भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 969, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 969

४४ वेदान्ताधिकरणमाला ।

ततस्तत्फलं किं, कथं च तस्य ज्ञानफलदाधिक्यमित्याकांक्षायां चतुर्थे एकसूत्रे तद्भूतस्ये- त्यधिकरणे भगवद्धर्माणां साधनदशायामुत्कृष्टत्वेपि फलदशायां मुक्तिभवने फलतो न कश्चिद्विशेष इत्याशंक्य, नियमादिभिर्हेतुभिस्तस्य नित्यत्वं, भक्तानां मुक्त्यनिच्छया तत आधिक्यं च मुख्य- भक्तिमार्गोत्कर्षार्थ प्रसंगात्प्रतिपादितम् ॥ ४ ॥ ततः पंचमे द्विसूत्रे न चाधिकारिकमित्यधिकरणे मर्यादापुष्टस्यापि यत् भगवदीयत्व- रूपमंतरंगिष्ठारूपं यत्फलं तन्नित्यं, ज्ञानमार्गियमुक्तेः सकाशादधिकमित्यनुप्रसंगेन निरूपितम् । एवमधिकरणद्वयेन पूर्वोक्तकर्मोपसंहारप्रकारे बीजं बोधितम् ॥ ५ ॥ ततः षष्ठे चतुःसूत्रे बहिस्तूभयथेत्यधिकरणे सर्वविधस्य पुष्टिमार्गीयस्य आश्रमरूप- संन्यासधर्मानुपसंहारार्थं साधनत उत्कर्षबोधनायानुप्रसंगेन गृहत्यागो विचारितः । स च मध्यमा- धिकारे एवेति फलति ॥ ६ ॥ ततः सप्तमे एकसूत्रे सहकार्यंतराधिकरणे गृहत्यागिनो मर्यादापुष्टिमार्गीयस्य शमादिकं भावनासहकारित्वेन कर्तव्यम्, पुष्ट्यंशबाहुल्ये तु तेनापि भावनामात्रमेव कर्तव्यमिति साधन- व्यवस्थाऽनुप्रसंगाद् दर्शिता ॥ ७ ॥ ततोऽष्टमे चतुःसूत्रे गृहिणोपसंहाराधिकरणे, प्रथमसूत्रेण पूर्वोक्तेभ्यो जघन्याधिकारिणां त्यागानुकल्परूपं गृहे स्थित्वा भगवद्भजनं कर्तव्यमिति विचार्य, द्वितीयादिभिस्तस्य करणप्रकारस्तदा- धिक्यं, भगवद्भावस्य लोकेष्वप्रकटनं, भगवद्भजनव्यतिरिक्तसमये लौकिककरणं, गृहिणोपसंहार- श्रुतिमनुसृत्यानुप्रसंगाद्विचारितम् । तेन विहितत्वाच्चाश्रमकर्मापीत्यनेन यत्पूर्वमुक्तं तस्य प्रकारो बोधितः ॥ ८ ॥ ततो नवमे एकसूत्रे एवं मुक्तिफलानियम इत्यधिकरणे तादृशस्य देहपातोत्तरं मुक्तिर्वा भगवदीयत्वं वेति संशये मुक्तिस्तु नियतैव, भगवदीयत्वं तु भगवत्कृपाधीनमित्यनियमो निर्णीतः । तेनानुकल्पोपि मर्यादामार्गादधिकः, निरवद्यानंदपुरुषोत्तमसायुज्यादिति ॥ ९ ॥ एवमस्मिन्पादे बहिरंगविचारेण सप्रकारः कर्मोपसंहारो दर्शितः । एवमस्मिन्नध्याये चतुर्भिः पादैः सर्वसाधनं सप्रकारमुपदिष्टम् ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः । तृतीयाध्यायः समाप्तः ।

चतुर्थोध्यायः । अथ चतुर्थाध्यायेऽवसरसंगत्या फलं निरूप्यते । तच्च फलं ब्रह्मविद इति चतुर्भिः पादै- र्जीवतो म्रियमाणस्य गच्छतः प्राप्तफलस्य च क्रमेण तस्य यथाधिकारमवस्था निरूप्यंते । तत्र प्रथमपादस्य द्विसूत्रे प्रथमेधिकरणे प्रथमवर्णकेन श्रवणादीनामवांतरफलसद्भाव तेषामावृत्तिः कर्तव्येत्युच्यते । तेन पूर्वपादांते गृहिणोपसंहारे सर्वेद्रियाणामात्मनि प्रतिष्ठापनमुक्तम्, तत्प्रकारोत्र दर्शित इति पूर्वेण सह प्रकारप्रकारिभावः संगतिरिति बोध्यम् । द्वितीयवर्णकेन तु

872