्रे आत्मेतीत्यधिकरणे प्रथमवर्णकेन ज्ञानफलं द्विविधं विचार्यते । मुख्यं त्वात्मप्रवेशरूपमनश्वरम्, द्वितीयं त्वधिकार्युपस्थितेषु तेभ्यो ज्ञानोपदेशरूपमवान्तरफलम्, भगवदाज्ञापरिपालनात्मकम्, न त्वाचार्यत्वकामनाकृतमित्युच्यते । द्वितीये ननु 'न स पुनरावर्तत' इतिश्रुत्युक्तो ज्ञानभक्त्योः फलरूपः पुनरावृत्यभावः किं सावधिक उत निरवधिक इत्याशंकायाम्, निरवधिक इति सिद्धांत उच्यते । नित्ये भगवद्रूप आत्मनि ब्रह्मविदो जीवात्मनः शुद्धजले जलस्येव प्रवेशेन ताहक्त्वस्यैव श्रुतावुक्तत्वादिति, भक्तिमार्गे च भगवतो मुक्तोपसृप्यत्वेन सेवार्थं तन्निकट- [

'? No, it is 'उभयोर्मुख्यमानत्वेपि'.

Let's check every line carefully from L1 to L33:

कार्यायैव, येषामग्निहोत्रकरणरूपं प्रारब्धमस्ति तेषां तत्करणरूपेण भोगेन तन्निवृत्तेः, न तु तस्य कर्मणः संश्लेष इत्युक्तम् । तेन मर्यादामार्गीयस्य कर्मसंसर्गाभाव इत्यनेनाधिकरणेनावसराद्वा प्रसङ्गाद्वा साधितम् ॥ ६ ॥ ततः सप्तमे त्रिसूत्रे अतोऽन्यापीत्यधिकरणे पुष्टिमार्गीयस्य 'तस्य पुत्रा दायमुपयंति सुहृदः साधुकृत्याम् द्विषंतः पापकृत्या'मिति श्रुतिबलाद् विनैव भोगं प्रारब्धनिवृत्तिरिति प्रथमसूत्रे उच्यते । ततो द्वितीये 'यदेव विद्यये'ति श्रुत्या ब्रह्मविदः कर्मकरणप्राप्तौ तत्संश्लेषमाशंक्य, इदं वाक्यं कर्मांगभूतोद्गीथोपासनाविषयम्, न तु ब्रह्मविद्याविषयम्, अतो न तस्य आपादयितुं शक्यते कर्मसंश्लेषो ब्रह्मविदः । किंच, यद्यनया कर्मकरणं प्रस

विहितसाधनं विनैव मोचनेच्छा पुष्टिमार्गमर्यादा । अतस्तयोः संकरः कदापि न भवतीति विशिष्टे- च्छया आधिक्यमुक्तम् । ततो द्वितीये पुष्टिमार्गीयमुक्तिदशायां मर्यादामागींयमुक्तेः संसारतौल्यव्य- पदेश इत्युक्तम्, तेन पुष्टिमार्गस्याधिक्यं सूच्यते । ततस्तृतीये यदि तस्याः संसारतुल्यत्वं तदा तस्या हेयत्वं स्यात्, तद्बोधकश्रुतेः प्रतारकत्वं चेत्याशंकायाम्, पुष्टिमार्गीयं तत्त्वं दुर्ज्ञेयम् । अतस्त- दज्ञानान्मर्यादामार्गीयमुक्तिर्येषामीप्सिता तान् प्रति तामेवोपादेयत्वेन श्रुतिर्वदति, रागिणः प्रति स्वर्गादि उपदिश्यते (तद्वत् । ततश्चतुर्थे तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि स्वमार्गोपदेशनं क्वचिच्छू- येत), यतो नैवम्, अतो नैवमित्याशंकायाम्, तदनुपदेशने बीजमाह । पुष्टिमार्गीयाणां हि अवस्था- द्वयम्, विरहः प्रियसंगो वा । तत्राद्ये स्वास्थ्याभावान्नोपदेशः । द्वितीये तु भगवत्संनिधानेन तदग्रे धार्ष्ट्यं कर्तुमशक्यत्वान्नोपदेशः । अत उपदेशाभावान्न तस्यासत्ता वक्तुं शक्येत्युक्तम् । ततः पंचमे भगवदीयानां विरह एव कथमित्याशंकायाम्, पुष्टिमार्गे भगवतो रसात्मकत्वस्यैव प्राकट्यात् तेनैव तदुपपत्तिरिति युक्त्या समाहितम् । ततः षष्ठे विरहांगीकारे श्रुतिविरोधमाशंक्य, श्रुतौ शरीर- संबंधिन एव दुःखस्य निषेधो, न भगवद्विरहजन्यस्येत्येवं समाहितम् । ततः सप्तमे श्रुत्या, अष्टमे च स्मृत्या तद्दृढीकृतम् । ततो नवमे सर्वासां रसावस्थानां सत्ता श्रीगोकुल एव विद्यत इति श्रुत्या व्यवस्थापितम् । एवं पंचभिः सूत्रैः प्रमाणपूर्वकं रसावस्थास्थापनेन पुष्टिमार्गस्य सर्वोत्कृष्टत्वं व्यव- स्थापितम् । अतः पुष्टिमर्यादायामुपदेशेपि न कश्चिद् दोष इत्यर्थात् सूचितं भवति ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे अविभागो वचनादित्यधिकरणे प्रसंगात् पुष्टिमार्गीयस्य नित्य- लीलारूपफलानुभवस्य नित्यत्वं मर्यादामार्गात् फलतो विशेषप्रतिपादनाय विचारितम् ॥ ४ ॥ ततः पंचमे एकसूत्रे तदोकोऽग्रज्वलनाधिकरणे मर्यादामार्गीयस्य ब्रह्माण्डमध्ये सद्यो मुक्तिप्रकारो विचारितः । तदग्रिमे च अवसरसंगत्या मर्यादामार्गीयस्य जीवोत्क्रांत्यनन्तरं क्रममुक्ति- प्रकार उच्यते । तत्र साधारणस्यापि जीवस्य इंद्रियरूपाभिस्तेजोमात्राभिः सहैव येन केनचिद्वारेण निर्गमनम्, तथापि यस्य साधनेन ( परमात्मा तुष्टः, ) स जीवस्तु एकशतनाडीषु या शताधिका मूर्धन्या नाडी, तया ऊर्ध्वं त ‘क्त्या’ निष्क्रामति, साधनेन तुष्टो यो हृदयवर्ती परमात्मा तदनु- ग्रहाद्विद्यासामर्थ्याच्च या भगवत्स्मृतिपरंपरा, तया तस्यानुग्रहः, तेन मूर्धन्यनाड्या निष्क्रमणमि- त्युक्तम् ॥ ५ ॥ ततः षष्ठे चतुःसूत्रे रश्म्यनुसार्यधिकरणे । तत्र प्रथमसूत्रे यः क्रमेण मोक्षाधि- कारी रश्म्यनुसारी मूर्धन्यनाड्या निःसरति तस्यापि हृदयाग्रे प्रकाश इत्युक्तम् । ततो द्वितीये तृतीये च रात्रिकृतोऽयनकृतो विशेषश्च नास्तीत्युक्तम् । ततश्चतुर्थे स्मृतौ धूममार्गस्याप्युक्तत्वात् तत्र च रात्रिदक्षिणावयनादीनामुक्तत्वादर्चिरादिमार्गे च ज्योतिरुत्तरायणादीनामुक्तत्वान्मुच्यमानस्य कथं न विशेष इत्याशंक्य, स विशेषो योगिन एव, गती च ते स्मार्ते, अतो न ज्ञानिनः, तेन ज्ञानिन उत्क्रमणे सर्वोपि कालः समान इत्युक्तम् । एतस्य करणग्रामनिष्पत्तिस्तु यत्र प्रारब्धसमाप्तिस्तत्र मूतनेव भविष्यतीति ज्ञेयम् । उपक्रमे तन्मेवोक्तत्वादिति ॥ ६ ॥ १. विद्यांतर्गतत्वाद्भिन्न त्रुटितेति प्रतिभाति । २. इतः परं सूत्रत्रयं भिन्नाधिकरणत्वेन श्रीगोपेश्वरा इच्छंति, शांक- रभाष्यानुसारतः श्रीकल्याणरायाः । 875

४८ वेदान्ताधिकरणमाला ।

एवमस्मिन् पादे पुष्टिमर्यादामार्गीययोर्प्रियमाणावस्था विचारिता ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

अथ तृतीयपादे क्रममुक्त्यधिकारिणो ब्रह्मविदोर्चिरादिमार्गेण गच्छतो व्यवस्थावसर- प्राप्तोच्यते । तत्र प्रथमे चतुःसूत्रे अर्चिरादीत्यधिकरणे ज्ञानमार्गीयस्य भक्तस्य चेत्युभयोरर्चिरा- दिमार्गेण गमनम्, उत सद्योमुक्तिरितिसंशये, यथा ज्ञानिनो नियमाभावस्तथा भक्तस्यापीति पूर्वपक्षे, पंचाग्निविद्यायां ज्ञानमार्गीयाणामेवोपक्रांतत्वात्तेषामेव तेन मार्गेण गतिः, न तु भक्तस्यापीति निश्चीयते । ततस्त्रिभिः सूत्रैस्तन्मार्गपर्वनिर्धारः क्रियते । श्रुतिभेदेन पर्वभेदानामनेकोक्तत्वात् मार्गभेदे प्राप्ते देवयानस्य मार्गस्य श्रुत्यंतरे यदैक्यमुक्तं तद्विरोधसंभवात् । पर्वसु निर्धारितेषु तु यस्य यत्पर्व- भोगो भावी तं प्रति तत् पर्व, अन्यं प्रत्यन्यत् । यथा महामार्गे नानाग्रामेषु सत्स्वपि कस्यचित् कस्मिंश्चिद् ग्रामे अवांतरनिवासः, अन्यस्यान्यस्मिन् ग्रामे सः, तद्वत् । एवं पर्वभेदेप्युपपत्तौ ब्रह्म- लोकगमनसैक एवार्चिरादिमार्गों देवयानाख्यः सिध्यतीति निर्णीतम् ॥ १ ॥ ततो द्वितीये त्रिसूत्रे आतिवाहिकाधिकरणे तेन मार्गेण कथं गच्छतीत्याकांक्षाया- मवसरगर्मेण प्रसंगेन गमनप्रकारो निर्धार्यते । तत्र पर्वभूतविद्युल्लोकपर्यंतं विद्यासामर्थ्येनैव गच्छति । ततो विद्युल्लोके अमानवः पुरुषो ब्रह्मलोकगमयिता तत्रागत्य तं विद्युल्लोकस्थं गंतारं ब्रह्मलोकं प्रापय- तीति श्रावितम् । एवं सति येषां विद्युल्लोकमोगोस्ति ते वरुणादिलोकं गच्छंति । तत्र सः ब्रह्मलो- कप्रापयिता आयाति न वेति संशये, तत्राप्यायाति, श्रुत्यंतरे प्रजापतिलोकानंतरमपि ब्रह्मलोकसोक्त- त्वात्, ब्रह्मलोकप्रापयितॄणां पुरुषाणां च बहुत्वात्, यस्य यल्लोकभोगेन प्रारब्धसमाप्तिस्तं तत एव लोकाद्ब्रह्म प्रापयंतीति प्रथमसूत्रे निर्णीतम् । तेषां ब्रह्मलोकप्रापका ये पुरुषास्ते आतिवाहिकशब्दे- नोच्यंत इत्यपि । ततो द्वितीये सूत्रे अपुनरावृत्तिश्रुत्या देवयानं पंथानं प्राप्तानां ब्रह्मवित्त्वात्तेषां सद्योमुक्तिरेवोचितेति तेषामवांतरलोकभोगजनिका कामनैव कुतः । किंच, 'यत्कर्मभिर्यत्तपसे'ति भग- वद्वाक्ये मर्यादामक्तस्य या लोकांतरकामनोक्ता सापि कुतः । तेषां सद्योमुक्तेरेव प्रथमाधिकरणे निर्णी- तत्वादाशंक्य, केषांचित् ज्ञानिनां मर्यादामक्तानां व्यामोहितत्वात् सा । व्यामोहश्च लीलासिद्ध्यर्थं, येऽवांतर्लोकाः कृतास्तत्सृष्टिसार्थक्त्वाय भगवतैव क्रियते । अतो नानुपपत्तिरित्युक्तम् । ततस्तृ- तीयसूत्रे ये वरुणादिलोकं गतास्तेषां स्वत एव ब्रह्मप्राप्तिरस्तु । आतिवाहिकस्य विद्युल्लोकीयत्व- श्रावणेन तेषु लोकेषु तदभावादित्याशंक्य, श्रुतावातिवाहिकस्य न विद्युल्लोकीयत्वमभिप्रेतम् । 'पुरु- षोऽमानव एत्ये'ति श्रावणाद्ब्रह्मलोकीयत्वम् । वैद्युतत्वं तु तस्य विद्युल्लोकपर्यंतमागमनात् । अतो लोकांतरादपि ब्रह्मलोकप्राप्तावातिवाहिकापेक्षास्तीत्युक्तम् । किंच, वाजसनेयके 'ब्रह्मलोकान् गमय- ती'ति श्रावितम् । छांदोग्ये तु 'ब्रह्म गमयती'ति श्रावितम् । तेन मर्यादामार्गीयं भक्तं वैकुंठलोकान् गमयति । ज्ञानमार्गीयं त्वक्षरब्रह्म गमयतीत्यपि तत्र निर्णीतम् । एवमेतेन गमनप्रकारो निर्णीतः ॥२॥

876

ततस्तृतीये अष्टसूत्रे कार्यं बादरिरित्यधिकरणे पूर्वसूत्राधिकरणश्रुत्युक्तस्य प्राप्तव्यस्य ब्रह्मणः किमविकृतब्रह्मत्वम्, उत कार्यब्रह्मलोकत्वमिति संशये, प्रथमं पंचसूत्रैर्यद्बादरिमतमुक्तम्, तत्राधिकृतस्य परब्रह्मणो व्यापकत्वादग्नोक्तं गमनं न संगच्छते तस्मात् । किंच, श्रुत्यंतरे 'ब्रह्मलोका'- निति 'तेषु वसंती'ति च बहुत्वेन वासाधिकरणत्वेन च विशेषितत्वादपि तथा। तत्र ब्रह्मत्वव्यपदेशस्तु ब्रह्मसामीप्यात् । कल्पसमाप्तौ कार्यब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह तस्यापि चतुर्मुखवत् परब्रह्मप्राप्तेः श्रुतौ स्मृतौ चाभिधानादपि प्राप्यब्रह्मलोकोऽपर एव, न तु परब्रह्मेति पूर्वपक्षत्वेनोक्तम् । ततस्त्रिभिः सूत्रैर्जैमिनिमतं सिद्धांतत्वेनोक्तम् । तत्र प्रथमसूत्रे ब्रह्मशब्दस्य बृहत्त्वादिगुणविशि- ष्टत्वेन परस्मिन्नेव मुख्यवृत्तत्वात् गौण्याऽपरब्रह्मांगीकारो न युक्त इत्युक्तम् । ततो द्वितीये कौषीत- किश्रुतौ प्रजापतिलोकाद्ब्रह्मलोकस्य पार्थक्येनोक्तत्वात् छांदोग्ये अर्चिरादिमार्गप्राप्यत्वेन समाप्तौ 'ब्रह्म गमयती'त्युक्तत्वात् प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्य कुत्राप्यश्रवणाद्गमनस्य प्रारब्धहेतुकत्वेन विलंबप्राप्तेः संभवाच्च न गमनादिश्रुतिस्मृतिविरोध इत्युक्तम् । ततस्तृतीये 'ब्रह्मविदाप्नोति पर'मिति श्रुतौ परप्राप्तिर्या उक्ता सैवाग्रिमर्चा विव्रीयते । तस्यां च ब्रह्मणा सह सर्वकामभोगलक्षणा या प्रति- पत्तिरुच्यते, सा परेणैव सह । कुत्रापि श्रुतौ कार्यरूपे प्रतिपत्तेरनभिप्रेतत्वात् । अतो ब्रह्मशब्देन परब्रह्मैवोच्यत इति सिद्धांतितम् । एवमष्टभिः सूत्रैः गंतव्यब्रह्मस्वरूपं प्रसंगाान्निरूपितम् ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे अप्रतीकालंबनाधिकरणे पूर्वोक्तप्रकारेणातिवाहिकप्रापिता ब्रह्म- प्राप्तिः किं सर्वेषामुपासकानाम्, उत केषांचिदेवेति संशये, अप्रतीकालंबनानेवातिवाहको नयतीति निश्चीयते । तत्र प्रतीकोपासका द्विधा । केचिदतस्मिंस्तत्त्वेनोपासकाः, अन्यं तु तदंगेषु तत्त्वेनो- पासकाः । तत्राद्यानामुपासनैव व्यंगा । 'योऽन्यथा संतमात्मान'मिति वाच्योक्तदोषप्रसंगात् । द्विती- यानां तूपासनाव्यंगत्वाभावेपि 'यावन्मनसो गतं तत्रास्य कामचारो भवती'त्यादिश्रावणेन तत्क्रतुन्याय- स्तस्तत्रैव पर्यवसानेन तेषां ब्रह्मप्राप्तेरनभिप्रेतत्वात् । पंचाग्निविद्यायास्तु अंगोपासनात्वेन प्रतीकत्वेपि वाचनिकत्वात् तेषां नयनम् । तस्मात् ये परब्रह्मोपासकास्तानेव नयतीति ज्ञानमार्गीया व्यवस्था । भक्तिमार्गीयास्तु निष्कामांगोपासनकर्ता भक्तः सन् भक्तिफलादेवातिवाहिकं विनैव स्वयं गच्छतीति तत्क्रतुश्चेति सूत्रशेषेण निश्चीयत इत्युक्तम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यव- स्थोक्ता । संगतिस्तत्रावसर एव ॥ ४ ॥ ततः पंचमे एकसूत्रे विशेषं च दर्शयतीत्यधिकरणे भक्तिमार्गीयाणां ज्ञानमार्गी- याणां चाविशेषेणैव ब्रह्मप्राप्तिः, उत गमने विशेषात् फलप्राप्तावपि कश्चिद्विशेषोस्तीति संदेहे, 'ब्रह्मविदाप्नोति पर'मिति यजुर्व्याख्यानरूपायां 'सत्यं ज्ञान'मित्यस्यामृचि ज्ञानमार्गीयस्य अक्षर- प्राप्तिरेव, भक्तिमार्गीयस्य तु 'यमेवैष वृणुते' इति श्रुत्युक्तवरणेन भक्त्या हृदि अक्षरब्रह्मप्रादुर्भावात्तत्र स्थितेन पुरुषोत्तमेन सह भोग उच्यते । तत्र भक्तिमार्गः पुष्टिमर्यादाकेवलपुष्टिभेदेन द्विविधः । तत्राद्यस्य यथाधिकारं पुरुषोत्तमानुभवरूपो भोगः । द्वितीयस्य तु यथाधिकारं ब्रह्मणा सह सर्वकामा- शनरूप इति विशेषं श्रुतिर्दर्शयति । तस्माद् ब्रह्मप्राप्तावस्ति तयोर्विशेष इति प्रसंगगर्भया पूर्वोक्त- संगतैव निर्णीतम् ॥ ५ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः ।

ततश्चतुर्थे पादे पंचभिरधिकरणैः प्राप्तफलस्य ब्रह्मविदो व्यवस्था वक्तव्या । तत्र ब्रह्मविदो भक्तिज्ञानमार्गभेदेन द्विविधाः । भक्तिमार्गीया अपि मर्यादापुष्टिकेलपुष्टिभेदेन द्विविधाः । अवांतर- भेदास्त्वनेके । तत्र ज्ञानमार्गीयाः पुष्टिमर्यादामार्गीयाश्च प्रायशः क्रमेणैव मुच्यंते । अतिकृपया तु केचित् सद्योऽपि । पुष्टिमार्गीयास्तु सद्य एव । एवमेतेषु ब्रह्मवित्सु ज्ञानमार्गीया अक्षरोपासकत्वात्त- त्रैव पर्यवसन्नाः सद्यः क्रमेण वा तमेव प्रविशंति । पुष्टिमर्यादामार्गीयास्तु सद्यः क्रमेण वा नित्यं ब्रह्मलोकं प्राप्नुवंति । तेषां लौकिक्यामेव गुहायामक्षरम् । तत्र स्थितं पुरुषोत्तमं चानुभूय पुरुषोत्तम- स्वरूपे प्रविशंतीत्येतावत्पूर्वपादांते सिद्धम् । ये पुनः क्रमेण नित्यं भगवल्लोकं प्राप्नुवंति, ते तत्रैव भगवंतं भिन्नमीश्वरत्वेनानुभवंतो यथाधिकारं सेवौपयिकदेहं प्राप्नुवंतीत्यर्थात् सिध्यति । तदपि तृतीयस्कंधे ‘अथो विभूतिं मम मायाविनस्ता’मिति कपिलदेववाक्यादवसीयते । अतःपरं पुष्टिमार्गीयस्य प्राप्तफलस्य ‘सोऽश्नुते सर्वान् कामान्’ इति श्रुत्युक्ता व्यवस्थाव- शिष्यते । सा विशेषदर्शनसूत्रे संक्षेपेण सिद्धास्मिन्पादे प्रपंच्यते । ततः संपद्याविर्भाव इति चतुःसूत्रे प्रथमाधिकरणे प्रथमसूत्रे भगवत्स्वरूपे लीनस्य पुष्टिमार्गीयस्य स्वलीलानुभावनार्थं भगवता बहिराविर्भावः क्रियते, अनुगृहीतत्वात् । स चाविर्भावो भगवत्स्वरूपबलेनैव लीलाधिकरणे भवति, न तु प्रपंच इति श्रुतिबलादुक्तम् । ततो द्वितीये तस्यैवाविर्भावेपि मुक्तत्वं नापैतीत्युक्तम् । ततस्तृतीये एवं फलदातुः परमात्मत्वमेवे- त्युक्तम् । ततश्चतुर्थे ‘सत्यं ज्ञान’मित्यस्या ऋचः ‘ब्रह्मविदाप्नोती’त्यनेनैकवाक्यत्वं व्याख्यान- व्याख्येयभावादस्ति, तस्मादयमेवार्थ इति निर्धारितम् ॥ ततो द्वितीये अष्टसूत्रे ब्राह्मेणेत्यधिकरणे येन देहेनायं जीवो लीलानुभवं करोति तादृशो देह उपोद्घातेनावसरेण वा विचारितः । तत्र प्रथमसूत्रे सच्चिदानंदात्मकेनैव देहेन ब्रह्मणा सह भोगान् भुंक्त इति स देहस्तादृशो ब्रह्मणा संपादित इति साधितम् । तत्प्रकरणे ब्रह्मात्मकाना- मेवान्नमयादिविभूतीनामुपन्यासादिति जैमिनिमतकथनमुखेन तत्संपत्तिश्च प्रदर्शिता । ततो द्वितीय- सूत्रे प्रज्ञानघनश्रुत्या केवलज्ञानात्मको ब्रह्मणो विग्रहो बोध्यते । अतस्तादृशेन सह भोगकर्त्री ज्ञानात्मकेनैव भवितव्यम् । नचैवमानंदानुभवेन सर्वकामाशनबाधः शंकनीयः । भगवतः पूर्णानंदत्वात् तत्संबंधेनैवानंदानुभवः सिद्धः । तस्माद्विग्रहं विनैव केवलस्वरूपेण भुंक्त इत्यौडुलोमिमतमुक्तम् । ततस्तृतीये सूत्रे ‘सत्यं ज्ञान’मित्यस्यामृचि गुहाया उक्तत्वात् तस्याश्च विग्रह एव संभवात् श्रुतौ विग्रहत्वेनैवोपन्यासः । ते च विग्रहा भगवद्धाम्नि पूर्वमेव वर्तंते भगवद्धर्मरूपाः । तेषु कस्मिंश्चिदयं चिन्मात्र एवाविश्याभिमानं कृत्वा भगवदिच्छानुरूपलीलात्मकान् भोगान् भुंक्ते । तस्मान्न चिन्मात्र- त्वस्य नित्यविग्रहवत्त्वस्य च विरोध इति मतद्वयं संगृह्य तादृशविग्रहेणैव भुंक्त इति स्वमतमुक्तम् । ततश्चतुर्थे सूत्रे तादृशदेहप्राप्तौ भक्ते भगवदनुग्रह एव हेतुरित्युक्तम् । तेन तादृशो भोगो न सर्वेषाम्, किंत्वत्यंतभगवदनुगृहीतानामेवेति वरणश्रुत्या सिध्यति । ततः पंचमसूत्रे अतो हेतोः भगवाननन्याधिपतिः । अनन्याश्च त एव ये साधनत्वेन (फलत्वेन) च भगवंतमेवे जानंति । तस्मात्तदर्थमेवं भगवतः संकल्प इत्युक्तम् । तेन तदेकतानतया तदाश्रयतया च ते सर्वदा तिष्ठंतीति सिध्यति । ततः षष्ठे सूत्रे मुक्तस्य देहांगीकारप्रतिकूलं बादरिमतमाह । ‘यत्र हि द्वैतमिव भवती’- त्यादिश्रुतिर्मुक्तिदशायां द्वैतदर्शनमुक्त्वा ‘यत्र त्वस्य सर्वमात्मैवाभू’दित्यादिना , मुक्तस्य द्वैतदर्शनं 878

निवेषति । तथा सति द्वितीयदर्शनाभावे कामभोगवार्तैव दूरेति तदाक्षेप्त्यो देहोपि दूरतरः । एतन्मते 'ब्रह्मविदाप्नोति पर'मित्यादिश्रुतिः पूर्वपक्षाविश्रांता । ततः सप्तमे बादरिविरुद्धं जैमिनिमतमाह । जैमिनिस्तु मुक्तस्य देहसत्तां मन्यते । 'ब्रह्मविदाप्नोती'ति श्रुतिः पूर्वपक्षाविश्रांतेत्यत्र मानाभावान्न बादरिमतं साधीयः । अनेन श्रुतिविरोधापत्तेः । श्रुतौ हि 'ब्रह्मविदाप्नोती'त्यत्र ज्ञानस्य तत्प्राप्ति- साधनत्वमुच्यते, 'नायमात्मे'त्यत्र वरणैकप्राप्यत्वम् । अतः साधनबोधकश्रुत्योः परस्परविरोधः । 'सोश्नुत' इत्यादिना परप्राप्तिरूपन्यस्यते । 'ब्रह्मैव सन् ब्रह्माप्येती'त्यत्र ब्रह्मणि जीवस्य लय उच्यते । अतः फलबोधकश्रुत्योर्विरोधः । एवं विरोधे सति तदभावाय गतिरवश्यं कल्पनीया । तत्र पुष्टि- मर्यादाभ्यां मार्गभेदस्य सिद्धत्वात् तत्तन्मार्गीयस्य तत्तदेव फलं परमिति व्यवस्थितविकल्प एव ज्यायानिति नैकतरादरणं युक्तमिति । ततोष्टमे भगवान् व्यासः स्वसिद्धांतमाह । लोके हि शरीरं भूतजन्यं भोगायतनं च दृष्टम् । मुक्तस्य तु शरीरतदभावावाक्षेपलभ्यौ न निवारयितुं शक्यौ । अतः शरीरमेव तादृशं कल्पनीयं येन श्रुत्यविरोधः । तत्र भूमविद्याया'मात्मतः प्राण' इत्युपक्रम्य 'आत्मत एवेदं सर्व'मित्यंतेन भगवत एव सकाशाद्भोगोपयोगिसर्वसामग्रीश्रावणान्मुक्तस्य शरीरं न भूतजन्यम्, तस्मादशरीरम् । तत्रैव 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानंद' इति श्रावणात्तच्छरीरं भोगा- यतनम् । तस्माच्छरीरमपि । एवमुभयविधत्व आस्थिते श्रुतीनां न कश्चिद्विरोधः ॥ ततस्तृतीये द्विसूत्रे तद्भावाधिकरणे गुणोपसंहारपादोक्तं निर्दोषपूर्णगुणं भगवत्स्व- रूपमेव फलमिति विचारितम् । तत्र पूर्वसूत्रे दोषरूपाणामङ्गत्वादीनां भगवति या प्रतीतिः, सा भ्रांता, स्वप्नवदर्थाभावेपि प्रतीयते । तस्माद् ब्रह्म निर्दोषमित्युक्तम् । ततो द्वितीये सूत्रे याः पौगंडाद्यो- वस्थाः, ये च गुणास्ते सर्वे संत एव मायापसारणाद्भक्तानां प्रतीयंते । तस्माद् ब्रह्मानंतगुणपूर्णमव- तारेपीत्युक्तम् । तथा चावसर एव संगतिरित्यर्थः ॥ ३ ॥ ततश्चतुर्थे द्विसूत्रे प्रदीपवदित्यधिकरणे फलानुभवोपकरणं प्रकृतत्वाद्दिचार्यते । पूर्वा- धिकरणयोः फलप्राप्त्युपकरणस्य फलस्वरूपस्य च विचारितत्वात् । अतोवसरोत्र संगतिः । तत्र प्रथ- मसूत्रे मुक्तस्य भगवत्कृपयाभिव्यक्ताभ्यां जैवज्ञानक्रियाभ्यां योगेपि न ताभ्यां भगवता सह काम- भोगकरणसमर्थो भवति, किंतु यथा प्राचीनः प्रकृष्टो दीपः स्नेहयुक्तायामर्वाचीनायां वर्त्यां प्रविष्टस्तां समानकार्यक्षमां करोति, तथा भगवानपि स्वदत्ते मुक्तदेहे जीवेन सह प्रविष्टस्तं देहं स्वभोगरूपकार्य- क्षमं करोति । यतो 'भर्ता स'न्निति भर्तृसूक्तारंभमंत्रे भगवतः क्रीडार्थं बहुधा आवेश उक्तः । तेनैवं ज्ञायते क्रीडोपयोगिभगवदावेश एव फलानुभवोपकरणमिति । ततो द्वितीयसूत्रे अस्थूलादिश्रुतेः सर्वकामभोगश्रुतेश्च यो विरोधः स सुषुप्तिमोक्षभेदेन भगवदाविर्भावप्रकारभेदात् परिहृतः ॥ ततः पंचमे षट्सूत्रे जगद्व्यापाराधिकरणे भोगप्रकारो विचारितः । तत्र प्रथमसूत्रे 'सोश्नुते सर्वान् कामान्'निति श्रुतिर्मुक्तिकरणस्था । तस्मात्तत्र न जगत्संबंधः । किंच, भगवल्लीला कालमायाव्यतीता । तेन प्राकृतं जगत् ततो दूरतरमिति न तत्संबंधः । अतो लौकिकव्यापाररहित- मेव मुक्तस्य भोगकरणमित्युक्तम् । ततो द्वितीयसूत्रे 'सर्वं हि पश्यः पश्यती'तिश्रुत्युक्तप्रत्यक्षोप- देशेन तस्य जगद्व्यापारसाहित्यमाशंक्य, श्रुतौ सर्वपदेन न जगदुच्यते, किंतु लीलास्थाः पदार्था एवोच्यंते । तेषामेव दर्शनम् । अतो न श्रुतिविरोधः । किंच, पूर्वोक्तश्रुत्यनंतरं 'स एकधा भवती'ति भक्तस्य नानारूपबोधिकाश्रुतिः पठ्यते । तेन नानारूपैर्नानालीलां भगवदनुभावितामनुभवतीति न

५२ वेदान्ताधिकरणमाला ।

लीलानामनित्यत्वम्, नापि काचिदन्यानुपपत्तिरित्युक्तम् । ततस्तृतीये सूत्रे 'आयास' इत्यागम- नभविष्यत्वबोधकभगवद्वाक्याल्लीलानां भक्तरूपाणां चानित्यत्वमाशंक्य, भगवल्लीला प्राकृतविलक्षणा भगवदिच्छयैवोपपद्यमाना न कुतकैरन्यथा भाव्या, किंतु श्रुत्या नित्यत्वेनोक्तत्वादलौकिकानुसरण- मेव कर्तव्यमित्युक्तम् । ततश्चतुर्थसूत्रे अस्मिन् सूत्रे कुतर्केणान्यथाभावनं न कर्तव्यमिति यदुक्तं तदेव श्रुतिप्रत्यक्षाभ्यां साधितम् । ततः पंचमसूत्रे जीवस्य भोगमात्र एव भगवत्साम्यम्, न तु सर्वथेति 'न तत्समश्चाभ्यधिकश्च दृश्यते' इतिश्रुतेर्न विरोध इत्युक्तम् । एवमत्र पंचसूत्र्या भगवतः परमफलत्वमर्थादुक्तं भवति । ततः षष्ठे ईदृशं परमफलं प्राप्य भक्तानां ज्ञानिनां चावृत्तिर्नास्ति । तत्र प्रमाणं च शब्दः श्रुतिरूपः स्मृतिरूपश्चेत्युक्तम् । एवं षड्भिः सूत्रैर्फलभोगप्रकारो विचारितः ॥ ५ ॥ वेदांतीयन्यायमालामणुभाष्यानुसारिणीम् । सौकर्यायार्थबोधस्य चकार पुरुषोत्तमः ॥ १ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य चतुर्थः पादः । चतुर्थोध्यायः समाप्तः ॥

880

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । चतुर्थः पादः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ (१४१) एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते, केचिद् वेदार्थाऽज्ञानात् क्वचिद् वेदभागे कापिलमतानुसारिपददर्शनेन तस्यापि वेदमूलकत्वं वदन्ति । तन्निराकर- भाष्यप्रकाशः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ अतीतेषु पादेषु प्रथमेऽतिव्याप्तिजनकशब्दकृतसंदेहवारणाय कार्यनिरूपकाणि वाक्यानि विचार्य, द्वितीयतृतीययोश्च यथायथं जीवजडरूपार्थकृततत्संदेहवारणायान्तर्याम्युपास्यरूपनिरूपकाणि च वाक्यानि विचार्य सर्वेषां वेदान्तानां साक्षात् परंपरया च ब्रह्मणि समन्वयः प्रतिपादितः । स तदा दृढीभवति यदा श्रौतत्वेनाभिमन्यमानस्य मतान्तरस्य श्रौतता निराक्रियते । अतस्तदर्थं चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूपकतया मतान्तरश्रौतताभ्रमजनकानि प्रकीर्णानि वाक्यानि विचार्यन्त इत्युपोद्घातबोधनाय पूर्वपादत्रयसिद्धमर्थमनुवदन्त एतत्पादार्थमाहुः एवमित्यादि । तथा च तन्निराकरणं प्रयोजनं, तादृशवाक्यविचारश्चार्थ इत्यर्थः । नन्वदृश्यत्वाद्य- रश्मिः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ परंपरयेति जीवमुख्यप्राणलिङ्गादित्यत्र जीवमुख्यप्राणप्रतिपादकवेदान्तानां परंपरया समन्वय । उपोद्घात इति । तथाच प्रकृतः स च वेदान्तानां समन्वयः तत्सिद्ध्यर्थां चिन्तां मतान्तरनिराकरण- चिन्तामुपोद्घातं बुधा विदुरिति । ननु सांख्यमतनिराकरणमाकस्मिकमिति चेन्न, षट्सु शास्त्रेषु वेदवेदान्तयोरङ्गाङ्गिभावः परस्परं, स आरम्भ एव विचारितः । अधुना तृतीयशास्त्रस्य विचारः प्राप्तावसरः क्रियत इति योगः प्रत्युक्त एव । द्वितीयेऽध्याये पञ्चरात्रविचारः पाशुपतमतदूषणं 'येऽप्यन्यदेवता भक्ताः' इत्यादिना गीतायां स्पष्टमेव । नास्तिकादिमतानि दूष्यत्वेन पुराणप्रसिद्धानि द्वितीये द्वितीयपादे प्रतिवक्तव्यानीति ज्ञेयम् । तादृशेति प्रकीर्णकवाक्यविचारः प्रकीर्णकत्वं कापिलमतश्रौतताभ्रमजनकत्वं क्वचिद्वेदभागे कापिलमतेत्यादिभाष्यात् । समन्वयानुकूलः मतान्तर- श्रौतताभ्रमजनकवाक्यविचारः इत्यत्र विचारपदं तादृशसमन्वये लाक्षणिकं वा । समन्वयस्त्वध्यायार्थः। १०५ ब्र० सू० १०

८१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ णाय चतुर्थः पाद आरभ्यते । तत्र, ईक्षतेर्नाशब्दमिति सांख्यमतमशब्दत्वादिति निवारितम् । वेदेन प्रतिपादितमिति तत्राशङ्कते । आनुमानिकमप्येकेषाम् । एकेषां शाखिनां शाखासु सांख्यपरिकल्पितप्रकृत्यादि श्रूयते । ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥’ भाष्यप्रकाशः । धिकरणे एतादृशमपि वाक्यं विचारितमेवेति, किमनेन विचारेणेत्याशङ्कां समादधानाः सूत्राक्ष- मवतारयन्ति तत्र ईक्षतेरित्यादि । तथाच यद्यपि तद्वाक्यं विचारितं, तथापि तन्मतस्य सर्वथा अश्रौतत्वमेवेति नोपपादितमतो विचार इत्यर्थः । एतेनास्य पादस्य, ईक्षतिसमन्वयसूत्रप्रपञ्च- रूपत्वं बोधितम् । नन्वत्र प्रकृतिनिराकरणमेवास्तु । मतस्य श्रौततानिराकरणे किं गमकमित्या- काङ्क्षायामानुमानिकपदमेव गमकमित्याशयेन व्याकुर्वन्ति एकेषामित्यादि । तथा च पूर्वग्रन्थे- ‘कामाच्च नानुमानापेक्षा,’ ‘नानुमानमतच्छब्दात्’ इत्यादौ केवलानुमानपदादत्र च संबन्धितद्धि- तान्तानुमानिकपदात् सांख्यप्रवचनीये, ‘संघातपरार्थत्वात् पुरुषस्य’ इति सूत्रेऽनुमानेन प्रकृतिसं- बन्धित्वेन सिद्धः पुरुषोऽपि संग्राह्यत्वेन गम्यते । तयोश्च निराकरणे तन्मतमेव निराकृतं भवतीति सौत्रं पदमेव गमकमित्यर्थः । केषां शाखायामित्याकाङ्क्षायां विषयवाक्यमुदाहरन्ति इन्द्रियेभ्य रश्मिः । एतादृशमिति ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्’ इत्यादिकं वाक्यं मायाप्रकृत्यविद्यावादानां श्रौतताभ्रमजनकम् । अवतारयन्तीति इदमुपलक्षणं तन्मतं पूर्वपक्षे निवेश्य शंकराचार्यमतेनावतारयन्ति स्म विचारितमिति । नन्वीक्षत्यधिकरणे तु शब्दा- प्रतिपाद्यं न भवति ईक्षतेः श्रावणादित्युक्तं न प्रकृतिर्निवारिता शंकरभाष्ये तु निवारितेति चेन्न । प्रकृतिनिराकरणं सूचितार्थत्वेनाङ्गीकृत्य विचारितप्रायमित्यर्थः । नोपपादितमिति सूचितार्थपक्षे । एतेनेति सूचितार्थाङ्गीकारेण ‘सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यते’ इति । बोधितमिति व्यञ्जनया बोधितं सूचितमिति यावत् । तथा चायं भाष्यार्थः । तत्रेति शांकरमतेऽसाकं सूचितार्थपक्षे । इतीति इत्येवं तयोः पक्षयोराशङ्कत इत्यर्थः । ननु शांकरमतपूर्वपक्षस्य पूर्वपक्षकरणे किं फलमिति चेन्न सिद्धान्तस्य पूर्वपक्षतुल्यत्वात् । तथा च शांकरभाष्यमेतत्सूत्रसमाप्तौ । तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाश इति । परपरिकल्पितस्येति प्रधानविशेषणान्मायाङ्गीकार- ध्वननात् । पूर्वग्रन्थ इति आनन्दमयाधिकरणे द्युभ्वाद्यायतनाधिकरणे च । संबन्धीति अनुमानेन संबध्यत इत्यानुमानिकं ‘शेषे’ इति ठक् । इति सूत्रे प्रथमाध्यायस्थे । अनुमानेनेति । ननु आनुमानिकेनेति वक्तव्ये अनुमानपदं कुतः इति चेन्न । अनुमानेन प्रकृत्या सिद्धः पुरुषः संग्राह्यत्वेन काठके गम्यते । प्रकृतिसंबन्धित्वेन संघातपरार्थत्वेन सिद्धः पुरुषः संग्राह्यत्वेन मन्यते इत्यपि पदार्थात् । तथा च सूत्राणि ‘सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहं- कारात्तन्मात्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः’ ‘स्थूलात्पञ्चतन्मात्रस्य’ ‘शब्दाभ्यन्तराभ्यां तैरहंकारस्य’ ‘तेनान्तःकरणस्य’ ‘ततः प्रकृतेः’ ‘संघातपरार्थत्वात्पुरुषस्य’ तयो- रिति प्रकृतिपुरुषयोः । इन्द्रियेभ्य इत्यादीति तथा च काठकपदाद्यजुर्वेदे चरकाणाम् द्वादशविध 882

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३१ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इति काठके श्रूयते । तत्र बुद्धेरात्मा अहंकारः । ततो महान् महत्तत्त्वम् । ततोऽव्यक्तं प्रकृतिः । ततः पुरुष इति । न ह्यहंकारादयः पदार्था ब्रह्मवादे संभवन्ति । तस्मादेवंजातीय- केषु तन्मतपदार्थानां श्रवणान्मायाप्रकृत्यविद्यावादा अपि श्रौता इति चेन्न । भाष्यप्रकाशः । इत्यादि । कात्र प्रकृत्यादीत्यतो व्याकुर्वन्ति तत्र बुद्धेरित्यादि । बुद्धेरात्मा अहंकार इति । पर इत्यनुषज्यते । बुद्धेः सकाशादात्मा । 'सर्वात्मनोऽन्तःकरणं गिरित्रम्' इत्यन्तःकरणत्वेन सिद्धस्य गिरित्रस्य, 'चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्राः' इति स्वस्मिन्ना- त्मपदप्रयोगादात्माऽहंकारः पर इत्यर्थः । शेषं स्फुटम् । तथा चैवमत्र सांख्यमतप्रत्यभिज्ञानात् तन्मतं श्रौतमिति तदाहुः नहीत्यादि । अपिशब्दार्थमाहुः तस्मादित्यादि । एवंजातीयके- ष्विति । वक्ष्यमाणेष्वजादिवाक्येषु । मायाप्रकृत्यविद्यावादा इति । मायां तु प्रकृतिं विद्यात्, पञ्चाब्रह्मवेदां पञ्चपर्वामघौम' इत्यादिवाक्येष्वभिमन्यमानाः । एवं पूर्वपक्षमनूद्य तद्दूषकं रश्मिः । भवन्ति चरकाह्वर्का कठोः प्राच्यैकठाः कपिष्ठलकठोश्वारायणीयाः वार्तन्तव्याः श्वेताः श्वश्वतराः औपमन्यवेः पांता ऐरिनेयौः मैत्रायणीयाश्चेति । श्वेताश्वतरोपनिषदिति प्रसिद्ध्याकारो न वाचनीयः षडालिखितपाठक इति हि भाष्ये पाठकाधमेषु गणनात् । अतो द्वादश । यद्वा चरका इत्युद्देश्यं अग्रे द्वादशविधेयानि । तथा चायं भाष्यार्थः । एकेषां मुख्येभ्यः सामान्यार्थशास्त्रिभ्योऽन्येषां यजुर्वेदशाखिनां शाखासु चरकादिनाम्नीषु यद्वा एकेषां चरकानां केवलानां शाखिनां शाखासु हरकादिषु इति । कठशाखायामित्यर्थः । कात्रेति अत्र श्रुतिषु सांख्यसिद्धप्रकृत्यादि केति प्रश्नः । सांख्य- सूत्रानुक्तान्येव । आत्मपदस्याहंकारवाचकत्वं बुद्धेः परत्वं च व्युत्पादयन्ति बुद्धेरिति । सर्वात्मनः पुरुषस्य । इदं द्वितीयस्कन्धेस्ति । अन्तःकरणत्वेनेत्यस्याहंकारत्वेनेत्यर्थः । चन्द्रो मनः । इदमुत्तरार्धं त्रिपष्टितमेध्याये शिवस्तुतावस्ति । अहं श्रीशिवः अहंकारः । आत्मेत्यात्मपदमहंकारवाचकम् । बुद्धेः परत्वमीश्वरस्य स्पष्टम् । 'यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः' ॥ इति । भुजा इन्द्रः । स्वस्मिन्निति श्रीकपर्दिनि ह्यहंकारे तथाच गिरित्रसाहंकारस्य चन्द्रो मन इत्याद्युक्तरीत्या वाचकं यदात्मपदं तस्य प्रयोगात् कस्मिन्नित्यतः स्वस्मिन्नहंकाररूपे श्रीशिवे इति पंक्तिकान्वयः । चैत्रस्य गुरुकुलममित्यस्यैकदेशान्वयः । सांख्येति तदिदं सांख्यमतं श्रुताविति सांख्यमतप्रत्यभिज्ञानम् । ननु वैदिकशब्दानां भिन्नत्वात्कथं श्रौतमिति चेन्न परमत ऐक्यात् अपपीति मायाविद्यासमुच्चये रूपम् । ननु मायावादः शांकराणां प्रकृतिवादो निरीश्वरसांख्यानां अविद्यावादः सैषाऽविद्या जगत्सर्वमिति श्रीनृसिंहतापनीयश्रुतेः तापनीयशाखिनामनिर्णयकर्तॄणामिति त्रयाणां भेद उक्तो भाष्ये तेषामैक्यं पूर्वपक्ष इति प्रमाणपूर्वकं तं पक्षमाहुः मायां स्थिति । पञ्च- पर्वाविद्या तासामभेदान्वयः आदिनाऽजादिवाक्यानि । श्रौता इति समख्या अभेदान्वयान् नामभेदेन प्रयुक्ता न्यख्या । अभीति अभिमन्यन्ते ये वादास्तेष्वभिमन्यमानाः 'लटः शतृशानचौ' 'बाने दृक्' । 883

८३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ शब्दसाम्यमात्रेण न तन्मतं सिध्यति । 'संदिग्धानां पदार्थानां पौर्वापर्येण निर्णयः । न तु संदिग्धवाक्येन सर्वव्याकुलतोचिता' ॥ अत्र हि पूर्वम् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयाँस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' ॥ तदनु चत्वारि वाक्यानि । 'यस्त्वविज्ञानवान्' इत्यादि । तदनु 'इन्द्रियेभ्यः भाष्यप्रकाशः । हेतुमवतारयितुं निषेधं व्याकुर्वन्ति शब्देत्यादि । तन्मतमिति । अहंकारमहत्तत्त्वप्रकृतिपुरुषाणा- मुत्तरोत्तरं परत्वबोधकं सांख्यमतं कुतो न सिध्यतीत्यतः कारिकया तद्धेतुमाहुः संदि- ग्धेत्यादि । पौर्वापर्येणेति पूर्वापरसंदर्भेण । संदिग्धा ह्यस्मिन् वाक्ये पदवाच्या अर्थाः । पदानि वाक्यावयवभूतानि, वाक्यं च महावाक्यस्य । अतो महावाक्यानुरोधेन तदर्थो निर्णेयः । न तु संदिग्धपदघटितवाक्येनावयविभूतस्य महावाक्यस्य व्याकुलता युक्ता । तथा च तद्व्याकुलीभावा- देतन्मतं न सिध्यतीत्यर्थः । तदेतद् व्युत्पादयन्ति अत्र हीत्यादि । अत्रेति प्रकरणे । हिर्हेतौ । चत्वारीति । विज्ञानसारथिवाक्यस्य क्वचिदिन्द्रियेभ्यः परा इत्याद्यनन्तरं दर्शनाच्चत्वारि, विज्ञान- रश्मिः । ननु 'कर्तरि कृत्' इति चेन्न घञादौ कर्तरि कृदित्यस्याप्रवृत्तिवदत्राप्यप्रवृत्तेरिति वैयाकरणभूषणसारे सिद्धान्तनिर्णय उक्तत्वात् । निषेधमिति सौत्रनकारार्थम् । महेति अवयवभूतम् । व्याकुलतेति उक्तशरीरूपकविन्यस्तागृहीतिपरित्यागेन सूक्ष्मदर्शनपरित्यागेन च स्थूलदृष्ट्या शब्दपीडा युक्तेत्यर्थः । हिर्हेति । परा इतीति हेतोः इत्यग्रेन्वयः । चत्वारीति । 'यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः' ॥ 'यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' ॥ 'यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति' ॥ 'यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते' ॥ इति चत्वारि । वदतीति सूत्रे व्यासो वदति । 'भाष्ये । पूर्वमिति आत्मानं रथिनमित्यादि- संबद्धः । एवकारेण सांख्यमतव्यवच्छेदः । तमिति पूर्वसंबद्धार्थम् । प्रकृते । ननु प्रथमसुबोधिन्यां काव्यवद्रूपकनिरूपणे स्पष्टोर्थो भवति यद्यपि तथापि भागवते तथाकथनमनुचितं सर्ववेदसारीद्धार- त्वात् । रूपकादिकं तु बुद्धिपरिकल्पितमिति रूपककरणं भाष्ये कुतः इति चेन्न ईश्वरवद्वेदोपि कर्तु- मकर्तुमन्यथाकर्तुं समर्थ इति ज्ञापनाय कचिद्रूपककरणात् 'अत एव च नित्यत्वम्' इति व्याससूत्रात् 884

पराः' इति । तत्र पूर्वसंबन्ध एवार्थ उचितस्तमाह शरीररूपकविन्यस्तगृहीतेः । शरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रूपकभावेन रथादिषु तेषा- मेवात्र गृहीतिर्ग्रहणम् । अन्यथा प्रकृतहानाप्रकृतपरिग्रहापत्तिः । जीवप्रकरणं ह्येतन्मुक्त्युपायोऽस्य रूप्यते । योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ॥ तत्र जीवस्य ब्रह्मप्राप्तौ मुख्यं साधनं शरीरम् । स रथः । सर्वसामग्री- सहिताऽपराधीनयानत्वात् । रथस्तु ह्याधीनः । हयाश्च खलुबुद्ध्यधीनाः । सा च भाष्यप्रकाशः । सारथिवाक्यार्थस्त्वग्रे कारिकया वक्तव्यः । एवं संदर्मे यत् सिद्धं तद्वक्तुं हेतुं वदतीत्याहुः तत्रेत्यादि । तत्रेति इन्द्रियेभ्य इति वाक्ये । विष्णुधर्मोत्तरे तृतीयकाण्डे । 'उपमानेन तुल्यत्वमुपमेयस्य रूपकम्' इति रूपकलक्षणाद् रूप्यते यत् तद्रूपमिति कर्मणि घञि कृते, 'इवे प्रतिकृतौ' इति कनि च कृते रूपकमित्यलंकारनाम सिद्ध्यतीत्यभिसंधाय हेतुं व्याकुर्वन्ति शरीरेणेत्यादि । खस्य खज्ञापकत्वेऽपि दोषाभावाच्छरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते यत्र रश्मिः । यद्शेदं समाधानम् 'काव्यादीनामसत्यत्वाज्ज्ञोपयोगः कथंचन' इत्यनुपयोगाद्धर्मवाचकलोपोपमा रूपकमत्र न काव्योक्तमिति तदाहुः विष्णुधर्मेति । उपमीयतेऽनेन करणे ल्युट् । उपमानम् । उपमातुमर्हमुपमेयम् 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते' इत्यत्र हंसी उपमानं तद्वाचकं 'इव' पदम् । कीर्तिरूपमेयं उपमानेन तुल्यत्वं स्वर्गङ्गावगाहनं उपमानोपमेयसाधारणधर्मः इयं पूर्णोपमा 'कर्पूरन्ती दृशोर्मम' इति धर्मवाचकलोपोपमा कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरपदा- नन्दात्मकाचारार्थस्य क्विप इवशब्देन सह लोपात् धर्मलोपस्त्वैच्छिकः दृशोरानन्दात्मकतयो कर्पूर- न्तीति तदुपादानस्यापि संभवात् तथा चोपमेयसंबन्धिनेरूपकमिति भावः । अत्र शरीरेन्द्रियादयः उप- मेयाः रथादीन्युपमानानि । घञीति कर्मणि घञि दीर्घत्वम् । रूप रूपकरणे चुरादिरिति । यद्वा रूपन्दः रूपते स्तूयते रूपं खप्नश्चित्येति सूत्रेण पप्रत्ययो दीर्घश्च निपातितः । ननु भाष्ये स्वार्थे कप्रत्ययो वक्ष्यते अत्रेवार्थे कृत उच्यते तत्राहुः अलमिति । अत्र भाष्ये शरीरेण पदेन ण्यन्तेऽऽस परोक्षवादः रूप्यन्ते शब्द्यन्ते शरीरेन्द्रियादयः । ननु विषयाः कथं शरीरेण शब्द्यन्ते सत्यम् । जीवप्रकरणे मोक्षे निरूपणीये विषयाणां मग्नत्वात् । 'सर्वेषां मग्नता ततः' इति सिद्धान्तरहस्यात् तथा चात्मपद- शक्तिर्विषयेषु । शरीरेन्द्रियादयः इत्यादादिपदेनानिन्द्रियं मनो वा आत्मन उपलक्षकम् । यद्वा सर्वे सर्वार्थवाचका इति शरीरस्य सर्ववाचकत्वेन शरीरेन्द्रियात्मवाचकत्वं यद्यपि तथापि अन्यावाचकत्वं दोषः स्यात् तद्वारणायात्मोपनिषदः शरीरस्यात्मत्वेन ग्रहणमिति शरीरेण त्रिविधात्मनापदेन रूप्यन्ते शब्द्यन्ते शरीरादयः शरीरद्वयात्मानः रथादिष्विति भाष्यात् । यत्रेत्यस्यार्थमाहुः रूपकेति रूपपदस्थले स्वार्थे कप्रत्ययेन सूच्यतेऽयमर्थः । तेषामिति रथादीनाम् । एतावतो हेतोः श्रुतौ सूत्रेण सांख्यमत- निराकरणाय प्रयुक्तेर्न विशेषणादिकृत्यमतिदुरूहम् । प्रकृते । एतदाहुः खस्येति । खस्य शरीरपदस्य स्वेषां प्रतिपाद्यत्वेन स्वीयानामर्थानां शरीरेन्द्रियादीनां ज्ञापकत्वेऽवबोधकत्वे अविवेकारार्थे अवबोधकत्व एवपदजन्यपदार्थोपस्थितिकत्वा । दोषः सर्वार्थवाचकत्वं तसाभावात् । शरीरेण

८१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ प्रग्रहाधीना । स च सारथ्यधीनः । स च स्वबुद्ध्यधीनः । सा च मार्गाधीना । स भाष्यप्रकाशः । वाक्ये रथादिषु रूपकभावेन अलंकारबोधितप्रतिकृतिभावेन विन्यस्ताः स्थापितास्तेषां सर्वेषां रथादिप्रतिकृतिभूतानामेवात्र गृहीतिर्ग्रहणम् । अतः शरीररूपा रूपकविन्यस्ताः । शरीररूपक- विन्यस्ताः । रूपकविन्यस्तानां व्यावर्तकं शरीररूपत्वमित्युपसर्जनत्वात् तस्य पूर्वनिपातः । शाकपार्थिवादेराकृतिगणत्वाद् रूपपदलोपश्च । अतः शरीररूपकविन्यस्तानां गृहीतिर्ग्रहणं शरीर- रूपकविन्यस्तगृहीतिस्तस्मादित्यर्थः । तथा च स्यात् सांख्यमतापरिचर्यादहंकारादीनां पदार्थानां तत्त्वेन गृहीतिः स्यात् सा तु नास्ति । यतः शरीरेण ये रूप्यन्ते शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रश्मिः । शरीरपदेन रूप्यन्ते रूप्यन्ते रुशब्दे परोक्षवादात् । शब्द्यन्ते शब्दव्यापारोऽभिधा तद्विषयीक्रियन्ते ये शरीरेन्द्रियादयः । ननु काव्यनिषेधेन रूपकस्य । 'विषय्यभेदाताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तु त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् । अयमास्ते विना शंभुस्तार्त्तीयीकं विलोचनम् ॥ शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् । अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ साध्वीयमपरा लक्ष्मीरसुधासागरोदिता । अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते' ॥ विषय्युपमानभूतं पद्मादि विषयस्तु उपमेयं वर्णनीयं मुखादि । रूपकं द्विविधमभेदरूपकं ताद्रूप्यरूपकं च । अयं हीति सार्धेनाभेदरूपकाणि । अस्या मुखेन्दुनेति सार्धेन ताद्रूप्यरूप- काणि आधिक्यन्यूनत्वानुभयोक्त्युद्देशक्रमप्रतिलोम्येनोदाहृतानीत्येवंरूपस्य विवक्षां वारयितुमाहुः अलंकारेति अलंकारबोधितस्य सदृशभावेन धर्मवाचकलुप्तोपमात्वेन रूपकस्य विन्यस्ताः विशेषेण नितरामस्ताः प्रेरिताः स्थापिताः शरीरेन्द्रियादयः स्वाभेदसंबन्धेनान्यत्र गतिनिवृत्तियुक्ताः कृताः भवन्ति त इत्यन्वयः । एतेन तेषामिति भाष्यपदं व्याकृतम् । कीदृशामित्यत आहुः प्रतिकृतयः सदृशाः भूतानि शरीरेन्द्रियादीनि येषां तेषां रथादीनां तथा च रथादयश्च ते प्रतिकृतिभूता रथादिप्रतिकृतिभूतास्तेषां रथादिप्रतिकृतिभूतानां तेषामिति रथादीनाम् । समासमाहुः अत इति उक्तकारणात् । रूपकेति शरीरेन्द्रियादीनाम् । व्यावर्तकं विशेषणम् । ननु विशेषणं शरीररूपा इति न तु शरीररूपकत्वमि- तीति चेन्न कप्रत्ययेन स्वार्थिकेन शरीररूपा शरीररूपकाणीत्येतयोरेकार्थबोधकत्वेन विशेषाभावात् । ह्रस्वत्वं कप्रत्ययस्यालंकारनामत्वार्थं रूपकपदसूचितार्थनिबन्धनत्वात् । पूर्वेति 'उपसर्जनं पूर्वम्' इति पूर्वनिपातः सूत्रे व्यासपादैः कृतः । आकृतीति गणपाठे नास्ति काचित्कमाकृतिगणत्वम् । तत्र उपपदस्य रूपपदस्य लोपः । आकृतिगणत्वाभावे शरीररूपका विन्यस्ता यत्रेति भाष्यप्रोक्तो बहुव्रीहिः । तस्मादिति ननु तस्य इति वक्तव्ये तस्मादिति कुत इति चेन्न शरीररूपकविन्यस्त- ग्रहणादित्यर्थे तात्पर्यात् । गृहीतेर्ग्रहणादिति वक्ष्यन्ति तथा च सामान्ये नपुंसकमिति भावः । 886

च प्राप्याधीन इति । एवं ज्ञात्वा युक्तसामग्रीकस्तद्देशं प्राप्नोति । तत्रेन्द्रिया- णामात्मा विषयाः । भाष्यप्रकाशः । वाक्ये रूपकभावेन रथादिषु, आत्मानं रथिनं विद्धीत्यादिना, तेषामेवात्र गृहीतेर्ग्रहणात् । यदि ह्येवं नोपगम्येत तदा प्रकृतहानादिदोषावापद्येताम् । किंचेदं हीति निश्चयेन जीवप्रकरणम् । अत्रास्य मुक्त्युपायो, योग्यं शरीरमारुह्य हरेः पदं गच्छेदित्येवं विज्ञानसारथिमन्त्रेण रूप्यते । न ह्येतत् सांख्यमते संभवति । स्वरूपावस्थानातिरिक्तस्य भगवत्पदप्राप्तिरूपस्य मोक्षस्य तैरनङ्गीकारात् । अत इन्द्रियेभ्य इति वाक्ये अहंकारादितत्त्वरूपो नार्थः । किंतु वक्ष्यमाणप्रकारकः । तथाहि । तत्र मुक्त्युपायेषु बोधनीयेषु वक्तव्ये रूपके जीवः स्वतन्त्रत्वाद् रथी । जीवस्येत्यादिना विवृतं शरीरं रथः । तत्र हेतुः सर्वेत्यादि । सामग्री इन्द्रियादिरूपा । अपराधीन

ते च मनसा सम्यक्त्वेन भावितास्तथा भवन्ति । विरक्तेन्द्रियाणामतथा- त्वात् । बुद्धेरात्मा विज्ञानम्, तद् ब्रह्मविषयकं महत् भवति । ततः परमव्यक्तं, न प्रकटं, भगवत्कृपैव । सा तु भगवदधीना, न साधनान्तराधीना । स च भगवान् स्वाधीन इति । एवमेवार्थस्तस्योचितः । किंच, दर्शयति स्वयमेवेममर्थम् । 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ॥ इति । भाष्यप्रकाशः। तथापि नात्र तदभिप्रेतम् । मोक्षप्रकरणत्वादित्यभिप्रेत्याहुः ते चेत्यादि । तथाच मोक्षप्रकरणे यदिन्द्रियेभ्यः परत्वं विषयाणामुच्यते, तद् भगवदीयतया मनसा सम्यक्त्वेन भावितानामेव । यथा नवमस्कन्धादावम्बरीषादिचरिते, 'स वै मनः कृष्णपदारविन्दयोः' इत्यादिश्लोकत्रयोक्ता- स्तादृशाम् । न तु सामान्यानाम् । नापि ज्ञानीन्द्रियविषयविवक्षया । विरक्तेन्द्रियाणां विषयाणा- मदृष्टत्वात् । अतः 'तस्यारविन्दनयनस्य' इत्यादिवद् यत्र भगवदभिप्रायः सा बोधप्रणाड्यत्र विवक्षिता, न तु शुष्कज्ञानप्रणालीति बोधनाय तदुक्तिरित्यर्थः । एतेन अर्थेभ्यश्च परं मन इत्यपि व्याख्यातप्रायम् । मनसा सम्यक्त्वेन भावन एव तेषां तथात्वादिति । मनसस्तु परा बुद्धिरिति सारथिभावादेव स्पष्टम् । बुद्धेरात्मेत्यादिकं व्याकुर्वन्ति बुद्धेरात्मेत्यादि । विज्ञान- मिति तत्कार्यभूतं विशिष्टज्ञानम् । तस्य बुद्धिनियामकत्वं तु ब्रह्मविषयकत्वेन महत्त्वात्त्यर्थः। रश्मिः । इत्याहुः तथापीति । नात्रेति किं तु 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति श्रुत्युक्त आत्मेन्द्रियमनोयुक्तं भोक्ता विषयग्रहणेन सुखदुःखसाक्षात्कारवानित्याकर्षकत्वमभिप्रेतम् । ननु तद्वाक्यं हानोपादानबुद्धौ तु विशेष इत्युक्त्वा प्रस्थानरत्नाकरे व्याकृतम् । अत्र मोक्षप्रकरणे आत्मो- पादानबुद्धौ विशेषापेक्षायां कुतो नाभिप्रेतमिति चेन्न विषयोपादानबुद्धौ मनसा सम्यक्त्वेनाभावितत्वस्य मोक्षप्रकरणे प्रतिबन्धकत्वात् । ते च मनसा सम्यक्त्वेन भाविताः इति भाष्यात् । भावितानामिति गुरूपदेशादिना भगवदीयत्वाद्विना वा स्मृतानाम् । तादृशामिति क्रियाकलापं 'सर्वात्मभावं विद- धन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' इति सर्वात्मभाववताम् । श्लोकत्रयार्थानुवादकोयं श्लोकः। 'एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' ॥ इति । तस्यारविन्देति तृतीयस्कन्धे सनकादिप्रसङ्गेस्ति । भगवदिति श्रुत्यभिप्रायः भगवत्पदस्य श्रुतिवाचकत्वं ऋषिपदवत् । तदुक्तं कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्त्वा आभिर्भिन्ना न वै विभुः' इति । अत्रेति आत्मानं रथिनमित्यादिश्रुतिषु । तदुक्तिरिति साधनोक्तिः । तेषामिति आधिदैविकानामर्थविषयाणाम् । तथात्वात् युक्तपदार्थत्वात् । एतेनैव विरक्तेन्द्रियाणामिति भाष्यमपि विवृतम् । अतथात्वात् अयुक्तपदार्थत्वात् । ननु शमदमाद्युपेतसूत्रे भक्तिमार्गीयस्य स्वतः शमाद्युक्तेः कुतो विरक्तेन्द्रियाणामतथात्वादिति भाष्यमिति चेन्न 'ततो भूय एव तमो ये संभूत्या१रताः' इति शारीरभाष्योक्तात् । संभूत्यां विद्यायां पञ्चपर्वात्मिकायां वैराग्यादिरतौ सत्यां तमः प्रविशतीति कथनात् । महत्त्वात्त्विति व्यापकधर्मस्य व्यापकत्वनियमात् । ननु ज्ञाने गुणे परिमाणं नास्ति गुणे गुणानङ्गीकारादिति चेन्न प्रकाशाश्रयन्यायेन ब्रह्माभेदपक्षेऽगुणे सत्त्वात् । एकं रूपं रसात्पृथगिति- १. विषयोपादानबुद्धौ ।

सूक्ष्माया उपनिषद्वानुसारिण्या बुद्ध्या । भगवज्ज्ञाने हि तत्प्राप्तिरिति । चकारात्, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' इति स्मृतिर्गृहीता । तस्मात्, साधनोपदेशान्न सांख्यमतमिह विवक्षितमिति ॥ १ ॥ भाष्यप्रकाशः । शेषं स्फुटम् । एवं हेतुं व्याख्याय दर्शनपदं व्याकुर्वन्ति किंवेत्यादि । इदमिति पूर्वोक्तम् कथं दर्शयतीत्यत आहुः सूक्ष्मेत्यादि । तथाच सूक्ष्मपदेन बुद्धेरुपनिषदनुसारित्वबोधनादुक्तरीत्या भक्तिप्रणाल्या प्राप्तिं दर्शयतीत्यर्थः । तेन श्रुतौ गम्यत इति गतिरिति प्राप्यत्वबोधनात्, स्मृतावपि, विशत इति पदेन तस्यैवार्थस्योपबृंहणादत्र प्राप्तिरूप एवार्थोऽभिप्रेतो दृश्यते, न तु रूढदर्शनरूपोऽतो नात्र सांख्यमतप्रत्यभिज्ञानमिति भावः ॥ १ ॥ रश्मिः । यद्वा । ब्रह्मगतपरिमाणस्य विज्ञाने भावात् ब्रह्मविषयकत्वमेव ज्ञाने वैशिष्ट्यम् । शेषमिति । ननु अव्यक्तपदस्य कृपायां शक्तिः कुत इति चेत्तत्राहुरभाष्ये । नेति तथा च योग इति भावः । सत्त्व- रजस्तमःसाम्यावस्थारूपा प्रकृतिः व्यक्ता स्वकार्यद्वारापि । ननु अव्यक्तोक्षर इति चेन्न पुरुषपदेनैव ग्रहणात् । पुरि शेते इति व्युत्पत्तेः । पूरक्षरः अस्फुटेप्यभिधेयवदिति विश्वः । तथा चान्यक्तमिति सामान्ये नपुंसकम् । अव्यक्तमित्यत्राजूविकारो वा अव्यक्ता आस् अङ्गीकारे । 'अव्यक्तं महदादिके' इति विश्वात् कृपायां वा । न चैवं मायावज्जगद्वीजेपि स्यादुपनिषद्भाष्ये तस्यापि महदादित्वादिति शङ्क्यम् । मायावादमसच्छास्त्रमिति तस्याकिंचित्करत्वात् । न च कृपापुल्यो मक्तोऽव्यक्तपदवाच्य इति वाच्यम् । अव्यक्तमिति नपुंसकलङ्गादत एव न विष्णुर्वाच्यः । तथा च विश्वः । 'अव्यक्तः शंकरे विष्णौ' इति अयं श्लोकः । 'अव्यक्तः शंकरे विष्णौ अव्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटेप्यभिधेयवत्' ॥ इति । ननु वरणमेवाव्यक्तमस्तु तस्य कार्येण स्पष्टत्वात् । ऋत्विग्वत् । तथा च कोशाच्छक्ति- ग्राहकात् शक्तिग्रहोऽव्यक्तपदस्य कृपायामित्युक्तम् । तथा हि अव्यक्तं न प्रकटं भगवत्कृपैवेति भाष्यम् । तत्राव्यक्तपदविग्रहः सूक्ष्मं त्विति सूत्रभाष्ये सर्वप्रकारेण न व्यज्यते तदव्यक्तमिति सूच्यते तत्र न व्यज्यते व्यक्तिकर्मत्वावच्छिन्नप्रतियोगिताकाभावोर्थः अत्र न प्रकटमित्यस्यान्ययः । अभावेन शब्दार्थाभावस्याभेदः संसर्गः कर्मणि ते प्रत्ययार्थभूते प्रकटस्याभेदान्वयः व्यक्तिकट- कर्मत्वावच्छिन्नप्रतियोगिताकोभावः स भगवत्कृपाभिन्न इति भाष्यार्थः । तेनाव्यक्तमिति कर्मप्रत्य- यान्तं कृपा न प्रकटे कर्तृप्रत्ययान्ते तेषां कथमन्वय इति कुचोद्यं निरस्तम् । न साधनेति । ननु साधनैः कृपा लोके दृष्टा कुतो न साधनाधीनेत्युच्यते इति चेन्न भक्तिहेतुग्रन्थे उपपादित- प्रायत्वात् । तस्येति श्रुतिसंदर्भस्य । एवं शेषं स्फुटमित्यर्थः । उपनिषदिति । ननु सांख्यानु- सारित्वं कुतो न बोधितमिति चेन्न शास्त्रान्तरे शास्त्रान्तरीयस्तुतेरनौचित्यात् । छन्दसः सा काष्ठा सा परा गतिरित्यत्र पुरुषविशेषणत्वेन कर्मणि क्तिन् इत्याहुः गम्यत इति । स्त्रियां क्तिन् भावे लोके वेदे विकल्पात् कर्मण्यपि कर्तरि तु न भावेन बाधात् । उपेति । गतिरिति गमनकर्म पुरुषः । मां विशते । इति विशेः कर्म पुरुष इत्युपबृंहणात् । अभ्रेति । आत्मा दृश्यत इत्यत्र । अभिप्रेति तथा चायूढ १०६ ब्र० सू० २० 889