अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 985, कुल 2600 में से
संदर्भ में पढ़ेंते च मनसा सम्यक्त्वेन भावितास्तथा भवन्ति । विरक्तेन्द्रियाणामतथा- त्वात् । बुद्धेरात्मा विज्ञानम्, तद् ब्रह्मविषयकं महत् भवति । ततः परमव्यक्तं, न प्रकटं, भगवत्कृपैव । सा तु भगवदधीना, न साधनान्तराधीना । स च भगवान् स्वाधीन इति । एवमेवार्थस्तस्योचितः । किंच, दर्शयति स्वयमेवेममर्थम् । 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ॥ इति । भाष्यप्रकाशः। तथापि नात्र तदभिप्रेतम् । मोक्षप्रकरणत्वादित्यभिप्रेत्याहुः ते चेत्यादि । तथाच मोक्षप्रकरणे यदिन्द्रियेभ्यः परत्वं विषयाणामुच्यते, तद् भगवदीयतया मनसा सम्यक्त्वेन भावितानामेव । यथा नवमस्कन्धादावम्बरीषादिचरिते, 'स वै मनः कृष्णपदारविन्दयोः' इत्यादिश्लोकत्रयोक्ता- स्तादृशाम् । न तु सामान्यानाम् । नापि ज्ञानीन्द्रियविषयविवक्षया । विरक्तेन्द्रियाणां विषयाणा- मदृष्टत्वात् । अतः 'तस्यारविन्दनयनस्य' इत्यादिवद् यत्र भगवदभिप्रायः सा बोधप्रणाड्यत्र विवक्षिता, न तु शुष्कज्ञानप्रणालीति बोधनाय तदुक्तिरित्यर्थः । एतेन अर्थेभ्यश्च परं मन इत्यपि व्याख्यातप्रायम् । मनसा सम्यक्त्वेन भावन एव तेषां तथात्वादिति । मनसस्तु परा बुद्धिरिति सारथिभावादेव स्पष्टम् । बुद्धेरात्मेत्यादिकं व्याकुर्वन्ति बुद्धेरात्मेत्यादि । विज्ञान- मिति तत्कार्यभूतं विशिष्टज्ञानम् । तस्य बुद्धिनियामकत्वं तु ब्रह्मविषयकत्वेन महत्त्वात्त्यर्थः। रश्मिः । इत्याहुः तथापीति । नात्रेति किं तु 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति श्रुत्युक्त आत्मेन्द्रियमनोयुक्तं भोक्ता विषयग्रहणेन सुखदुःखसाक्षात्कारवानित्याकर्षकत्वमभिप्रेतम् । ननु तद्वाक्यं हानोपादानबुद्धौ तु विशेष इत्युक्त्वा प्रस्थानरत्नाकरे व्याकृतम् । अत्र मोक्षप्रकरणे आत्मो- पादानबुद्धौ विशेषापेक्षायां कुतो नाभिप्रेतमिति चेन्न विषयोपादानबुद्धौ मनसा सम्यक्त्वेनाभावितत्वस्य मोक्षप्रकरणे प्रतिबन्धकत्वात् । ते च मनसा सम्यक्त्वेन भाविताः इति भाष्यात् । भावितानामिति गुरूपदेशादिना भगवदीयत्वाद्विना वा स्मृतानाम् । तादृशामिति क्रियाकलापं 'सर्वात्मभावं विद- धन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' इति सर्वात्मभाववताम् । श्लोकत्रयार्थानुवादकोयं श्लोकः। 'एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' ॥ इति । तस्यारविन्देति तृतीयस्कन्धे सनकादिप्रसङ्गेस्ति । भगवदिति श्रुत्यभिप्रायः भगवत्पदस्य श्रुतिवाचकत्वं ऋषिपदवत् । तदुक्तं कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्त्वा आभिर्भिन्ना न वै विभुः' इति । अत्रेति आत्मानं रथिनमित्यादिश्रुतिषु । तदुक्तिरिति साधनोक्तिः । तेषामिति आधिदैविकानामर्थविषयाणाम् । तथात्वात् युक्तपदार्थत्वात् । एतेनैव विरक्तेन्द्रियाणामिति भाष्यमपि विवृतम् । अतथात्वात् अयुक्तपदार्थत्वात् । ननु शमदमाद्युपेतसूत्रे भक्तिमार्गीयस्य स्वतः शमाद्युक्तेः कुतो विरक्तेन्द्रियाणामतथात्वादिति भाष्यमिति चेन्न 'ततो भूय एव तमो ये संभूत्या१रताः' इति शारीरभाष्योक्तात् । संभूत्यां विद्यायां पञ्चपर्वात्मिकायां वैराग्यादिरतौ सत्यां तमः प्रविशतीति कथनात् । महत्त्वात्त्विति व्यापकधर्मस्य व्यापकत्वनियमात् । ननु ज्ञाने गुणे परिमाणं नास्ति गुणे गुणानङ्गीकारादिति चेन्न प्रकाशाश्रयन्यायेन ब्रह्माभेदपक्षेऽगुणे सत्त्वात् । एकं रूपं रसात्पृथगिति- १. विषयोपादानबुद्धौ ।