अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 988, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८२९ तदधीनत्वादर्थवत् ॥ ३ ॥ ननु धर्मित्वे परत्वमनुपपन्नम् । अन्यथा पूर्वोक्तो दोष इत्यत आह अभे- देऽपि कृपायास्तदधीनत्वात् परत्वम् । तत्र दृष्टान्तः । अर्थवत् । अर्थः पुरुषार्थः फलं, तद्वत् । 'ब्रह्मविदाप्नोति परम्' इत्यत्र एकस्यैव ब्रह्मणः सच्चिद्रूपेण विषयत्व- मानन्दरूपेण फलत्वमिति । तथैवाक्षरपुरुषोत्तमविभागोऽपि । स्वधर्मा अपि स्वा- धीनाः । स्वयमपि स्वाधीन इति । तथा कृपाविशिष्टः साधनम्, आनन्दरूपः फलमिति । भाष्यप्रकाशः । तदधीनत्वादर्थवत् ॥ ३ ॥ उक्तं समाधिमाक्षिपति नन्वित्यादि । यदि पूर्वोक्तयुक्त्या कृपाया ब्रह्मत्वं, तदा धर्मित्वे तद्भिन्नत्वरूपं परत्वं युक्तिरहितम् । यदि कृपाविशिष्टस्य धर्मत्वं तदा धर्मिप्रायपाठविरोधरूपो दोष इति पूर्वोक्तः समाधिरसंगत इत्याशङ्कायामत्रापि समाधि- माहेत्यर्थः । समाधिं व्याचक्षते अभेदेऽपीत्यादि । तथाचाभेदे यथैकरूप्येण ग्रहणं युक्तिस्तथा भेदे नियम्यनियामकभावो युक्तिरित्युभयमुपपन्नमित्यर्थः । एकत्वेऽपि नियम्यनियामकभाव एव कथमित्यत आहुः तत्रेत्यादि । तथैवेति एकत्वेऽपि गणितानन्दत्वागणितानन्दत्वात्मकरूप- भेदेनैव तथाच रूपभेदेन सोऽप्युपपन्न इत्यर्थः । एतदेव निगमयन्ति स्वधर्मा इत्यादि, फल- रश्मिः । निर्धारणात्' इत्यत्र पुष्टिमार्गसद्योमुक्तिपरत्वेन वर्णितमत्र मर्यादाभक्तौ क्रममुक्तौ च कुत उपतिष्ठेत बुद्धेर्गुणिनियामकत्वं तु घ्राणं च गन्ध इति न्यायेनोपपन्नम् । कृपोपस्थितिस्त्वनुकूलधिकरणसिद्धा । अन्यथा इति भारतमाख्यानं कृपया मुनिः कस्मादनुकुर्यात् । 'स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम्' ॥ इति वाक्ये मुनिकृपया भारतीयपदैः वाक्यैश्च भारतार्थविज्ञानं ह्यादीनां कृपया पदवाक्यैः भगवद्विज्ञानं भगवदीयमनुकरोतीति 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि' इति भक्तविषयकं भगवदीयं ज्ञानमिति अन्यच्च व्यक्तं प्रपञ्चरूपमपि ज्ञानं भगवान् अव्यक्तं ईषच्छक्तस्तद्धर्मः तत्त्वत्वात् । अव्यक्तः परमात्मा 'ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते' इति वाक्यात् ॥ २ ॥ तदधीनत्वादर्थवत् ॥ ३ ॥ परत्वमिति 'अव्यक्तात्पुरुषः परः' इत्यत्र परनिष्ठम् । कृपेति तत्र सूर्यः प्रकाशः सूर्यस्य प्रकाश इति धर्मधर्मिणोर्भेदाभेदयोरनुभवसिद्धतया प्रकाशाश्रयन्यायेन । यथैवेति नीलोत्पलमिवैतत् । नियम्येति राज्ञः पुरुष इत्यत्र । एकत्व इति । ननु सच्चिद्रूपेणा- क्षरत्वमानन्दरूपेण फलत्वमिति भाष्योक्तः कुतो नार्थः भाष्यार्थोपलक्षणत्वादस्यार्थस्य । न चात्राद्ये विकृतत्वं निरवयवत्वशब्दकोपो वा स्यादिति वाच्यम् । विकृतत्वस्य समन्वयस्याधिकरणे वारणाद् द्वितीयस्य तु 'श्रुतेस्तु शब्दमूलत्वात्' इति सूत्रेणेति । निगमयन्तीति स्वधर्मा इत्यत्र तस्मादिति गुम्फित्वा एतद्भाष्यनिष्ठावयवविभाजकोपाधित्त्वं निगमनत्वं यथा तस्माद्वह्निमानित्यत्र । प्रतिज्ञा- हेतूदाहरणोपनयनिगमनानि पञ्चावयवा तन्निगमनं कुर्वन्तीत्यर्थः । स्वधर्माः सत्त्वादयः कृपादयश्च भक्तानां 'न रोधयति मां योगो न सांख्यं धर्म उद्धव' इत्यादिना सत्त्वं सर्वात्मभावश्चाधीनः । 891