अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 982, कुल 2600 में से
संदर्भ में पढ़ेंपराः' इति । तत्र पूर्वसंबन्ध एवार्थ उचितस्तमाह शरीररूपकविन्यस्तगृहीतेः । शरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रूपकभावेन रथादिषु तेषा- मेवात्र गृहीतिर्ग्रहणम् । अन्यथा प्रकृतहानाप्रकृतपरिग्रहापत्तिः । जीवप्रकरणं ह्येतन्मुक्त्युपायोऽस्य रूप्यते । योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ॥ तत्र जीवस्य ब्रह्मप्राप्तौ मुख्यं साधनं शरीरम् । स रथः । सर्वसामग्री- सहिताऽपराधीनयानत्वात् । रथस्तु ह्याधीनः । हयाश्च खलुबुद्ध्यधीनाः । सा च भाष्यप्रकाशः । सारथिवाक्यार्थस्त्वग्रे कारिकया वक्तव्यः । एवं संदर्मे यत् सिद्धं तद्वक्तुं हेतुं वदतीत्याहुः तत्रेत्यादि । तत्रेति इन्द्रियेभ्य इति वाक्ये । विष्णुधर्मोत्तरे तृतीयकाण्डे । 'उपमानेन तुल्यत्वमुपमेयस्य रूपकम्' इति रूपकलक्षणाद् रूप्यते यत् तद्रूपमिति कर्मणि घञि कृते, 'इवे प्रतिकृतौ' इति कनि च कृते रूपकमित्यलंकारनाम सिद्ध्यतीत्यभिसंधाय हेतुं व्याकुर्वन्ति शरीरेणेत्यादि । खस्य खज्ञापकत्वेऽपि दोषाभावाच्छरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते यत्र रश्मिः । यद्शेदं समाधानम् 'काव्यादीनामसत्यत्वाज्ज्ञोपयोगः कथंचन' इत्यनुपयोगाद्धर्मवाचकलोपोपमा रूपकमत्र न काव्योक्तमिति तदाहुः विष्णुधर्मेति । उपमीयतेऽनेन करणे ल्युट् । उपमानम् । उपमातुमर्हमुपमेयम् 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते' इत्यत्र हंसी उपमानं तद्वाचकं 'इव' पदम् । कीर्तिरूपमेयं उपमानेन तुल्यत्वं स्वर्गङ्गावगाहनं उपमानोपमेयसाधारणधर्मः इयं पूर्णोपमा 'कर्पूरन्ती दृशोर्मम' इति धर्मवाचकलोपोपमा कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरपदा- नन्दात्मकाचारार्थस्य क्विप इवशब्देन सह लोपात् धर्मलोपस्त्वैच्छिकः दृशोरानन्दात्मकतयो कर्पूर- न्तीति तदुपादानस्यापि संभवात् तथा चोपमेयसंबन्धिनेरूपकमिति भावः । अत्र शरीरेन्द्रियादयः उप- मेयाः रथादीन्युपमानानि । घञीति कर्मणि घञि दीर्घत्वम् । रूप रूपकरणे चुरादिरिति । यद्वा रूपन्दः रूपते स्तूयते रूपं खप्नश्चित्येति सूत्रेण पप्रत्ययो दीर्घश्च निपातितः । ननु भाष्ये स्वार्थे कप्रत्ययो वक्ष्यते अत्रेवार्थे कृत उच्यते तत्राहुः अलमिति । अत्र भाष्ये शरीरेण पदेन ण्यन्तेऽऽस परोक्षवादः रूप्यन्ते शब्द्यन्ते शरीरेन्द्रियादयः । ननु विषयाः कथं शरीरेण शब्द्यन्ते सत्यम् । जीवप्रकरणे मोक्षे निरूपणीये विषयाणां मग्नत्वात् । 'सर्वेषां मग्नता ततः' इति सिद्धान्तरहस्यात् तथा चात्मपद- शक्तिर्विषयेषु । शरीरेन्द्रियादयः इत्यादादिपदेनानिन्द्रियं मनो वा आत्मन उपलक्षकम् । यद्वा सर्वे सर्वार्थवाचका इति शरीरस्य सर्ववाचकत्वेन शरीरेन्द्रियात्मवाचकत्वं यद्यपि तथापि अन्यावाचकत्वं दोषः स्यात् तद्वारणायात्मोपनिषदः शरीरस्यात्मत्वेन ग्रहणमिति शरीरेण त्रिविधात्मनापदेन रूप्यन्ते शब्द्यन्ते शरीरादयः शरीरद्वयात्मानः रथादिष्विति भाष्यात् । यत्रेत्यस्यार्थमाहुः रूपकेति रूपपदस्थले स्वार्थे कप्रत्ययेन सूच्यतेऽयमर्थः । तेषामिति रथादीनाम् । एतावतो हेतोः श्रुतौ सूत्रेण सांख्यमत- निराकरणाय प्रयुक्तेर्न विशेषणादिकृत्यमतिदुरूहम् । प्रकृते । एतदाहुः खस्येति । खस्य शरीरपदस्य स्वेषां प्रतिपाद्यत्वेन स्वीयानामर्थानां शरीरेन्द्रियादीनां ज्ञापकत्वेऽवबोधकत्वे अविवेकारार्थे अवबोधकत्व एवपदजन्यपदार्थोपस्थितिकत्वा । दोषः सर्वार्थवाचकत्वं तसाभावात् । शरीरेण