भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 968, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 968

[Header] श्रीपुरुषोत्तमविरचिता । ४१ [Divider] .ततोऽस्मिंसे द्वित्रिसूत्रे समाहारादिलिङ्गाधिकरणद्वये ज्ञानमार्गीयोपासनासु सर्वगुणोपसंहा- रानुपसंहारावधिकारादिभेदेन विचारितौ । तेन ज्ञानमार्गीयो विचार एवात्र मुख्यो, भक्तिमार्गविचा- रस्तु भक्तौ भगवत्कृपारूपस्याधिकस्य साधनस्य प्रवेशाच्च सर्वोपयोगी यद्यपि, तथापि शास्त्रारंभे ब्रह्मसंबन्धिजिज्ञासाप्रतिज्ञानुरोधात्कृतः, तत्प्रयोजनं त्वग्रि- मपादे 'भक्तिमार्गप्रचारैकहृदयो बादरायण' इति श्लोकेन वक्तव्यमिति ॥२४,२५॥ इति श्रीवल्लभाचार्यचरणरजःदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ [Divider] वेदान्तेषु कर्माङ्गभूता उद्गीथाद्युपासना उक्ताः । आचार्येणापि अङ्गेषु यथाश्रयभाव इत्यादिना पूर्वपादान्ते ता विचारिताः । भाष्यकारैरपि प्राचीनवृत्तिकारादिसंमतं

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 968, कुल 2600 में से · BharatKosha