अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 977, कुल 2600 में से
संदर्भ में पढ़ें५२ वेदान्ताधिकरणमाला ।
लीलानामनित्यत्वम्, नापि काचिदन्यानुपपत्तिरित्युक्तम् । ततस्तृतीये सूत्रे 'आयास' इत्यागम- नभविष्यत्वबोधकभगवद्वाक्याल्लीलानां भक्तरूपाणां चानित्यत्वमाशंक्य, भगवल्लीला प्राकृतविलक्षणा भगवदिच्छयैवोपपद्यमाना न कुतकैरन्यथा भाव्या, किंतु श्रुत्या नित्यत्वेनोक्तत्वादलौकिकानुसरण- मेव कर्तव्यमित्युक्तम् । ततश्चतुर्थसूत्रे अस्मिन् सूत्रे कुतर्केणान्यथाभावनं न कर्तव्यमिति यदुक्तं तदेव श्रुतिप्रत्यक्षाभ्यां साधितम् । ततः पंचमसूत्रे जीवस्य भोगमात्र एव भगवत्साम्यम्, न तु सर्वथेति 'न तत्समश्चाभ्यधिकश्च दृश्यते' इतिश्रुतेर्न विरोध इत्युक्तम् । एवमत्र पंचसूत्र्या भगवतः परमफलत्वमर्थादुक्तं भवति । ततः षष्ठे ईदृशं परमफलं प्राप्य भक्तानां ज्ञानिनां चावृत्तिर्नास्ति । तत्र प्रमाणं च शब्दः श्रुतिरूपः स्मृतिरूपश्चेत्युक्तम् । एवं षड्भिः सूत्रैर्फलभोगप्रकारो विचारितः ॥ ५ ॥ वेदांतीयन्यायमालामणुभाष्यानुसारिणीम् । सौकर्यायार्थबोधस्य चकार पुरुषोत्तमः ॥ १ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य चतुर्थः पादः । चतुर्थोध्यायः समाप्तः ॥
880