अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 983, कुल 2600 में से
संदर्भ में पढ़ें८१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ प्रग्रहाधीना । स च सारथ्यधीनः । स च स्वबुद्ध्यधीनः । सा च मार्गाधीना । स भाष्यप्रकाशः । वाक्ये रथादिषु रूपकभावेन अलंकारबोधितप्रतिकृतिभावेन विन्यस्ताः स्थापितास्तेषां सर्वेषां रथादिप्रतिकृतिभूतानामेवात्र गृहीतिर्ग्रहणम् । अतः शरीररूपा रूपकविन्यस्ताः । शरीररूपक- विन्यस्ताः । रूपकविन्यस्तानां व्यावर्तकं शरीररूपत्वमित्युपसर्जनत्वात् तस्य पूर्वनिपातः । शाकपार्थिवादेराकृतिगणत्वाद् रूपपदलोपश्च । अतः शरीररूपकविन्यस्तानां गृहीतिर्ग्रहणं शरीर- रूपकविन्यस्तगृहीतिस्तस्मादित्यर्थः । तथा च स्यात् सांख्यमतापरिचर्यादहंकारादीनां पदार्थानां तत्त्वेन गृहीतिः स्यात् सा तु नास्ति । यतः शरीरेण ये रूप्यन्ते शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रश्मिः । शरीरपदेन रूप्यन्ते रूप्यन्ते रुशब्दे परोक्षवादात् । शब्द्यन्ते शब्दव्यापारोऽभिधा तद्विषयीक्रियन्ते ये शरीरेन्द्रियादयः । ननु काव्यनिषेधेन रूपकस्य । 'विषय्यभेदाताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तु त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् । अयमास्ते विना शंभुस्तार्त्तीयीकं विलोचनम् ॥ शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् । अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ साध्वीयमपरा लक्ष्मीरसुधासागरोदिता । अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते' ॥ विषय्युपमानभूतं पद्मादि विषयस्तु उपमेयं वर्णनीयं मुखादि । रूपकं द्विविधमभेदरूपकं ताद्रूप्यरूपकं च । अयं हीति सार्धेनाभेदरूपकाणि । अस्या मुखेन्दुनेति सार्धेन ताद्रूप्यरूप- काणि आधिक्यन्यूनत्वानुभयोक्त्युद्देशक्रमप्रतिलोम्येनोदाहृतानीत्येवंरूपस्य विवक्षां वारयितुमाहुः अलंकारेति अलंकारबोधितस्य सदृशभावेन धर्मवाचकलुप्तोपमात्वेन रूपकस्य विन्यस्ताः विशेषेण नितरामस्ताः प्रेरिताः स्थापिताः शरीरेन्द्रियादयः स्वाभेदसंबन्धेनान्यत्र गतिनिवृत्तियुक्ताः कृताः भवन्ति त इत्यन्वयः । एतेन तेषामिति भाष्यपदं व्याकृतम् । कीदृशामित्यत आहुः प्रतिकृतयः सदृशाः भूतानि शरीरेन्द्रियादीनि येषां तेषां रथादीनां तथा च रथादयश्च ते प्रतिकृतिभूता रथादिप्रतिकृतिभूतास्तेषां रथादिप्रतिकृतिभूतानां तेषामिति रथादीनाम् । समासमाहुः अत इति उक्तकारणात् । रूपकेति शरीरेन्द्रियादीनाम् । व्यावर्तकं विशेषणम् । ननु विशेषणं शरीररूपा इति न तु शरीररूपकत्वमि- तीति चेन्न कप्रत्ययेन स्वार्थिकेन शरीररूपा शरीररूपकाणीत्येतयोरेकार्थबोधकत्वेन विशेषाभावात् । ह्रस्वत्वं कप्रत्ययस्यालंकारनामत्वार्थं रूपकपदसूचितार्थनिबन्धनत्वात् । पूर्वेति 'उपसर्जनं पूर्वम्' इति पूर्वनिपातः सूत्रे व्यासपादैः कृतः । आकृतीति गणपाठे नास्ति काचित्कमाकृतिगणत्वम् । तत्र उपपदस्य रूपपदस्य लोपः । आकृतिगणत्वाभावे शरीररूपका विन्यस्ता यत्रेति भाष्यप्रोक्तो बहुव्रीहिः । तस्मादिति ननु तस्य इति वक्तव्ये तस्मादिति कुत इति चेन्न शरीररूपकविन्यस्त- ग्रहणादित्यर्थे तात्पर्यात् । गृहीतेर्ग्रहणादिति वक्ष्यन्ति तथा च सामान्ये नपुंसकमिति भावः । 886