अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 987, कुल 2600 में से
संदर्भ में पढ़ें८१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० २ सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ नन्वव्यक्तशब्देन न भगवत्कृपा वक्तुं शक्या। धर्मिप्रवाहाद्विलाक्षण्याच्च परिहरति तुशब्दः। सूक्ष्मं तद् ब्रह्मैव। धर्मधर्मिणोरभेदात्। अव्यक्तशब्देन हि सूक्ष्ममुच्यते। तदेव हि सर्वप्रकारेण न व्यज्यते। अर्हत्वात्। तदेव अर्हं योग्यम्। उभयत्राप्ययं हेतुः। तस्माद्धर्मधर्मिणोरभेदाद् भगवान्नेव सूक्ष्ममिति तत्कृपैवा- ऽव्यक्तवाच्या ॥ २ ॥ भाष्यप्रकाशः। सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ उभयत्रेति अव्यक्तस्य ब्रह्मत्वे, भगवत्कृपात्वे च। अयमर्थः। 'बुद्धेरात्मा महान् परः' इत्यत्र, 'अथ परा यया तदक्षरमधिगम्यते' इति श्रुत्यन्तरोक्तं ज्ञानं बुद्धिनियामकत्वेन परामृष्टम्। तच्च नायमात्मेति श्रुत्यन्तराद्व