अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 991, कुल 2600 में से
संदर्भ में पढ़ें४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० १ अनेकरूढिशब्दानां वाच्यं ब्रह्मैव नापरम् । शाक्तास्तांश्चेत् तथा ब्रूयुस्ते सन्मार्गाद् बहिष्कृताः ॥ भाष्यप्रकाशः । तदेतत् सर्वमभिसंधायाहुः अनेकेत्यादि । शक्तित इति । जैमिन्युक्तं भाट्टप्रसिद्धं लोकवेदाधिकरणमाश्रित्य लौकिकशक्तितः । तथेति प्रकृतिवाचकत्वम् । शाक्तास्तां चेदिति- कश्चित् पाठः । तदा तु, तां प्रकृतिं तथा जगद्बीजभूतां ब्रूयुरित्येवं योजना । तथाच, ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि’ रश्मिः । व्याचख्युः जैमिन्युक्तमिति य एव लौकिकाः शब्दाः ते एव वैदिका इति वदन्ति तद्यदि जैमिन्युक्तं स्यात्तदा सर्वे विधयच्छन्दसि विकल्प्यन्ते इत्यादिपूर्वै व्याख्यातेः स्फुटा इति कारिकांशव्याख्याने खरा- दिना भेदोपपादनं विरुद्धमिव भायात् अतो हि उत्पत्तौ वेत्यादिप्रथमपादाधिकरणमन्यथा व्याकर- णीयं यल्लोकवेदाधिकरणमित्युच्यते । तर्हि शक्तितश्चेतया ब्रुवाणा मीमांसकाः के इत्यत आहुः भाट्टेति तथा चाहुः जैमिनिन्यायमालाविस्तरे तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उक्तः । अद्य प्रायेण भाट्टमतमेवोपन्स्यते इति चतुर्थाधिकरणावतरणे सप्तमाधिकरणकारिके । ‘वेदवाक्यममानं स्यात् मानं वा नास्य मान्ता । पृथक्संकेतवीक्षायामनेपेक्षत्ववर्जनात् ॥ वेदेपि लोकवन्नैव वाक्यार्थे संगतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः’ ॥ इति । तथा च वृद्धव्यवहारेण लोके शक्तिग्रहः गृहीतशक्तिकः शब्दो वेदेपि बोधक इति इदं भाट्टमतं भाट्टप्रसिद्धम् । लौकिकशक्तितो वेदे व्यक्तपदे तथा प्रकृतिवाचकत्वं ब्रूयुः ते सन्मार्गादुक्ता- दोमित्येकाक्षरं ब्रह्मेत्यादि श्रौतान्मार्गाद्बहिःकृताः पाषण्डिन इति भावः । अत्रेतिहासमते रूढि- शब्दान्तर्गतोव्यक्तशब्दोपि भवति । ननु पूर्वपक्षे यौगिकोव्यक्तशब्दः उक्तः वेदान्ते योगादरादिति- ह्रासे तु रूढिरव्यक्तपदस्याक्षरे । ननु योगोपि संभवीति चेन्न ज्ञानिनः प्रति व्यक्तत्वेन तदेव हि सर्वप्रकारेण न व्यज्यत इति भाष्यविरोधात् । अत एव न कोशोक्तशंकरादौ योगः । अत एव न योगरूढः शब्दः । ततो रूढ्यास्य वाच्यं ब्रह्माक्षरं ब्रह्मेत्यर्थः । विष्ण्वादयो वाच्या इति वदन्तः श्रौतान्मताद्बहिःकृताः विशिष्टाद्वैतवादिनोव्यक्तपदेनाक्षरग्रहणेनासंबद्धाभिलापेन च सर्वसंप्लववादिनो निराकरणं इदमयुक्तम् । ‘आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति’ इति ‘आचार्यं मां विजानीया- न्नावमन्येत कंचन’ ‘सर्ववादानवसरं नानावादानुरोधि तत्’ इति निबन्धे । तथापि नानावादानुरोधेन क्रीडतः क्रीडाप्रकाशपूर्वकनिर्दृष्टक्रीडानिरूपणं ज्ञेयमेवं पूर्वत्राग्रेपि बोध्यम् । यथा शंकराचार्यमते- व्यक्तपदेन शरीररूपमाया सैवाविद्या सोच्यते । एते तु शरीरमव्यक्तपदार्थमाहुः तत्र कोशः प्रमाणं तदपेक्षया गीताप्रमाणं प्रबलमिति नाव्यक्तवाच्यं शरीरमपि त्वक्षरमित्येतेनेति भाष्यार्थकृतनिराकरणं ‘शरीरं रथमेव तु’ इत्यत्र शरीरग्रहणेनानन्यलभ्यो हि शब्दार्थः इत्यसंबद्धाभिलापश्च । भास्कराचार्य- मतेप्येवं अव्यक्तपदार्थः शरीरं असंबद्धाभिलाप भाष्यार्थकृतनिराकरणे पूर्ववत् । भिक्षुमतपि ज्ञेयम् । माध्वमते तु अव्यक्तपदार्थो विष्णुरक्षरः । सोपि सत्त्वगुणोपाधिरतः सच्चिदक्षरान्निष्ठा इति टीकाविरोधः 894