अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 974, कुल 2600 में से
संदर्भ में पढ़ेंततस्तृतीये अष्टसूत्रे कार्यं बादरिरित्यधिकरणे पूर्वसूत्राधिकरणश्रुत्युक्तस्य प्राप्तव्यस्य ब्रह्मणः किमविकृतब्रह्मत्वम्, उत कार्यब्रह्मलोकत्वमिति संशये, प्रथमं पंचसूत्रैर्यद्बादरिमतमुक्तम्, तत्राधिकृतस्य परब्रह्मणो व्यापकत्वादग्नोक्तं गमनं न संगच्छते तस्मात् । किंच, श्रुत्यंतरे 'ब्रह्मलोका'- निति 'तेषु वसंती'ति च बहुत्वेन वासाधिकरणत्वेन च विशेषितत्वादपि तथा। तत्र ब्रह्मत्वव्यपदेशस्तु ब्रह्मसामीप्यात् । कल्पसमाप्तौ कार्यब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह तस्यापि चतुर्मुखवत् परब्रह्मप्राप्तेः श्रुतौ स्मृतौ चाभिधानादपि प्राप्यब्रह्मलोकोऽपर एव, न तु परब्रह्मेति पूर्वपक्षत्वेनोक्तम् । ततस्त्रिभिः सूत्रैर्जैमिनिमतं सिद्धांतत्वेनोक्तम् । तत्र प्रथमसूत्रे ब्रह्मशब्दस्य बृहत्त्वादिगुणविशि- ष्टत्वेन परस्मिन्नेव मुख्यवृत्तत्वात् गौण्याऽपरब्रह्मांगीकारो न युक्त इत्युक्तम् । ततो द्वितीये कौषीत- किश्रुतौ प्रजापतिलोकाद्ब्रह्मलोकस्य पार्थक्येनोक्तत्वात् छांदोग्ये अर्चिरादिमार्गप्राप्यत्वेन समाप्तौ 'ब्रह्म गमयती'त्युक्तत्वात् प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्य कुत्राप्यश्रवणाद्गमनस्य प्रारब्धहेतुकत्वेन विलंबप्राप्तेः संभवाच्च न गमनादिश्रुतिस्मृतिविरोध इत्युक्तम् । ततस्तृतीये 'ब्रह्मविदाप्नोति पर'मिति श्रुतौ परप्राप्तिर्या उक्ता सैवाग्रिमर्चा विव्रीयते । तस्यां च ब्रह्मणा सह सर्वकामभोगलक्षणा या प्रति- पत्तिरुच्यते, सा परेणैव सह । कुत्रापि श्रुतौ कार्यरूपे प्रतिपत्तेरनभिप्रेतत्वात् । अतो ब्रह्मशब्देन परब्रह्मैवोच्यत इति सिद्धांतितम् । एवमष्टभिः सूत्रैः गंतव्यब्रह्मस्वरूपं प्रसंगाान्निरूपितम् ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे अप्रतीकालंबनाधिकरणे पूर्वोक्तप्रकारेणातिवाहिकप्रापिता ब्रह्म- प्राप्तिः किं सर्वेषामुपासकानाम्, उत केषांचिदेवेति संशये, अप्रतीकालंबनानेवातिवाहको नयतीति निश्चीयते । तत्र प्रतीकोपासका द्विधा । केचिदतस्मिंस्तत्त्वेनोपासकाः, अन्यं तु तदंगेषु तत्त्वेनो- पासकाः । तत्राद्यानामुपासनैव व्यंगा । 'योऽन्यथा संतमात्मान'मिति वाच्योक्तदोषप्रसंगात् । द्विती- यानां तूपासनाव्यंगत्वाभावेपि 'यावन्मनसो गतं तत्रास्य कामचारो भवती'त्यादिश्रावणेन तत्क्रतुन्याय- स्तस्तत्रैव पर्यवसानेन तेषां ब्रह्मप्राप्तेरनभिप्रेतत्वात् । पंचाग्निविद्यायास्तु अंगोपासनात्वेन प्रतीकत्वेपि वाचनिकत्वात् तेषां नयनम् । तस्मात् ये परब्रह्मोपासकास्तानेव नयतीति ज्ञानमार्गीया व्यवस्था । भक्तिमार्गीयास्तु निष्कामांगोपासनकर्ता भक्तः सन् भक्तिफलादेवातिवाहिकं विनैव स्वयं गच्छतीति तत्क्रतुश्चेति सूत्रशेषेण निश्चीयत इत्युक्तम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यव- स्थोक्ता । संगतिस्तत्रावसर एव ॥ ४ ॥ ततः पंचमे एकसूत्रे विशेषं च दर्शयतीत्यधिकरणे भक्तिमार्गीयाणां ज्ञानमार्गी- याणां चाविशेषेणैव ब्रह्मप्राप्तिः, उत गमने विशेषात् फलप्राप्तावपि कश्चिद्विशेषोस्तीति संदेहे, 'ब्रह्मविदाप्नोति पर'मिति यजुर्व्याख्यानरूपायां 'सत्यं ज्ञान'मित्यस्यामृचि ज्ञानमार्गीयस्य अक्षर- प्राप्तिरेव, भक्तिमार्गीयस्य तु 'यमेवैष वृणुते' इति श्रुत्युक्तवरणेन भक्त्या हृदि अक्षरब्रह्मप्रादुर्भावात्तत्र स्थितेन पुरुषोत्तमेन सह भोग उच्यते । तत्र भक्तिमार्गः पुष्टिमर्यादाकेवलपुष्टिभेदेन द्विविधः । तत्राद्यस्य यथाधिकारं पुरुषोत्तमानुभवरूपो भोगः । द्वितीयस्य तु यथाधिकारं ब्रह्मणा सह सर्वकामा- शनरूप इति विशेषं श्रुतिर्दर्शयति । तस्माद् ब्रह्मप्राप्तावस्ति तयोर्विशेष इति प्रसंगगर्भया पूर्वोक्त- संगतैव निर्णीतम् ॥ ५ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः ।