भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 973, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 973

४८ वेदान्ताधिकरणमाला ।

एवमस्मिन् पादे पुष्टिमर्यादामार्गीययोर्प्रियमाणावस्था विचारिता ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥

अथ तृतीयपादे क्रममुक्त्यधिकारिणो ब्रह्मविदोर्चिरादिमार्गेण गच्छतो व्यवस्थावसर- प्राप्तोच्यते । तत्र प्रथमे चतुःसूत्रे अर्चिरादीत्यधिकरणे ज्ञानमार्गीयस्य भक्तस्य चेत्युभयोरर्चिरा- दिमार्गेण गमनम्, उत सद्योमुक्तिरितिसंशये, यथा ज्ञानिनो नियमाभावस्तथा भक्तस्यापीति पूर्वपक्षे, पंचाग्निविद्यायां ज्ञानमार्गीयाणामेवोपक्रांतत्वात्तेषामेव तेन मार्गेण गतिः, न तु भक्तस्यापीति निश्चीयते । ततस्त्रिभिः सूत्रैस्तन्मार्गपर्वनिर्धारः क्रियते । श्रुतिभेदेन पर्वभेदानामनेकोक्तत्वात् मार्गभेदे प्राप्ते देवयानस्य मार्गस्य श्रुत्यंतरे यदैक्यमुक्तं तद्विरोधसंभवात् । पर्वसु निर्धारितेषु तु यस्य यत्पर्व- भोगो भावी तं प्रति तत् पर्व, अन्यं प्रत्यन्यत् । यथा महामार्गे नानाग्रामेषु सत्स्वपि कस्यचित् कस्मिंश्चिद् ग्रामे अवांतरनिवासः, अन्यस्यान्यस्मिन् ग्रामे सः, तद्वत् । एवं पर्वभेदेप्युपपत्तौ ब्रह्म- लोकगमनसैक एवार्चिरादिमार्गों देवयानाख्यः सिध्यतीति निर्णीतम् ॥ १ ॥ ततो द्वितीये त्रिसूत्रे आतिवाहिकाधिकरणे तेन मार्गेण कथं गच्छतीत्याकांक्षाया- मवसरगर्मेण प्रसंगेन गमनप्रकारो निर्धार्यते । तत्र पर्वभूतविद्युल्लोकपर्यंतं विद्यासामर्थ्येनैव गच्छति । ततो विद्युल्लोके अमानवः पुरुषो ब्रह्मलोकगमयिता तत्रागत्य तं विद्युल्लोकस्थं गंतारं ब्रह्मलोकं प्रापय- तीति श्रावितम् । एवं सति येषां विद्युल्लोकमोगोस्ति ते वरुणादिलोकं गच्छंति । तत्र सः ब्रह्मलो- कप्रापयिता आयाति न वेति संशये, तत्राप्यायाति, श्रुत्यंतरे प्रजापतिलोकानंतरमपि ब्रह्मलोकसोक्त- त्वात्, ब्रह्मलोकप्रापयितॄणां पुरुषाणां च बहुत्वात्, यस्य यल्लोकभोगेन प्रारब्धसमाप्तिस्तं तत एव लोकाद्ब्रह्म प्रापयंतीति प्रथमसूत्रे निर्णीतम् । तेषां ब्रह्मलोकप्रापका ये पुरुषास्ते आतिवाहिकशब्दे- नोच्यंत इत्यपि । ततो द्वितीये सूत्रे अपुनरावृत्तिश्रुत्या देवयानं पंथानं प्राप्तानां ब्रह्मवित्त्वात्तेषां सद्योमुक्तिरेवोचितेति तेषामवांतरलोकभोगजनिका कामनैव कुतः । किंच, 'यत्कर्मभिर्यत्तपसे'ति भग- वद्वाक्ये मर्यादामक्तस्य या लोकांतरकामनोक्ता सापि कुतः । तेषां सद्योमुक्तेरेव प्रथमाधिकरणे निर्णी- तत्वादाशंक्य, केषांचित् ज्ञानिनां मर्यादामक्तानां व्यामोहितत्वात् सा । व्यामोहश्च लीलासिद्ध्यर्थं, येऽवांतर्लोकाः कृतास्तत्सृष्टिसार्थक्त्वाय भगवतैव क्रियते । अतो नानुपपत्तिरित्युक्तम् । ततस्तृ- तीयसूत्रे ये वरुणादिलोकं गतास्तेषां स्वत एव ब्रह्मप्राप्तिरस्तु । आतिवाहिकस्य विद्युल्लोकीयत्व- श्रावणेन तेषु लोकेषु तदभावादित्याशंक्य, श्रुतावातिवाहिकस्य न विद्युल्लोकीयत्वमभिप्रेतम् । 'पुरु- षोऽमानव एत्ये'ति श्रावणाद्ब्रह्मलोकीयत्वम् । वैद्युतत्वं तु तस्य विद्युल्लोकपर्यंतमागमनात् । अतो लोकांतरादपि ब्रह्मलोकप्राप्तावातिवाहिकापेक्षास्तीत्युक्तम् । किंच, वाजसनेयके 'ब्रह्मलोकान् गमय- ती'ति श्रावितम् । छांदोग्ये तु 'ब्रह्म गमयती'ति श्रावितम् । तेन मर्यादामार्गीयं भक्तं वैकुंठलोकान् गमयति । ज्ञानमार्गीयं त्वक्षरब्रह्म गमयतीत्यपि तत्र निर्णीतम् । एवमेतेन गमनप्रकारो निर्णीतः ॥२॥

876