भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 974, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 974

ततस्तृतीये अष्टसूत्रे कार्यं बादरिरित्यधिकरणे पूर्वसूत्राधिकरणश्रुत्युक्तस्य प्राप्तव्यस्य ब्रह्मणः किमविकृतब्रह्मत्वम्, उत कार्यब्रह्मलोकत्वमिति संशये, प्रथमं पंचसूत्रैर्यद्बादरिमतमुक्तम्, तत्राधिकृतस्य परब्रह्मणो व्यापकत्वादग्नोक्तं गमनं न संगच्छते तस्मात् । किंच, श्रुत्यंतरे 'ब्रह्मलोका'- निति 'तेषु वसंती'ति च बहुत्वेन वासाधिकरणत्वेन च विशेषितत्वादपि तथा। तत्र ब्रह्मत्वव्यपदेशस्तु ब्रह्मसामीप्यात् । कल्पसमाप्तौ कार्यब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह तस्यापि चतुर्मुखवत् परब्रह्मप्राप्तेः श्रुतौ स्मृतौ चाभिधानादपि प्राप्यब्रह्मलोकोऽपर एव, न तु परब्रह्मेति पूर्वपक्षत्वेनोक्तम् । ततस्त्रिभिः सूत्रैर्जैमिनिमतं सिद्धांतत्वेनोक्तम् । तत्र प्रथमसूत्रे ब्रह्मशब्दस्य बृहत्त्वादिगुणविशि- ष्टत्वेन परस्मिन्नेव मुख्यवृत्तत्वात् गौण्याऽपरब्रह्मांगीकारो न युक्त इत्युक्तम् । ततो द्वितीये कौषीत- किश्रुतौ प्रजापतिलोकाद्ब्रह्मलोकस्य पार्थक्येनोक्तत्वात् छांदोग्ये अर्चिरादिमार्गप्राप्यत्वेन समाप्तौ 'ब्रह्म गमयती'त्युक्तत्वात् प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्य कुत्राप्यश्रवणाद्गमनस्य प्रारब्धहेतुकत्वेन विलंबप्राप्तेः संभवाच्च न गमनादिश्रुतिस्मृतिविरोध इत्युक्तम् । ततस्तृतीये 'ब्रह्मविदाप्नोति पर'मिति श्रुतौ परप्राप्तिर्या उक्ता सैवाग्रिमर्चा विव्रीयते । तस्यां च ब्रह्मणा सह सर्वकामभोगलक्षणा या प्रति- पत्तिरुच्यते, सा परेणैव सह । कुत्रापि श्रुतौ कार्यरूपे प्रतिपत्तेरनभिप्रेतत्वात् । अतो ब्रह्मशब्देन परब्रह्मैवोच्यत इति सिद्धांतितम् । एवमष्टभिः सूत्रैः गंतव्यब्रह्मस्वरूपं प्रसंगाान्निरूपितम् ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे अप्रतीकालंबनाधिकरणे पूर्वोक्तप्रकारेणातिवाहिकप्रापिता ब्रह्म- प्राप्तिः किं सर्वेषामुपासकानाम्, उत केषांचिदेवेति संशये, अप्रतीकालंबनानेवातिवाहको नयतीति निश्चीयते । तत्र प्रतीकोपासका द्विधा । केचिदतस्मिंस्तत्त्वेनोपासकाः, अन्यं तु तदंगेषु तत्त्वेनो- पासकाः । तत्राद्यानामुपासनैव व्यंगा । 'योऽन्यथा संतमात्मान'मिति वाच्योक्तदोषप्रसंगात् । द्विती- यानां तूपासनाव्यंगत्वाभावेपि 'यावन्मनसो गतं तत्रास्य कामचारो भवती'त्यादिश्रावणेन तत्क्रतुन्याय- स्तस्तत्रैव पर्यवसानेन तेषां ब्रह्मप्राप्तेरनभिप्रेतत्वात् । पंचाग्निविद्यायास्तु अंगोपासनात्वेन प्रतीकत्वेपि वाचनिकत्वात् तेषां नयनम् । तस्मात् ये परब्रह्मोपासकास्तानेव नयतीति ज्ञानमार्गीया व्यवस्था । भक्तिमार्गीयास्तु निष्कामांगोपासनकर्ता भक्तः सन् भक्तिफलादेवातिवाहिकं विनैव स्वयं गच्छतीति तत्क्रतुश्चेति सूत्रशेषेण निश्चीयत इत्युक्तम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यव- स्थोक्ता । संगतिस्तत्रावसर एव ॥ ४ ॥ ततः पंचमे एकसूत्रे विशेषं च दर्शयतीत्यधिकरणे भक्तिमार्गीयाणां ज्ञानमार्गी- याणां चाविशेषेणैव ब्रह्मप्राप्तिः, उत गमने विशेषात् फलप्राप्तावपि कश्चिद्विशेषोस्तीति संदेहे, 'ब्रह्मविदाप्नोति पर'मिति यजुर्व्याख्यानरूपायां 'सत्यं ज्ञान'मित्यस्यामृचि ज्ञानमार्गीयस्य अक्षर- प्राप्तिरेव, भक्तिमार्गीयस्य तु 'यमेवैष वृणुते' इति श्रुत्युक्तवरणेन भक्त्या हृदि अक्षरब्रह्मप्रादुर्भावात्तत्र स्थितेन पुरुषोत्तमेन सह भोग उच्यते । तत्र भक्तिमार्गः पुष्टिमर्यादाकेवलपुष्टिभेदेन द्विविधः । तत्राद्यस्य यथाधिकारं पुरुषोत्तमानुभवरूपो भोगः । द्वितीयस्य तु यथाधिकारं ब्रह्मणा सह सर्वकामा- शनरूप इति विशेषं श्रुतिर्दर्शयति । तस्माद् ब्रह्मप्राप्तावस्ति तयोर्विशेष इति प्रसंगगर्भया पूर्वोक्त- संगतैव निर्णीतम् ॥ ५ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः ।