भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 984, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 984

च प्राप्याधीन इति । एवं ज्ञात्वा युक्तसामग्रीकस्तद्देशं प्राप्नोति । तत्रेन्द्रिया- णामात्मा विषयाः । भाष्यप्रकाशः । वाक्ये रूपकभावेन रथादिषु, आत्मानं रथिनं विद्धीत्यादिना, तेषामेवात्र गृहीतेर्ग्रहणात् । यदि ह्येवं नोपगम्येत तदा प्रकृतहानादिदोषावापद्येताम् । किंचेदं हीति निश्चयेन जीवप्रकरणम् । अत्रास्य मुक्त्युपायो, योग्यं शरीरमारुह्य हरेः पदं गच्छेदित्येवं विज्ञानसारथिमन्त्रेण रूप्यते । न ह्येतत् सांख्यमते संभवति । स्वरूपावस्थानातिरिक्तस्य भगवत्पदप्राप्तिरूपस्य मोक्षस्य तैरनङ्गीकारात् । अत इन्द्रियेभ्य इति वाक्ये अहंकारादितत्त्वरूपो नार्थः । किंतु वक्ष्यमाणप्रकारकः । तथाहि । तत्र मुक्त्युपायेषु बोधनीयेषु वक्तव्ये रूपके जीवः स्वतन्त्रत्वाद् रथी । जीवस्येत्यादिना विवृतं शरीरं रथः । तत्र हेतुः सर्वेत्यादि । सामग्री इन्द्रियादिरूपा । अपराधीन