अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 970, कुल 2600 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमविरचिता । ४५ ज्ञानभक्त्योः फलत उत्कृष्टत्वाय कर्ममार्ग आवृत्तिव्युत्पादनेन फलजघन्यत्वमपि बोधितम् । तेन कर्मणि तत्फले चानासक्तिरपि तत्प्रकारत्वेन बोध्यत इति सैव पूर्वेण सह संगतिरिति बोध्यम् ॥ १ ॥ ततो द्वितीये त्रिसूत्रे आत्मेतीत्यधिकरणे प्रथमवर्णकेन ज्ञानफलं द्विविधं विचार्यते । मुख्यं त्वात्मप्रवेशरूपमनश्वरम्, द्वितीयं त्वधिकार्युपस्थितेषु तेभ्यो ज्ञानोपदेशरूपमवान्तरफलम्, भगवदाज्ञापरिपालनात्मकम्, न त्वाचार्यत्वकामनाकृतमित्युच्यते । द्वितीये ननु 'न स पुनरावर्तत' इतिश्रुत्युक्तो ज्ञानभक्त्योः फलरूपः पुनरावृत्यभावः किं सावधिक उत निरवधिक इत्याशंकायाम्, निरवधिक इति सिद्धांत उच्यते । नित्ये भगवद्रूप आत्मनि ब्रह्मविदो जीवात्मनः शुद्धजले जलस्येव प्रवेशेन ताहक्त्वस्यैव श्रुतावुक्तत्वादिति, भक्तिमार्गे च भगवतो मुक्तोपसृप्यत्वेन सेवार्थं तन्निकट- [