भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 978, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 978

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । चतुर्थः पादः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ (१४१) एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते, केचिद् वेदार्थाऽज्ञानात् क्वचिद् वेदभागे कापिलमतानुसारिपददर्शनेन तस्यापि वेदमूलकत्वं वदन्ति । तन्निराकर- भाष्यप्रकाशः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ अतीतेषु पादेषु प्रथमेऽतिव्याप्तिजनकशब्दकृतसंदेहवारणाय कार्यनिरूपकाणि वाक्यानि विचार्य, द्वितीयतृतीययोश्च यथायथं जीवजडरूपार्थकृततत्संदेहवारणायान्तर्याम्युपास्यरूपनिरूपकाणि च वाक्यानि विचार्य सर्वेषां वेदान्तानां साक्षात् परंपरया च ब्रह्मणि समन्वयः प्रतिपादितः । स तदा दृढीभवति यदा श्रौतत्वेनाभिमन्यमानस्य मतान्तरस्य श्रौतता निराक्रियते । अतस्तदर्थं चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूपकतया मतान्तरश्रौतताभ्रमजनकानि प्रकीर्णानि वाक्यानि विचार्यन्त इत्युपोद्घातबोधनाय पूर्वपादत्रयसिद्धमर्थमनुवदन्त एतत्पादार्थमाहुः एवमित्यादि । तथा च तन्निराकरणं प्रयोजनं, तादृशवाक्यविचारश्चार्थ इत्यर्थः । नन्वदृश्यत्वाद्य- रश्मिः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ परंपरयेति जीवमुख्यप्राणलिङ्गादित्यत्र जीवमुख्यप्राणप्रतिपादकवेदान्तानां परंपरया समन्वय । उपोद्घात इति । तथाच प्रकृतः स च वेदान्तानां समन्वयः तत्सिद्ध्यर्थां चिन्तां मतान्तरनिराकरण- चिन्तामुपोद्घातं बुधा विदुरिति । ननु सांख्यमतनिराकरणमाकस्मिकमिति चेन्न, षट्सु शास्त्रेषु वेदवेदान्तयोरङ्गाङ्गिभावः परस्परं, स आरम्भ एव विचारितः । अधुना तृतीयशास्त्रस्य विचारः प्राप्तावसरः क्रियत इति योगः प्रत्युक्त एव । द्वितीयेऽध्याये पञ्चरात्रविचारः पाशुपतमतदूषणं 'येऽप्यन्यदेवता भक्ताः' इत्यादिना गीतायां स्पष्टमेव । नास्तिकादिमतानि दूष्यत्वेन पुराणप्रसिद्धानि द्वितीये द्वितीयपादे प्रतिवक्तव्यानीति ज्ञेयम् । तादृशेति प्रकीर्णकवाक्यविचारः प्रकीर्णकत्वं कापिलमतश्रौतताभ्रमजनकत्वं क्वचिद्वेदभागे कापिलमतेत्यादिभाष्यात् । समन्वयानुकूलः मतान्तर- श्रौतताभ्रमजनकवाक्यविचारः इत्यत्र विचारपदं तादृशसमन्वये लाक्षणिकं वा । समन्वयस्त्वध्यायार्थः। १०५ ब्र० सू० १०

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 978, कुल 2600 में से · BharatKosha