अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 990, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४४१ भाष्यप्रकाशः । तदेतदसङ्गतम् । कारणग्रहणेनैव संभवति गत्यन्तरे कारणवाचिशब्देन कार्यग्रहणस्य लक्षणादोषयुक्तस्यानुचितत्वात् । 'द्वाविमौ पुरुषौ लोके' इति गीतोक्ते अक्षरे कारणत्वस्य श्रुत्यादिषु 'तन्मायाफलरूपेण' इत्याद्येकादशस्कन्धवाक्यैर्निर्धारणात् । अधीनत्वस्य धामत्वादेव सिद्धेश्च । तद्विहाय तत्प्रथमकार्यरूपमायापदवाच्यशक्तिग्रहणस्यानुचितत्वात् । 'यो वेद निहितं गुहायां परमे व्योमन्' 'ऋचो अक्षरे परमे व्योमन्' इत्यादिश्श्रुतावाकाशपदवाच्यत्वस्यापि तत्रैव स्पष्टत्वात् । 'अक्षरात् परतः परः' इत्यत्रापि परत इति विशेषणेन मायाशक्त्विावृत्त्या भगवद्धामरूपस्यैव तस्य सिद्धेः । अतो व्यासाशयविरुद्धत्वाद् अयमसंबद्धाप्रलाप एव । जगद्बीजं तु भगवान्येव । 'बीजं मां सर्वभूतानाम्' इति गीतावाक्यात् । अक्षरस्य कारणत्वं तु योनित्वात् । 'मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति वाक्यात् । नच पुरुषत्वो- क्तिविरोधः । 'त्वं स्त्री त्वं पुमान्' इत्यादिश्रुत्या सर्वरूपत्वेन सिद्धत्वादिति । रश्मिः । शक्यसंबन्धो लक्षणा, संबन्धः कार्यता, गोभिः पयोभिः मत्सरं सोमं श्रीणीत मिश्रितं कुर्वीत । तथेति । तदधीनत्वं शक्त्यधीनत्वम् । शक्तिरहितस्य परमेश्वरस्य निलस्य शुद्धबुद्धमुक्तस्वभावस्य । तदर्थवत् तदविद्याख्यं बीजं अर्थवत् न तेन विना परमेश्वरस्य स्रष्टृत्वं सिध्यते शक्तिरहितस्य प्रवृत्त्यनुपपत्तेः । तदसन्निति असंबद्धाप्रलापेति भाष्यमर्थ उक्तः । कारणेति भूतसूक्ष्मग्रहणेन । कार्येति शरीरग्रहणस्य । निर्धारैरिति चतुर्विंशे । 'तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद्बृहत्' ॥ इत्यत्र बृहत्त्वात् 'गणितानन्दकं बृहत्' इत्यक्षरपदसाक्षरे शक्तिः सिद्धान्तमुक्तावल्याम् । स्पष्टेति । व्योमन्नित्यत्र सप्तम्या लुक् व्योम्नि आकाश इत्यर्थः । परत इतीति अदृश्यत्वादिगुणकाधिकरणे मायावादिनोऽक्षरान्मायायाः परतः । परो भूतयोनिरिति व्याचक्रुः । स्वमते तु अक्षरात् कीदृशः परतः इदं विशेषणं सांख्ये प्रधानसाधारत्त्वात् तद्वारणायेत्यदृश्यत्वाधिकरण उक्तम् । सांख्यमत- सादृश्यान्मायावादेप्याहुः मायाशक्तीति । तथा चाक्षरमविद्यापरत्वं मायाप्रधानमिवत्वं तेनात्रैकः संप्लववादी । एतेनेति भाष्योक्तेतिहासमनाजीकारेणासंबद्धाप्रलापेन च निराकृतः 'सम्यक् पादप्रशंसयोः' इति विभ्रात् सम्यक् प्रशंसेोऽङ्गीकृतो वा 'येप्यन्यदेवता भक्ताः' इति गीतोक्तेः । प्लवः श्लम्भः तेन तैर्र्वां वदितुं शीलमेषां ते संप्लववादिनः सर्वेषां संप्लववादिनः सर्वसंप्लववादिनः सर्वे च ते संप्लववादिनो वा । स्वस्ववादेन स्वीयदेवताप्राप्तेः । तत्र मायावादेन मायादेवतासिः तन्नाधिकारिणां च कदाचित्कृष्णप्रसाद्युक्तस्य मुक्तिरपि । अयं निराकृतः । इतिहासमतेनाक्षरे- व्यक्तपदशक्तेर्मुख्ये संभवति गौणस्यान्याय्यत्वात् । असंबद्धाप्रलापस्तु कारणग्रहणेनैवेत्यादिना प्रकाश एव कृतः । कारिकार्थैक्यं यथा अनेकेति । अनेकेषां रूढेः शब्दानां व्यापारव्यापारिभावः संबन्धः षष्ठ्यर्थः । वाच्यं ब्रह्मेति ॐमित्येकाक्षरं ब्रह्म सर्वं तस्योपव्याख्यानमिति प्रस्थानरत्नाकरे स्पष्टम् । एवकारो विशेषणसंगतोऽयोगव्यवच्छेदकः यथा शङ्खः पाण्डुर एवेत्यत्र । ब्रह्मत्वायोव्यवच्छेदक- ङ्गम्यमिति । वाच्यं विशेष्यम् । ब्रह्म विशेषणं व्यावर्तकत्वात् । आर्थिकमाहुर्नापरमिति उत्तरार्ध 893