अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 989, कुल 2600 में से
संदर्भ में पढ़ें८४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ अथवा अव्यक्तं सच्चिद्रूपमक्षरमेवास्तु । तस्मिन् सति विज्ञानस्य विषया- धीनत्वमर्थः । एतेनान्येऽपि सर्वसंप्लववादिनो निराकृता वेदितव्याः । असंबद्धा- भिलापाच्च । भाष्यप्रकाशः । मितीत्यन्तम् । अस्मिन् पक्षे अव्यक्तपदस्य यौगिकत्वाच्छैथिल्यं शङ्केतेत्यरुच्या पक्षान्तरमाहुः अथवेत्यादि अक्षरमेव, 'अव्यक्तोऽक्षर इत्युक्तः' इति गीतावाक्यादव्यक्तमस्तु । नच लिङ्गवि- रोधः । 'अक्षरं ब्रह्म परमम्' इति ब्रह्मत्वविवक्षायां तत्रापि नपुंसकलिङ्गप्रयोगात् तस्य च भगवतः सकाशाद् भेदाभेदौ, गीतायाम्, 'एवं सततयुक्ता ये' इति प्रभोत्तरसंदर्भे स्फुटौ । धामत्वाद्भग- वदधीनत्वं च स्फुटम् । अतस्तदधीनत्वादक्षरमेवाव्यक्तम् । अस्मिन् पक्षे यो दृष्टान्तस्तमाहुः तस्मिन्नित्यादि । तस्मिक्षक्षरे स्फुरिते सति, विज्ञानस्य बुद्धेर्यदक्षरात्मकविषयाधीनत्वं सोऽत्र दृष्टान्तभूतोऽर्थो ग्राह्यः । तथाच तद्विज्ञानं यथा अक्षरसारूप्येऽप्यक्षराद् भिन्नमक्षराधीनं च, तथा अक्षरमपि ब्रह्मस्वरूपं ब्रह्मणः परस्माद् भिन्नं तदधीनं चेत्येकत्वेऽपि न परतत्त्वानुपप- त्तिप्रवाहविरोधावित्यर्थः । एवं त्रिसूत्रीव्याख्यानेनैकदेशिकृतं व्याख्यानान्तरमपि निराकृतमित्याहुः एतेनेत्यादि । अयमर्थः । मायावादिनो ह्यानुमानिकसूत्रे अव्यक्तशब्देन रथरूपकविन्यस्तं शरीरमङ्गीकृत्य तस्य कथमव्यक्तशब्दितत्वमित्याकाङ्क्षायां द्वितीयसूत्रे भूतसूक्ष्मस्याऽव्यक्तशब्दार्हत्वात् तत्कार्यस्य शरीरस्याप्यव्यक्तशब्देन ग्रहणं यथा, 'गोभिः श्रीणीत मत्सरम्' इत्यत्र गोशब्देन पय इत्युक्त्वा, तृतीयसूत्रे, तद् भूतसूक्ष्मं न स्वतंत्रं येन प्रधानकारणवादः प्रसज्येत किंतु परमेश्वराधीनम् । तच्चावश्यकम् । शक्तिरहितस्य कर्तृत्वानुपपत्तेः । अतस्तदर्थवदित्युक्त्वा, अव्यक्तशब्दवाच्याम- विद्यां वदन्ति । यथोक्तं तेषां भाष्ये । अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवास्तदव्यक्तं कचिदाकाशशब्दनिर्दिष्टम् । 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति श्रुतेः । कचिदक्षरशब्दोदितम् । 'अक्षरात् परतः परः' इति श्रुतेः । कचिन्मायेति कथितम् । 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति मन्त्रवर्णादिति । रश्मिः । यौगिकत्वादिति योगस्य वेदान्ते मुख्यत्वेन पक्षान्तररोत्थाने तुष्यतु दुर्जनन्यायेन दोष उक्तः । इतिहासमतमाहुः । भाष्ये । अथ वेति । भेदाभेदाविति भेदोविभक्तः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतायाः । अत इति परत्वस्य नियामकत्वस्य प्रकरणात् । तदधीन- त्वात् प्रकृताधीनत्वात् । आर्थिकस्तदधीनत्वादिति सूत्रार्थ उक्तः । दृष्टान्तोऽर्थवदित्यंशं वक्तुमाहुः अस्मिन् पक्ष इति । ननु भाष्ये दृष्टान्तत्वबोधकपदाभाव इति चेन्न अर्थ इति पदस्य बोधकत्वात् । अर्थस्तद्वदिति भाष्यार्थात् । पक्षान्तरे संपूर्णसूत्रार्थ उक्तः । अत्रेतिहासपक्षे एकमेव सूत्रम् । तत्प्रख्यापि स्मृतेश्चेति सूत्रे कथनात् । कचिदेकार्थत्वेन कचित्पृथक्त्वेनेति । भूतेति शब्दरूपरसगन्धस्पर्शरूपस्य । तत्कार्येति पञ्चमहाभौतिकत्वाच्छरीरस्य । ग्रहणमिति लक्षणया । 892