अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० १ अनेकरूढिशब्दानां वाच्यं ब्रह्मैव नापरम् । शाक्तास्तांश्चेत् तथा ब्रूयुस्ते सन्मार्गाद् बहिष्कृताः ॥ भाष्यप्रकाशः । तदेतत् सर्वमभिसंधायाहुः अनेकेत्यादि । शक्तित इति । जैमिन्युक्तं भाट्टप्रसिद्धं लोकवेदाधिकरणमाश्रित्य लौकिकशक्तितः । तथेति प्रकृतिवाचकत्वम् । शाक्तास्तां चेदिति- कश्चित् पाठः । तदा तु, तां प्रकृतिं तथा जगद्बीजभूतां ब्रूयुरित्येवं योजना । तथाच, ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि’ रश्मिः । व्याचख्युः जैमिन्युक्तमिति य एव लौकिकाः शब्दाः ते एव वैदिका इति वदन्ति तद्यदि जैमिन्युक्तं स्यात्तदा सर्वे विधयच्छन्दसि विकल्प्यन्ते इत्यादिपूर्वै व्याख्यातेः स्फुटा इति कारिकांशव्याख्याने खरा- दिना भेदोपपादनं विरुद्धमिव भायात् अतो हि उत्पत्तौ वेत्यादिप्रथमपादाधिकरणमन्यथा व्याकर- णीयं यल्लोकवेदाधिकरणमित्युच्यते । तर्हि शक्तितश्चेतया ब्रुवाणा मीमांसकाः के इत्यत आहुः भाट्टेति तथा चाहुः जैमिनिन्यायमालाविस्तरे तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उक्तः । अद्य प्रायेण भाट्टमतमेवोपन्स्यते इति चतुर्थाधिकरणावतरणे सप्तमाधिकरणकारिके । ‘वेदवाक्यममानं स्यात् मानं वा नास्य मान्ता । पृथक्संकेतवीक्षायामनेपेक्षत्ववर्जनात् ॥ वेदेपि लोकवन्नैव वाक्यार्थे संगतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः’ ॥ इति । तथा च वृद्धव्यवहारेण लोके शक्तिग्रहः गृहीतशक्तिकः शब्दो वेदेपि बोधक इति इदं भाट्टमतं भाट्टप्रसिद्धम् । लौकिकशक्तितो वेदे व्यक्तपदे तथा प्रकृतिवाचकत्वं ब्रूयुः ते सन्मार्गादुक्ता- दोमित्येकाक्षरं ब्रह्मेत्यादि श्रौतान्मार्गाद्बहिःकृताः पाषण्डिन इति भावः । अत्रेतिहासमते रूढि- शब्दान्तर्गतोव्यक्तशब्दोपि भवति । ननु पूर्वपक्षे यौगिकोव्यक्तशब्दः उक्तः वेदान्ते योगादरादिति- ह्रासे तु रूढिरव्यक्तपदस्याक्षरे । ननु योगोपि संभवीति चेन्न ज्ञानिनः प्रति व्यक्तत्वेन तदेव हि सर्वप्रकारेण न व्यज्यत इति भाष्यविरोधात् । अत एव न कोशोक्तशंकरादौ योगः । अत एव न योगरूढः शब्दः । ततो रूढ्यास्य वाच्यं ब्रह्माक्षरं ब्रह्मेत्यर्थः । विष्ण्वादयो वाच्या इति वदन्तः श्रौतान्मताद्बहिःकृताः विशिष्टाद्वैतवादिनोव्यक्तपदेनाक्षरग्रहणेनासंबद्धाभिलापेन च सर्वसंप्लववादिनो निराकरणं इदमयुक्तम् । ‘आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति’ इति ‘आचार्यं मां विजानीया- न्नावमन्येत कंचन’ ‘सर्ववादानवसरं नानावादानुरोधि तत्’ इति निबन्धे । तथापि नानावादानुरोधेन क्रीडतः क्रीडाप्रकाशपूर्वकनिर्दृष्टक्रीडानिरूपणं ज्ञेयमेवं पूर्वत्राग्रेपि बोध्यम् । यथा शंकराचार्यमते- व्यक्तपदेन शरीररूपमाया सैवाविद्या सोच्यते । एते तु शरीरमव्यक्तपदार्थमाहुः तत्र कोशः प्रमाणं तदपेक्षया गीताप्रमाणं प्रबलमिति नाव्यक्तवाच्यं शरीरमपि त्वक्षरमित्येतेनेति भाष्यार्थकृतनिराकरणं ‘शरीरं रथमेव तु’ इत्यत्र शरीरग्रहणेनानन्यलभ्यो हि शब्दार्थः इत्यसंबद्धाभिलापश्च । भास्कराचार्य- मतेप्येवं अव्यक्तपदार्थः शरीरं असंबद्धाभिलाप भाष्यार्थकृतनिराकरणे पूर्ववत् । भिक्षुमतपि ज्ञेयम् । माध्वमते तु अव्यक्तपदार्थो विष्णुरक्षरः । सोपि सत्त्वगुणोपाधिरतः सच्चिदक्षरान्निष्ठा इति टीकाविरोधः 894
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८४३ तस्मादिन्द्रियेभ्यः परवाक्ये नानुमानिकं किंचिदस्ति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ पूर्वापरसंबन्धेनार्थः प्रतिपादितः । केवलैतद्वाक्यविचारेऽपि न तदभीष्टं प्रकृतिरूपमव्यक्तं सिध्यतीत्याह। अत्र हि वाक्ये अव्यक्तं ज्ञेयत्वेन नोक्तं, तेषां तु प्रकृतिपुरुषान्तरं ज्ञातव्यम् । न हि सिद्धवन्मात्रनिर्देशे तेषां मते पुरुषार्थः सिद्ध्यति। अपुरुषार्थसाधनत्वे वा असंबद्धार्थवाक्यत्वमेव स्यात् । परत्व- भाष्यप्रकाशः । इत्यादि स्वश्रद्धाजाड्याद् वदन्तो वेदान्तविरुद्धवादित्वाच्चेत्यर्थः । सिद्धमाहुः तस्मा- दित्यादि ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ सूत्रमवतारयन्तः प्रयोजनमाहुः पूर्वेत्यादि । व्याकुर्वन्ति अत्र हीत्यादि । ज्ञातव्यमिति । 'गुणपुरुषान्तरज्ञानात् कैवल्यम्' इति प्रवचनसूत्रात् । विभूतिविशेषार्थे प्रधानस्यापि ज्ञेयत्वस्मरणाच्च तथेत्यर्थः । परत्वेत्यादि । परापरभावो हि रश्मिः । अक्षरस्य निर्गुणत्वात् मुख्यार्थस्य भाष्ये गीतोपन्यासेनोक्तवैष्णवमार्गस्यासंबद्धाभिलापत्वम् । शैवा- चार्यमतेप्येवं ज्ञात्वा वक्तव्यम् । सिद्धमाहुः तथा चेति । शिव इति । सौन्दर्यलहरीस्थं शिवपदं ब्रह्मपरं शक्तिर्माया । वेदान्तेति ॐमित्येकाक्षरं ब्रह्मेत्युक्तवेदान्तविरुद्धवादित्वात् तथा ते सन्मार्गा- द्वहिःकृतत्वेन प्रकारेण संपन्नाः । तस्मादितीति अत्र भाष्ये तस्मात् अव्यक्तपदस्याप्रधान- वाचकत्वात् । परस्य वाक्यं परवाक्यं 'इन्द्रियेभ्यः परा ह्यर्था' इति वाक्यं तस्मिन् । ननु कस्मात्पर- वाक्यमित्यत आहुः इन्द्रियेभ्य इति । ननु इन्द्रियेभ्यः परा इति वाक्ये इति वक्तव्ये इन्द्रियेभ्यः परवाक्य इति विलम्बोपस्थितिकप्रयोगः कुत इति चेन्न सर्वशब्दत्वात् । आचार्याणां प्रयोगेऽतार- तम्यात् ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ गुणेति गुणश्च प्रकृतिरूपः तदन्यः पुरुषश्च तयोर्ज्ञानात् । पुस्तकान्तरस्थं सूत्रं शंकरभाष्ये उक्तमिहोपन्यस्तं सूत्रं तु तदा सर्वावरणमलापगे तस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पमिति तदा पूर्वसूत्रोक्तसमाधिः ततः क्लेशकर्मनिवृत्तिः इति सूत्रं ततस्तदेति सूत्रमतस्तदा नाम समाध्यनन्तरं क्लेशकर्मनिवृत्तिकाले । विभूतीति 'मन्त्रौषधितपःसमाधिजाः सिद्धयः' इति सांख्यप्रवचनसूत्रात् । विभूतिविशेषाः परिणामत्रयसंयमादतीतानागतज्ञानमिति स्मरणम् । तथेति ज्ञातव्यत्वेन । परिणामत्रयसंयमो हि प्रधानरूपप्रधानकार्यज्ञानाधीनस्तस्यैव श्रीभागवते चैकादशस्य पञ्चदशेऽध्याये क्वचित्स्मर्यते । 'उदासीने मयि परे प्रकृतेर्गुणवृत्तिषु । चिन्मये धारयेच्चेतो द्वन्द्वैर्नैवाभिभूयते' ॥ इति । अत्र विभूतिविशेषो द्वन्द्वाभिभवाभावः । यद्वा गुण इत्यास्यायमर्थः सत्त्वादिगुणरूपात्प्रधाना- त्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । न हि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यते इति । न केवलं प्रधानस्य भेदप्रतियोगितया ज्ञेयत्वं तैरिष्टं किं तु तत्सोपासनयाऽणिमादिप्राप्तयेपीत्याहुः विभूतीति । भाष्ये । ननु 'अव्यक्तात्पुरुषः परः' इति शाब्दज्ञानविषयत्वमस्त्येव समाध्यनन्तरं 895
८४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० ३ वचनं चासंगतम् । श्लिष्टत्वादुभयोरिति चकारार्थः । अयं हेतुः पूर्वमुक्तोऽप्यव- सरे स्मारितः । तस्मादव्यक्तं न प्रकृतिः ॥ ४ ॥ भाष्यप्रकाशः । विश्लेषेऽवगन्तुं शक्यते, न तु संश्लेषे । इदानीमज्ञानदशायां तु श्लेष एवेत्युदासीनतयोक्तौ पुरुषस्य परत्ववचनमप्यसंगतं स्यादित्यर्थः । अयमिति । चकारसूचितः । पूर्वमिति अदृश्य- त्वाद्यधिकरणे ॥ ४ ॥ रश्मिः । सिद्धयोपि भवन्ति इति ज्ञेयत्वेनोक्तमेव प्रधानं कथं ज्ञेयत्वेन नोक्तं इति भाष्यमित्याशङ्कायामाहुः नहीति । मत इति तदुक्तं सांख्यप्रवचनसूत्रवृत्तौ 'प्रत्याहिकक्षुत्प्रतिकारवत् तत्प्रतिकारचेष्टनात् पुरुषार्थत्वम्' इति । 'निबन्धे 'वामा शाक्ताश्च योगे
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ ननु ज्ञेयत्वावचनमसिद्धम् । पूर्वं निर्देशमात्रमुक्त्वाऽग्रे ज्ञेयत्ववचनात् । 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते' ॥ इत्युत्तरवाक्ये वदतीति चेन्न । प्रकरणस्य नियामकत्वेनैकवाक्यत्वे द्वयोः सर्वैकवाक्यत्वेन प्राज्ञः परमात्मैव निचाय्यः । न तु द्वयोरेवैकवाक्यत्वं वक्तुं शक्यम् । तस्मात् प्रकरणस्य नियामकत्वे अशब्दवाक्यमपि भगवत्परमेव ॥ ५ ॥ भाष्यप्रकाशः । वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ प्रकरणस्येत्यादि अव्यक्तश्रुतेः परत्वलिङ्गस्य तद्धटितवाक्यस्य च साधारणत्वात् प्रकरणस्य निर्णायकत्वं वक्तव्यम् । अतस्तस्य नियामकत्वेनैकवाक्यत्वे वाच्ये, 'महतः परमव्यक्तम्' इति, 'अशब्दमस्पर्शम्' इति द्वयोरेवैक- रश्मिः । वाक्यमाशङ्क्य समाधातुं प्रसङ्गसंगत्या षष्ठं द्विसूत्रमनुकूलधिकरणम् । ततः प्रसङ्गसंगत्या जीवस्य मुक्तिदशायां ब्रह्माविर्भावेन विरुद्धधर्माश्रयत्वं फलितुं सप्तमं द्विसूत्रं 'शब्दादेव प्रमितः' इत्यधिकरणम् । ततः प्रसङ्गसंगत्या देवादीनां ब्रह्मविद्याधिकारं विचारयितुमष्टममष्टसूत्रं तदुपर्यपीत्यधिकरणम् । ततोऽनु प्रसङ्गसंगत्या शूद्राणां ब्रह्मविद्याधिकारं निराकर्तुं नवमं पञ्चसूत्रं शुगस्येत्यधिकरणम् । ततः प्रसङ्गसंगत्या- वतारदशायामपि भगवतो दण्डपाणित्वं बोधयितुं दशममेकसूत्रं कम्पनाधिकरणम् । ततः प्रसङ्गसं- गत्या उपसंपत्तव्यत्वोपसंपन्नस्वरूपामिनिष्पादकत्वपूर्ववाक्यगतहृदयत्वोत्तरवाक्यगतसत्यपदोक्तमर्त्या- मृतनियामकत्वरूपाणां चतुरो धर्मान् निष्क्रष्टुमेकादशमेकसूत्रं ज्योतिर्दर्शनाधिकरणम् । ततः प्रसङ्ग- संगत्यान्यवाचकपदवाच्यस्य यत्रैवान्तर्धर्मातिरिक्तधर्मकथनं तत्रान्यवाचकपदस्य ब्रह्मपरत्वमिति न्यायं बोधयितुं द्वादशमेकसूत्रमर्थान्तरव्यपदेशाधिकरणम् । ततः प्रसङ्गोपोद्धातान्यतरसंगत्या मुक्तिदशायामपि जीवस्यानुकारित्वमेव तदात्मकत्वात् न त्वत्यन्ताभेदः सर्वथा तौल्यं वेति ब्राह्मणद्वये विचारयितुं त्रयोदशं द्विसूत्रं सुषुप्त्युत्क्रान्त्योरित्यधिकरणम् । एवं निरूपणेन परापरभावासंगतिनिरूपणे प्रतिबन्धकीभूतायाः कथमदृश्यत्वादिगुणकस्याक्षरस्य परमात्मत्वादिकमित्यस्यानिवृत्ताववश्यवक्तव्यत्वं चकारार्थहेताववसर इत्युक्तं भाष्ये । स्मारितो व्यासपादैश्चकारप्रयोगेण । तस्मादिति ज्ञेयत्वावचनाच्चकारसूचितहेतोश्च ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ भाष्ये । पूर्वमिति महतः परमव्यक्त- मित्यत्र । वदतीति महतः परमित्यव्यक्तमुक्त्वा तन्निचाय्य ज्ञात्वेति वदति । प्रकरणापेक्षया श्रुत्यादीनामुपन्यासः सूत्र उचित इत्याशङ्क्य तेषां साधारण्येनाप्रयोजकत्वमाहुः अव्यक्तेति । महतः परमव्यक्तमित्यव्यक्तश्रुतिः निरपेक्षस्वरूपा महतः परं ध्रुवमिति परपदश्रुतिरिति अक्षरप्रकृत्योः साधारण्यं श्रुतेः परत्वरूपपरशब्दसामर्थ्यस्य । तद्धटितेति लिङ्गघटितवाक्यस्य पदानां वाक्यानां वा एकवाक्यता रूपस्य वाक्यस्य साधारण्यं तत्र लिङ्गघटितत्वं वाक्यद्वये पूर्वमीमांसोक्तवाक्यलक्षण- घटनायोग्यत्वाय । तदित्थं वाक्यद्वयं महतः परमव्यक्तमिति महतः परं ध्रुवं निचाय्य तमिति च । अत्र परत्वलिङ्गघटितत्वं तेनोभयोः पदानां वाक्यानां चैकवाक्यताघटनायोग्यत्वम् । वाक्यं नाम १०७ ब्र० सू० २०
८४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० ६ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ ननु न वयं सर्वमेकं प्रकरणमिति वदामः । किंतु, 'इन्द्रियेभ्यः पराः' इत्या- रभ्य, नाचिकेतमुपाख्यानमित्यन्तं भिन्नं प्रकरणम् । तत्र प्रथमं पदार्थनिर्देशः । भाष्यप्रकाशः । वाक्यत्वं नान्येषामित्यत्र नियामकाभावात् सर्वेषामेवैकवाक्यत्वं वक्तव्यम् । प्रकरणं च, 'ऋतं पिबन्तौ इत्यारभ्य 'नाचिकेतमुपाख्यानम्' इत्यन्तमेकम् । तत्र चात्मानावेव परामृश्य जीवात्मनो रथित्वं, तदुपकरणं तत्फलं चोक्त्वाग्रे, एष सर्वेषु भूतेष्वित्यारभ्य वल्लीसमाप्तिपर्यन्तं परमात्मैव ज्ञेयत्वेन परामृष्टः । मृत्युमुखप्रमोकरूपफलदर्शनात् । प्रधानज्ञानेन सांख्यैस्तदनभ्युपगमात् चेतनात्मज्ञानादेव तदभ्युपगमाच्च । अतः प्रकरणस्य
तवत्, एष सर्वेषु भूतेष्विति पुरुषज्ञानम् । अशब्दमिति तु प्रकृतिज्ञानम् । तस्मादेतावत्प्रकरणे साङ्ख्यमतनिरूपणादशब्दत्वमसिद्धमित्याशङ्क्य परिहरति ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ असाधुक्तव्याख्याने त्रिप्रकरणत्वमन्यथा भाष्यप्रकाशः। तयोरन्तरमेव ज्ञातं भवतीति नेदमीश्वरबोधकत्वेन वक्तुं शक्यमिति प्रधानसाङ्ख्यद्वत्वक- थनयुक्तमित्यर्थः । असाधुक्तेत्यादि । अयमर्थः । उभयाऽऽकाङ्क्षा हि प्रकरणम् । साऽत्र त्रयाणामग्निजीवब्रह्मणामेव प्रश्नोत्तराभ्यां प्रतीयते । यदि तृतीस्यां वह्न्याम्, 'इन्द्रियेभ्यः' इत्यारभ्य प्रकरणान्तरं स्यात् तदा पूर्ववदत्रापि प्रश्नोत्तरे स्याताम् । यदि च स्वत एव वरान्तरं दद्यात्, तदा, 'तमब्रवीत् प्रीयमाणः' इतिवत् तमप्युपक्षिपेत । किञ्चैतस्य प्रकरणा- न्तरस्य किं प्रयोजनमित्यपि विचारणीयम् । यदि मुक्तिस्तदा तु
प्राप्त्येत्यादिना किं चान्येष्वल्पेषु पित्र्यगान्धर्वप्राजापत्यदेवमानुष्याद्यमृत-"
Line 18:
संबन्धिषु प्राप्ते त्वन्न श्रुतं नाल्पं किं तु महत् तद्विस्तारकं नोस्मान् ब्रूहि हे मृत्यो गूढं ज्ञानसंबरणं
Wait, "प्राप्ते त्वन्न श्रुतं" -> "प्राप्ते त्वन्न श्रुतं" or "प्राप्तेष्वन्न श्रुतं"?
Look at the characters:
प्रा-प्ते (or प्रा-प्ते-ष्व)? No: प्रा-प्ते त्व-न्न (or त्व-त्तः? No, look at: त्व-न्न or त्व-न्तः? It is त्वन्न or त्वत्तः? No, two vertical lines: न्न? Or त्त? In this font, त्त has two horizontal bars, न्न has two loops. Look at 'त्वन्न': it has two न-loops or त्त? Wait, "त्वत्तः श्रुतं"? Let's look: "त्व" then "न्न"? No, "त्व" + "त्तः"? Wait, there is no visarga: it's "त्वन्न" or "त्वत्त"? Look at: "त्वन्न श्रुतं नाल्पं किं तु महत् तद्विस्तारकं नोस्मान् ब्रूहि"
Wait! "नोस्मान्" = न
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८४१
भाष्यप्रकाशः।
प्रश्नोत्तराणि प्रतीयन्ते । नच पितृसौमनसेनाग्निजीवप्रश्नाभ्यां च वरत्रयपूर्तेस्तृतीयप्रश्नस्य
रश्मिः।
सुविज्ञेयमणुरेष धर्म इत्युत्तरम् । शाब्दविज्ञानविषयत्वमात्रमिति तु । अन्यत्रेति धर्मादिभ्योऽन्यत्र । 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद' ॥ इति स्पष्टा । प्रश्नोयम् । वदेति प्रश्ने लोट् । 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्' ॥ 'एतद्ध्येवाक्षरं ब्रह्म ह्येतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्' ॥ इत्युत्तरम् । आमनन्ति अभ्यस्यन्ति, तपांसि पुराणादि विचारकत्वात् तप आलोचनेऽसुन् । गुरुभजनवान् ईश्वरभजनकर्तृत्वादत्र । भाष्ये । ननु पाठक्रमात्पूर्वमुपन्यासात्प्रश्नप्रक्षेपोऽयुक्त इत्याशङ्क्याहुः उपेति । उपन्यासः कथनम् । पश्चादिति तथा च यथा वह्निमान् धूमादित्यत्र हेतोः पश्चाद्वचनम् । तथात्रोपन्यासः पश्चात् । यथा दशमस्कन्धे पश्चादुपन्यासः साध्यतावच्छेदकसंबन्धो वाच्यतया प्रबन्धः । हेतुतावच्छेदकसंबन्धो वाच्यता । अत एवेति अनुमानध्वननादेव । तस्येति प्रश्नस्य । प्रकृते । इन्द्रियेभ्यः परा इत्यारभ्य नाचिकेतमुपाख्यानमित्यन्ते भिन्ने प्रकरणेऽभावात् पूर्ववल्लोट- लैटोरभावेन तस्य । ननु घटो घटश्चेत्युक्तिवदुपन्यासः प्रश्नश्चेत्युक्तिरस्त्वनुमानबोधकं किं पदमित्यत आहुः उत्तरेति । स्यादेवं घटः पट इत्युक्त्वा पट घट इतिवदुपन्यासः प्रश्नश्चेति विपरीतं न त्वेवं किं तु भिक्षामट गां चानयेतिवदन्वाचये चकारोऽस्तीति तेन गवानयनवत् भिक्षाटनकर्तृत्वादेव- वृत्तवदिति चोपन्यासवती प्रश्नवतीत्यादिति चकारान्वाचययोर्यादुत्तरः उपन्यासादुत्तरः प्रश्नस्तस्य भावः सत्ता तदर्थं चकार इति भाष्यार्थः । प्रकृते । त्रीण्येवेति । भाष्ये एवकारं समर्थयितुं जीवब्रह्मवादं च निराकर्तुं शंकरभाष्यस्थं किंचिदाहुः न च पित्रिति । अयमर्थः । पूर्वं उशन् इच्छन् अर्थात् पुत्रं वाजश्रवसो वाजमन्नं तस्याश्रवः श्रवणं यस्य स वाजश्रवास्तस्यापत्ये वाजश्रवसो नाम स पुत्रेष्ट्याईजे तत्फलं कामयमानः स तस्यामिष्टौ सर्ववेदसं सर्वस्वं ददौ । तस्य ह नचिकेताः पुत्र आस स सर्वस्वान्तर्गतः स्वसादाने पितुरनिष्टं फलं श्रद्धावेशादाज्ञाय तात 'कस्मै मां दास्यसि' इत्युक्तवान् । शंकरभाष्ये तु वाजमन्नं तद्दानादिनिमित्तं पुत्रेष्ट्याईजे इत्यत्र विश्वजिता सर्वमेधेनेजे इति पठितम् । तदा पिता स्वस्य सर्वस्वदानसत्यतायै मृत्यवे दत्तवान् स च यमभवनं गत्वा तिस्रो रात्रीरुवास ततश्च यममाह भार्या भगिनी वा, पद्मपुराणे यमुनामाहात्म्ये यमुनावचनं यमं प्रति स्मर्यते 'ब्रूहि भ्रातः स्वकार्यं हि किं त्वं श्रावय तत्पदम् । तदाकर्ण्य करिष्यामि विचार्य सहृदि प्रियम्' ॥ इति, तद्वत् । उदकाहरणं ब्राह्मणाय कर्तव्यमित्येवमुक्तो यम आह— 'तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन् अतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन् वरान् वृणीष्वेति' ॥
१. ईश्वरं गुरुं च भजतेति । २. समुच्चये । ३. गुरुभजनवान् ईश्वरभजनकर्तृत्वादप्रमदितः इति । ४. चकारशब्दाच्छ्रवणहेतुभूतः । 901
८५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० १ रश्मिः । तत्रैकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्वेति शंकरभाष्यम् । शान्तसंकल्पः सुमना वीतमन्युरिति वरत्रयसंभवादिति त्रीन् वरान् वृणीष्वेति मृत्युनेोक्तो नचिकेताः । 'शान्तसंकल्पः सुमना यथा स्याद्दीतमन्युः गौतमो मामि मृत्युलो । त्वत्सृष्टं मामभिवदेत् प्रतीत एतत्प्रयाणां प्रथमं वरं वृणे' ॥ इति पितृसौमनस्येनेत्यर्थः । किं चाग्निजीवप्रश्नाभ्यां स त्वमग्निमित्यस्योत्तरार्थ 'स्वर्गलोका अमृतत्वं भजन्ते' एतद्द्वितीयेन वृणे वरेणेति द्वितीये वरे प्रथमप्रश्नपरिसमाप्तेस्तथा 'येयं प्रेते विचिकित्सा' इत्य- स्योत्तरार्थं 'एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः' इति तृतीये वरे द्वितीयप्रश्नपरिसमाप्तेरन्यत्र धर्मादित्युक्तस्तृतीयः प्रश्नः काल्पनिकः कल्पनेन व्यवहरति 'तेन दीव्यति खनति' इति ठक्, इत्याशङ्क- यानस्तुतीयः प्रश्न इति भाष्यमाशङ्कयम् । तेन जीवप्रश्न एव परमात्मप्रश्न इति पुनरनुत्थुप्यते जीवप्राज्ञ- योरभेदात् । न च जीवस्य धर्मादिगोचरत्वात् स नान्यत्र धर्मादिति प्रश्नमर्हति प्राज्ञस्तु धर्माद्यती- तत्वात् अन्यत्र धर्मादिति प्रश्नमर्हति प्रश्नच्छाया च न समाना लक्ष्यते पूर्वस्यास्तित्वनास्तित्वविषय- त्वादुत्तरस्य धर्माद्यतीतविषयत्वात् । तस्मात्प्रत्यभिज्ञानाभावात् प्रश्नभेदो न पूर्वस्यैवोत्तरत्रानुकर्षणमिति शङ्क्यम् । मवद्ब्रह्मभेदात् प्रश्नभेदो यद्यन्यो जीवः प्राज्ञतः स्यान् न त्वन्यत्वमस्ति तत्त्वमसीत्या- दिश्रुत्यन्तरेभ्यः इति शंकराचार्याः जीवब्रह्मवादमवतारयन्ति सोत्रावतारितसद्ब्रह्मपामाहुः यस्तदिति । अवधिविप्रायः पश्यसीति पदात् । 'अथ वा शून्यवद्ब्रह्मं व्योमेव ब्रह्म तादृशम् । प्रकाशते लोकदृष्टया नान्यथाऽहङ् स्पृशेत् परम्' ॥ इति । निबन्धीक्तरूपसारणाच्च चालन्तजीवभिन्नत्वेन प्रश्नभेद इति । जीवस्य त्वप्रत्यक्षत्वं 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेः । न चावृत्तचक्षुस्त्वं पश्यसि तद्वदे- त्तर्वं इति शङ्क्यम् । 'त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि' इति वायुप्रतिपादकश्रुतेः 'ब्रह्म तर्हि अभिः' इति श्रुतेश्च अभ्रिस्तु दृष्ट एव । जीवस्याणुत्वं जीवाणुत्ववाद उपपादि, अतो न जीवो वायुवत्प्रत्यक्ष इति । अन्यत्र वायुरपि त्वाचप्रत्यक्षविषयोतो ऽपरं प्रत्यक्षं पृष्टं परं च अन्यत्र शंकरभाष्येऽस्य प्रश्नस्याङ्गीकारः केषां विदस पृथक् सत्यं स्फोरयति सूत्रकृताङ्गीकृतं सत्यमिति चेत् कुतो निराक्रियते श्लक्ष्णसङ्गति- बलदिति चेन्न पद्मपुराणे उत्तरखण्डे उमामहेश्वरसंवादे गुणत्रयविवरणकथने 'मायावादमसच्छास्त्र- मित्येत्त्वानिराकरणच्छिनेन । ननु तर्हि श्लक्ष्णसंगतिरन्या केति चेन्न ब्रह्मवादेन संगतिः सुस्थिरा भवति । तथाहि सौमनस्यपर्यन्तं समानकं सर्वमुक्तम् । अर्थस्तु हे मृत्यो मामभि मां प्रति मत्पिता शान्तसंकल्प इत्यादिरूपः सन् त्वत्सृष्टं त्वदर्जितं मामभिवदेत्प्रतीतो लब्धस्मृतिः स एवानं पुत्रो ममे- त्यभिजानन् एततप्रयोजनं वरमार्थं वृणे । तदा मृत्युस्त्वाह 'यथा पुरस्तात् भविता प्रतीत:' इति तव पिता यमितेत्यर्थः । नचिकेता उवाच । 'स्वर्गे लोके न भयं किंचनास्ति न तत्र च त्वं न जरया विभेति' किं च 'उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके' इति वामिति वर्णागमः । एतदग्रे स त्वमग्निमिति । इतः संगतिर्भिन्ना त्रयाणामेवाग्निजीवपर- मात्मनामेव वरप्रदानसामर्थ्यात् वक्तव्यतयोपन्यासो दृश्यते कठवल्लीषु तद्विषय एव च प्रश्नो नातोऽन्यस्य प्रश्न उपन्यासो वा दृश्यते इति सूत्रार्थः परेषास् । अवधारण एवं परं व्याकृतमत्र 902
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५१ नाचिकेतः प्रजानन्' इत्याद्युत्तरम् । 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके' इति द्वितीयः प्रश्नः । देवैरत्रापीत्यग्रे उत्तरम् । 'अन्यत्र धर्मादन्यत्राधर्मात्' इति तृतीयः प्रश्नः । 'सर्वे वेदा यत् पदमामनन्ति' इत्यादिना भाष्यप्रकाशः। काल्पनिकत्वं शङ्क्यम् । 'यत् तत् पश्यसि तद् वद' इति श्रुत्यैव सिद्धत्वात् । नंच निर्हेतुकत्वम् । 'तमब्रवीत् प्रीयमाणो महात्मा' इत्युक्तवरवदस्यापि वक्तव्यमीतिहेतुकत्वात् । नच तत्प्रीतेः काल्पनिकत्वम् । 'नैषा तर्केण' इति वाक्यस्थस्य श्रेष्ठपदस्यैव गमकत्वात् । नच 'यत् सांपराये महति ब्रूहि नस्तत्' इतिवदस्यापि पूर्वप्रश्नानुवादत्वं शङ्क्यम् । विषयनिर्देशविरोधात् । नच, 'येयं प्रेते' रश्मिः। तु त्रयाणामेव प्रकरणानामेक एवशब्देन चतुर्थप्रकरणव्यवच्छेदः । असङ्कुचेति भाष्यात् । उत्तरत्वेन त्रयाणामेव न चतुर्थस्यैवोपन्यासः । चकारोऽप्यादिसमुच्चये, अंश्यादिकथनं च प्रश्नसमुच्चये, प्रश्नश्च द्वितीयचकार उत्तरप्रश्नभावार्थ स चोत्तरः प्रयोक्तव्यः उत्तरवतीवेदान्तप्रभात् यथैवं तद्वैवं वेदश्रुतिवद्विख्युतरोत्तरप्रश्नप्रयोगफलं वह्निमान् धूमादित्यत्र पर्वतो वह्निमानितिवदुत्तरप्रयोगफलमिति सूत्रार्थः । सिद्धत्वादिति वदेति लोटः संप्रश्नार्थकत्वेन तथा तस्मात् । नन्वन्येऽप्यर्थाः सन्ति संप्रश्नार्थग्रहणे किं कारणमिति चेन्न । तृतीयवरानन्तरमन्यं वरं नचिकेतो वृणीष्वेति श्रुत्युक्तैः वर- कारणसत्त्वात् । श्रुत्यैवेत्यत्रैकारेण वरव्यवच्छेदः । वराभावं तत्र कारणाभावं च शङ्कते स्म न च निरिति । आपद्येत इति शङ्कमिति शेषः । वरवदिति तवैव नाम्ना भवितायमग्निरिति वरवत् षष्ठ्यन्ताद्वतिः । अस्येति तुरीयवरस्य इति । वाक्येति । 'नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा' ॥ इति वाक्यस्यस्य । किंच वरप्रदानसामर्थ्यात् प्रश्नोत्तरे इत्यसंबद्धं वरोमीष्टमिति पक्षे वरः श्रेष्ठ इति पक्षे च प्रश्ने तयोः सामर्थ्यात्साहेतुत्वात् । अभीष्टश्रेहसामर्थ्याभावेऽप्यनुरोधात् प्रश्नदर्शनात् । तदत्र नास्ति यौक्तिकत्वात् । तर्हि अनुवादत्वमस्तु तृतीयप्रश्नस्यास्तीत्याहुः न च यदिति । अयं च 'येयं प्रेते' इति प्रश्नानुवादः । 'यस्मिन्निदं विचिकित्सन्ति मृतौ' इति पूर्वपादात् । अर्थस्तूक्तः । तदुभयोरर्थयोः प्रथमार्थेनानुवादत्वम् । अस्येति तृतीयप्रश्नस्य । पूर्वप्रश्नो जीवप्रश्नस्तस्यानुवादत्वं सिद्धस्य कथनमनुवादस्तस्य भावः । विषयेति । पूर्वस्य जीवः तृतीयप्रश्नस्याक्षरः । न च जीवोऽक्षर इति पूर्वानुवादत्वं 'एतद्ध्येवाक्षरं परम्' इतिश्रुतौ परंपदेनादृश्यत्वाद्यधिकरणोक्तपरमव्योकेः । न च 'एतद्ध्येवाक्षरं ब्रह्म ह्येतद्ध्येवाक्षरं परम्' इत्याद्यनन्तरं 'न जायते म्रियते वा विपश्चित्' इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानशारीरपरमेश्वरयोर्भेदं दर्शयति । सति हि प्रसङ्गे प्रतिषेधो भागी भवति प्रसङ्गश्च जन्ममरणयोः शारीरसंसर्गात् शारीरस्य भवति न परमेश्वरस्य । तथा । 'स्वप्नान्तं जागरित्तान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति' ॥ इति स्वप्नजागरितदृशो जीवस्यैव महत्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयंश्च प्राज्ञादन्यो जीव इति दर्शयति प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः । तथाग्रे 'यदेवेह तदमुत्र यदमुत्र तदन्वेह मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति जीवप्राज्ञभेददृष्टिमपवदति 903
Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Devanagari Markdown:
८५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० ६ भाष्यप्रकाशः। इत्येतदुत्तरस्य ब्रह्मप्रश्नात् प्राग्भावात् तत्पूर्वग्रन्थस्य तदनुत्तरत्वं शङ्क्यम् । 'न सांपरायः' इति वाक्ये परलोकमात्त्वमानिनः पुनः पुनः स्ववशगत्वोक्त्या तादृशस्याप्यस्तिबोधनस्यै वोत्तरत्वात्। रश्मिः। चातो जीवब्रह्मवादोस्त्विति वाच्यम्। अदृश्यत्वाद्यधिकरणोक्तं रूपमेतद्ब्रह्माक्षरं ब्रह्मेत्युक्त्वा न जायत इति श्रुत्युक्तेरेतासां कृष्णावतारपरत्वात् । विपश्चित्पदात् 'सूर्यो विपश्चिन्मनसा पुनातु' इति विपश्चितः सूर्यत्वं कृष्णस्य सूर्यत्वं च 'कृष्णद्युमणिम्निर्मोचे' इति वाक्यात् । अतः कृष्णविपश्चितोरेकार्थवाचक- त्वम् । जन्ममरणयोरविर्भावतिरोभावात्मकत्वान्न दोषः । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः' इति वाक्यात् । न च मुरस्य जलदोषात्मकस्यारित्वसमकालिकावाविर्भावतिरोभावाविति शङ्क्यम् । नारायणत्वेनात्मत आविर्भावतिरोभावाविति श्रुतेश्च मुरवैरित्वसमकालिकत्वस्याविर्भावतिरोभावयोः पौराणिकत्वात् । स्वप्नान्तं जागरितान्तं चेत्यादि कृष्णावतारे 'लोकवत्तु लीलाकैवल्यम्'इति सूत्रात्। इहेति इह लोके कृष्णावतारे । अमुत्र परब्रह्मणि । नानादर्शने स्वगतद्वैतापत्तिरतः साधनै राजसतामसज्ञाने निहत्य सात्विकं ज्ञानं संपाद्य नानादृष्टिनिर्वर्तनीया तदुक्तम् 'सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं सात्विकं स्मृतम्' ॥ इत्याकादशस्कन्धे । अतो न जीवब्रह्मवादः । एवं विषयनिर्देशविरोधादित्यर्थः । किं च अनूद्य- जीवप्रश्न एकः अनुवादकं तु दृष्टान्तदार्ष्टान्तिकयोर्भिन्नं तत्र यदि दृष्टान्तेऽनुवादकं वाक्यं स्यात् तदा दार्ष्टान्तिकेपि वदेत् तदेव तु न दृष्टान्तीयानुवादकवाक्यस्य त्वर्थान्तरादिदं वाक्यं जीवप्रश्ने मृत्युना 'अन्यं वरं नचिकेतो वृणीष्व' इत्युक्तौ नचिकेताः 'यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् । योयं वरो गूढमनुप्रविष्टो नान्यं वरं तस्माञ्चिकेता वृणीते' ॥ इत्याह । अत्र तस्मादित्यस्य यस्मिन्नित्यादिनानूदितद्वितीयप्रश्नार्थ्यादित्यर्थे अनुवादः स्यान्न त्वेवं न्यूनताख्यानिग्रहस्थानापत्तेः । न हि ब्रह्म जीवस्यात्ममात्रं 'अधिकं तु भेदनिर्देशात्' इति सूत्रात् किं तु तस्मादित्यस्य श्रौतपदस्योक्तोभयार्थद्वितीयपक्षः ग्रहण इत्यर्थः । अतोनानुवादत्वं शङ्कमित्यर्थः । न चात्र चतुर्थो वरस्तस्य समाप्तत्वात् नचिकेता नामा अग्रि प्रसिद्धौ अतोम्यं वरं नचिकेतो वृणीष्व इत्यन्तं चरमवरकारणकस्तुतीयो ब्रह्मप्रश्न इति । एवं तृतीये प्रश्ने समर्थिते देवैरत्रापीत्यस्य प्रथम- वल्लीसमाप्तिपर्यन्तस्योत्तरत्वम् । द्वितीयवल्लीस्थस्य ॐमन्यच्छ्रेय इत्यादेरुत्तरत्वमाशङ्क्य समादधुः न च येयमिति । येयं प्रेत इत्यस्य प्रश्नस्य यदुत्तरं तस्य देवैरत्रापीत्यारभ्य 'नचिकेता वृणीते' इति प्रथमवल्लीसमाप्त्यन्तस्य ग्रन्थस्यात्र प्राग्भावादित्यत्र प्राग्भावादिति पाठः। तत्पूर्वेति ब्रह्मप्रश्नात्पूर्व- ग्रन्थस्य प्रथमवल्लीसमाप्त्यनन्तरस्य ॐमन्यच्छ्रेय इत्यादिग्रन्थस्य द्वितीयवल्लीस्थस्य 'न सांपरायः' इति वाक्यात्पूर्वस्य । तदनुत्तरत्वं द्वितीयप्रश्नानुत्तरत्वं विचिकित्सनाभावाच्छङ्क्यम् । न इति । 'न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं वा लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे' ॥ इति वाक्ये । स्ववशेति मृत्युवशगत्वोक्त्या । तादृशेति परलोकमात्त्वमानिनोपि । अस्ति 'अस्तीत्येके नायमस्तीति चैके' इत्यनयोरस्तिबोधनपक्षस्यात्रापि सत्त्वात् । यद्धर्मप्रकारकयदद्विषयकप्रश्न- स्तद्धर्मावच्छिन्नतदुद्देशकमुत्तरमिति नियमस्य को घटः कम्बुग्रीवादिमान् घट इत्यादिषु दर्शनादस्ति- 904
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८९३ भाष्यप्रकाशः। नच तदग्रिमग्रन्थवैयर्थ्यं शङ्क्यम् । उत्तमाधिकारदर्शनेनाधिकप्रश्नोदयार्थमेव तदुक्त्याऽवैयर्थ्यात् । तत एव श्रेयःप्रेयसोर्विद्याविद्ययोश्च कथनपि युज्यते । अतः 'तं दुर्दर्शम्' इति वाक्यद्वयान्त- रश्मिः । घटितजीवप्रशंसास्तिबोधकस्यासांपराय इति वाक्यस्योत्तरत्वादिति । तदग्रिमेति न सांपराये- तिवाक्याग्रिमस्य 'श्रवणायापि बहुभिर्यो न लभ्यः' इत्यादिजीवनिरूपकग्रन्थस्य वैयर्थ्यम् । उत्तमेति यस्मिंन्निदमिति वाक्येन कामाप्रलोभादुत्तमाधिकारदर्शनेन त्वादृङ् नो भूयान्नचिकेतः प्रष्टा' इति प्रश्नप्रशंसया चोत्तमाधिकारदर्शनेन । अधिकेति प्रश्नप्रश्नोदयार्थम् । तदुक्त्येति तदग्रिमग्रन्थोक्त्या हेतोः । तत इति अधिकप्रश्नोदयार्थत्वादेव 'अन्यच्छ्रेयो
८५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० ६ भाष्यप्रकाशः । संदर्भ एव तृतीयवरप्राप्तस्य द्वितीयप्रश्नस्य पूर्तैः 'अन्यत्र धर्मात्' इत्यनेनोक्तस्य प्रश्नस्य तृतीयत्वं प्रसादहेतुकत्वं च मन्तव्यम् । नच प्रसङ्गाभावः शङ्क्यः । जीवप्रश्नप्रत्युत्तरोपसंहारत्वे दुर्दर्श- वाक्योत्तरम् । 'एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रगृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये' ॥ इत्यस्मिन् वाक्ये, एतत्पूर्ववाक्योक्तं, देवं व्यवहर्तारं जीवमाचार्यमुखाच्छ्रुत्वा संपरिगृह्य सम्यगात्मत्वेनोपादाय मर्त्यः शरीरद्वयव्यतिरिक्तत्वज्ञानेन हर्षशोकशून्योऽपि, येऽन्येऽरवि- न्दाक्षेतिवाक्योक्तन्यायान्मरणधर्मैव सन् प्रगृह्य धर्म्यं, 'न हि सुविज्ञेयमणुरेष धर्मः' इ
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५५ उत्तरम् । एवमग्निजीवब्रह्मणां प्रश्नोत्तराणि । तत्र यदि साङ्ख्यमतं निरूपणीयम्, 'इन्द्रियेभ्यः' इत्यादि स्यात् तदा चतुर्थस्याप्युपन्यासः स्यात् । उपन्यासे हेतुः प्रश्नः । अत एव पश्चाद्वचनम् । तस्य प्रकृतेऽभावादसङ्गतरीत्या त्रीण्येव प्रकर- णानीति सिद्धम् । उत्तरप्रश्नाभावार्थं चकारः ॥ ६ ॥ भाष्यप्रकाशः। सः, जीवं ज्ञात्वा विद्वान्, मोदनीयं सर्वथालम्बनेन प्रसाधनीयं ब्रह्म लब्ध्वा प्राप्य मोदते । एष ह्येवानन्दयातीति श्रुतेः । मोदते हि यतो हेतोरतो नचिकेतसं त्वामधिकारिणं प्रति स च सद्म- भूतं ब्रह्म विवृतमपाहृतद्वारं मन्य इति कथनेन ब्रह्मणः स्मारणात् । न च पञ्चमवल्लीस्थस्य, यथा च मरणं प्राप्येति सार्द्धवाक्यस्योत्तरत्वं शङ्क्यम् । व्यवहितत्वात् । हन्त इदं
८५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० ६ रश्मिः । 'यथा हि मरणं प्राप्यात्मा भवति गोतम । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' । मरणं प्राणत्यागं जीवीयं प्राप्य त्यक्ताः प्राणा भगवत्समीपं गच्छन्ति स आत्मा आध्यात्मिकादितत्रितयविदाश्रयो भवति आत्मावतारादिरपि । लोकवत्तु लीलाकैवल्यमिति सूत्रानुसरणात् । धीरविषय उक्तः । अधीरविषयमाह योनिमिति 'योनेः शरीरम्' इति सूत्रात् । स्थाणुमन्ये । श्रुतं गुर्वादिमुखद्वारा । प्रसङ्गागतान्यगतिसहितेश्वरनिर्याणस्य मुक्तिलीलात्वेपि शोकदत्वात्तद्विहाय विसर्गलीलामारभ्याहुः य एष्विति । य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेवशुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ अवक्रं ऋजुः 'विसर्गः पौरुषः स्मृतः' इति वाक्यम् । अत्र स्वप्नसृष्टिनिर्मातृत्वं तच्च कर्तृत्वमात्रं नाभिजन्मनिमित्तोपादानत्वरूपमिति न संध्याधिकरणभाष्यविरोधः 'यस्मिन् लोकाः श्रिताः सर्वे तदुनात्येति कश्चन एतद्वैतत्' इति श्रुतिरत्र अत्येति अत्यन्तमेति तद्ब्रह्म 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति अत्र लोकधारकत्वादाश्रयलीला कृष्णाश्रयनामाश्रयः । 'अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च' ॥ वायुर्यथैक इति वाक्यं पूर्ववत् । अत्र धर्मिणोऽसाधारणधर्मेण व्यापकत्वेन रूपनामनिर्वाहकत्वलीला तत्त्वादिरूपनामनिर्वाहकत्वेन सर्गलीला । महत्तत्त्वांहंकारादीनि नामानि 'प्रोचुः प्राञ्जलयः' इति वाक्यात् रूपाणि । 'सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' ॥ इत्यत्र लोकदुःखासंसृष्टलोक्त्या जगद्व्यापारवर्ज 'सर्वरसः' इति श्रुतेः सर्वरसलीला विसर्गलीला । भक्तानुरोधिनीं लीलां विसर्गरूपामाह । 'एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्' ॥ इति । अत्रैकरूपस्य बहुधाकरणं भक्तानुरोधात् यद्यद्धियेति वाक्यात् । आत्मस्थं श्रुतिस्थं 'तस्माद्ग- मिष्ठा एतास्त्वा आभिर्मिञ्चो न वै विमुः' इति कृष्णोपनिषच्छ्रुतेः मनःस्थं वा 'स मानसीन आत्मा जनानां सर्वात्मा' इति श्रुतेः । फलदातृत्वरूपं स्थानादिलीलामाह 'नित्यो नित्यानां चेतनश्चेतनाना- मेको बहूनां यो विदधाति कामान् तमात्मस्थम्' इति पूर्ववत् । सुखस्थाने शान्तिः फलमत उपपत्तेरिति सूत्रात् 'तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् । कथं नु तद्विजानीयात् किमुतो भाति वा न वा' ॥ तद्ब्रह्म एतत्प्रत्यक्षं समीपतरं मन्यन्ते जानन्ति अवबोधयन्ति वा निवृत्तेषणा ब्राह्मणादयः तत्सुखं कथं केन प्रकारेण जानीयामहे नचिकेताः । विजानीयात् यः कोपि । किमुतेति नावध्रिये 903
यहाँ पृष्ठ की सामग्री का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । [८५७] रश्मिः । शङ्कतेः, न विकल्पे, वाकारोक्तेः । अतः प्रश्ने आसमन्ताद्भाति न वेति प्रश्नः । भासाद्वारा दीप्यते इत्युत्तरमाह 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ॥ इति । 'अनुकृतेस्तस्य च' इत्यत्र व्याख्याता पञ्चमवल्लीस्था लीला । एवमा वलीसमाप्ति लीला- कथनदर्शनेनेत्यर्थः । अग्रेतनवह्व्यर्थः कथ्यते प्रसङ्गात् । 'अत एव च नित्यत्वम्' इति सूत्रभाष्ये वेदस्यार्थतौल्यं शब्दब्रह्मवेदपुरुषशब्दवाच्यत्वमुक्तं तदाहुः ऊर्ध्वमूल इति इयं विसर्गरूपेण लीला 'तस्माद्विराडजायत विराजो अधिपूरुषः' इत्युक्त्वा किंचिदन्यदुत्तोच्यते 'तस्माद्य- ज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत' इति श्रुतेः । 'ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते' 'तस्मिंल्लोकाः श्रिताः सर्वे तदुनात्येति कश्चन एतद्वैतत्' इति श्रुतिः । अत्र पञ्चिवृषभतृक्षेषु वृक्षत्वेन वेदोऽवर्णि । ननु वृक्षे लोकानां श्रितत्वं बाधितमिति चेन्न ऊर्ध्वमूलं तद्विष्णोः परमं पदमस्य स्वर्गनरकतिर्यगादि- शाखाभिरवाक्शाखः अश्वत्थः अश्वत्थं जलमस्यास्ति 'अर्शआद्यच्' 'आपः प्रजाहितं शान्तं अश्वत्थं पवनं शिवम्' इति केशरमालाकोश इति व्याख्यासुधायां भानुदीक्षितः । यद्वा अश्वस्तिष्ठत्यस्मिन्त्रि- त्यश्वत्थः लोकास्त्वश्वे तिष्ठन्ति अस्मिंस्त्वश्वस्तिष्ठतीति अश्वो रूपं कृत्वा यदश्वत्थे तिष्ठते इति अश्वत्थशब्दो योगरूढः 'विचारो योगरूढितः' इति पूर्वमीमांसाकारिकायाः । तथा च व्यापककोशनामा पदार्थः कल्की अवतारः । अवतारत्वाद्द्द्यापकः । रूपं प्रत्यक्षाश्वत्थरूपम् । तिष्ठत इति उपग्रहव्यत्ययः । परस्मैपदी आत्मनेपदी उपग्रहः । सनातनो नित्यः । तथा च वेदतरोः शब्दात्मकत्वमर्थतरोरवताराम- त्मकत्वमतोत्र शुक्रत्वादिविदधौ श्रुतिः तदेव शुक्रमिति । शुक गमने भ्वा. प. से. गतमित्यर्थः क्रियेति यावत् वेदार्थयोरभेदात् । तद्ब्रह्मेति अवतारावतारिणोरभेदात् । एतदमृतमिति तस्मिंल्लोकाः श्रिताः सर्वे । अत्यन्तं नेति प्राप्नोतीत्यर्थात् । अग्रे भगवतो मारणलीलार्थमारकं रूपं भगवत आह यदिदं किं चेति । कम्पनादित्यधिकरणे चिन्तिता । इयं लीला स्थानलीला । पुनः स्थानलीलामाह । 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' ॥ इति । स्पष्टम् । यथा वज्रोद्यतकरं स्वामिनं दृष्ट्वाऽभिमुखीभूय भृत्या नियमेन तच्छासने प्रवर्तन्ते तथेमाः प्रजा इति स्थानलीला । पूर्ववाक्ये फलमुक्तं य एतद्विदुरमृतास्ते भवन्तीति द्वितीय- श्रुत्युक्तस्थानलीला ज्ञानफलमाह । 'इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते' ॥ इति । स्थानलीलां बोद्धुमशकत् शक्नोति कालव्यत्ययः । शरीरस्य विस्रसः पतनात् प्राक् । कचिद्विस्रसः इत्यत्र विश्रम इति पाठः । श्रम धातुः खेदतपसोः दि. प. से. । बोद्धुमशक्ये स्थान- लीलाबोधे वैजात्यात्फलवैजात्येमाह यथादर्श तथात्मनि यथा स्वप्ने तथा पितृलोके यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपौ ब्रह्मलोके इति । आदर्शे प्रतिबिम्बभूतकार्येश्वरं पश्यति तथात्मनि बुद्धौ मनसि वा 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । पश्यति यथा च दर्श चन्द्रसूर्ययोः संगमे यथा १. वैजात्यात् । २. वैजात्यात् । 909
८५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १ सू० ६ रश्मिः । भावलोकनात्मके दर्श विषयत्वेन पश्यति तथा आत्मनि मनसीति पूर्ववत् 'दर्शस्तु संगमे चन्द्रसूर्य- योरवलोकने' इति विश्वः । चन्द्रसूर्ययोरवलोकने इत्यन्वये सूर्यत्वेन चन्द्रत्वेन पश्यतीत्यर्थः । यथा खप्ने जीवस्य मायिकभोगस्तथा पितृलोककामस्य पितृलोके उपस्थिते मायिकभोगः यथाप्सु परिदृश्ये परिदृश्यते एकोपि बहुत्वेन इव तद्वत् । तथा तेन प्रकारेणैको बहुत्वेन परिदृश्यते छायांतपयोरिवात्यन्तविलक्षणौ ब्रह्मलोके । शोकाभावफलार्थमाह । 'इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति' ॥ इति । युक्तो हि इन्द्रियाणां पृथगुत्पन्नानां पृथग्भावं मत्वा ज्ञात्वा न शोचति । अयमपि भेदो निरध्यस्तदेहेन्द्रियकेषु । भक्तिज्ञानमार्गयोः निरध्यस्तदेहेन्द्रियकेषु भेदावाह निरध्यस्तेन्द्रियो भक्तभेदिन्द्रियाणामुदयः निरध्यस्तेन्द्रियैरेव कर्मकरणसंभवात् । ज्ञानी चेदिन्द्रियाणामस्तभावः । इन्द्रियत्वेनाज्ञानमात्मत्वेन ज्ञानम् । 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति फलाध्यायसूत्रात् मुक्तस्यामृतत्वं फलमाह इन्द्रियेभ्य इति । 'इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् । अव्यक्तात्परः पुरुषो व्यापकोऽलिङ्ग एव च । यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति' ॥ इति । परत्वमिन्द्रियनायकत्वात् 'मनसैवानुद्रष्टव्यः' इति करणत्वाच्च । उत्तमत्वं ज्ञानजनकत्वा- द्विष्णुलोपोपादकत्वाच्च । अधि न दधातीत्यधि योः किः आधेयो जीवः आत्मा अस सत्त्वाद्विष्णुत्वा- पादकादुत्तमत्वं कथमित्यत आह महानिति । अपरिच्छिन्नपरिमाणवान् मुक्त इति यावत् । तथा च निर्गुणत्वादुत्तमत्वमधिकत्वं वा कवर्णलोपात् । अव्यक्तमक्षरम् । अलिङ्ग इति लिङ्ग्यते गम्यते येन तत्तथोक्तं चिह्नं तदविद्यमानमस्येत्यलिङ्गः । चिह्नादीनां विद्यमानत्वाल्लिङ्गः लिगि गतौ भ्वा. प. से. । 'नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय । वेणुस्वनामोदितगोकुलाय नमोस्तु गोपीजनवल्लभाय' ॥ इति । गोपीजनवल्लभाष्टकोक्तानि चिह्नानि गम्यन्ते येन स आत्मा लिङ्गः तज्ज्ञानेत्युक्तं तत्र करणाकाङ्क्षायामाह । 'न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति' ॥ इति । संदृशे सम्यग्ज्ञानाय रूपं तिष्ठति । द्रव्यचाक्षुषं प्रत्युद्भूतरूपस्य कारणत्वेन कथं तत्पश्यति । उच्यते । हृदा मनसा । मनीट् मनसः संकल्पादिरूपस्येदं नियन्तृत्वेनेति मनीट् बुद्धिरतया मनसा अभितः कॢप्तम् । सुपां सुः मनसाभिकॢप्तः । एतद्विशेषणं रामतापनीये 'उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना' इति । स मानसीन आत्मा जनानामिति मनसा । ननु मनोग्राद्यत्वापत्तिः आत्मा 'मत्स्याहमेकया ग्राह्यः' इति वाक्याद्भक्तिमात्रग्राह्य इति चेन्न । मनसाभिकॢप्तपदेन मनसाभिकल्पन- विषय उच्यतेऽत्र मनसा कल्पनं 'मयि रहस्समजनं तदिहामुत्र फलभोगनैराश्येनायुष्मिन् मनःकल्पन- १. नैराश्यात् । २. नैराश्यात् । 910
मेतदेव च नैःकर्म्यम्' इति गोपालतापनीयश्रुत्युक्तमनसः कल्पनरूपं गृह्यते इति मनसा कल्पनं मनः- कल्पनमिति विगृह्य समासस्यापि संभवात् तथा च मनःकल्पनेन भक्तिरूपेण ग्राह्यः, हृदा मनीषा च सहकारिकारणानुगृहीतेनेति करणमुक्तम् । 'भक्त्या प्रसन्ने तु हरौ तं योगेनेव योजयेत्' इति सुबोधिन्या योगमाह । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्' ॥ 'तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ' ॥ भवेति आत्मन्यवतिष्ठन्ते निरोधलक्षणोक्तरीत्या । बुद्धिश्च स्वव्यापारे न व्याप्रियते तां परमां गतिं फलरूपां सेवामाहुः । निरोधलीला इत्युक्तम् । अप्रमत्तस्तदा भवतीत्युक्त्या मन्यन्त इत्यत्र केचिदिति कर्तृपोषनात् विरलाः कर्तारः । अतः सकलसाधारणयोगमाह योग इति प्रभवत्वस्यादिति प्रभवः इति 'भुवः प्रभवः' इत्यत्र व्याकृतं मनोरमायां भट्टोजिदीक्षितेनात्रापि बोध्यम् । अपि अयः ब्रह्मणि गमनं संयोगो भवत्येव हि निश्चयेन यतः सर्वोपि वदति गच्छतीत्यत्र गमनं उत्तरदेशसंयोगं करोतीति न च फलानुकूलव्यापारो धात्वर्थ इति वाच्यम् मण्डनमिश्रवत्फलमात्रस्य धात्वर्थाङ्गी- कारादसामर्थ्यप्रयोगदशायां निर्गुणेप्ययः न च साकारेणन्तमूर्ती ब्रह्मणि कुतो नाप्ययः । भक्त्यैकलभ्यत्वात् ता नाविदन्निति वाक्यात् तथा चोभयोर्मुक्तसाधारणयोर्मध्येजीवयोश्च ब्रह्मण- कारणाभावादनुपलभ्यमाने न स्त एव जीवब्रह्मणी इति प्राप्त आह । 'नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति' ॥ इति नैव वागादिभिः प्राप्तुं शक्ये यद्यपि तथापि योगकाले आत्मद्वयमस्तीत्येवोपलब्धव्य आत्मा कस्मादस्तीति श्रुवतो भक्तिवादिन आगमार्थानुसारिणः श्रद्धानादन्यत्र नास्तिकवादिनि विपरीतदर्शिनि कथं तद् द्वयमुपलभ्यते न कथंचनेत्यर्थः । तस्मादपोढासहदिपक्षमासुरमस्तीत्येवो- पलब्धव्यः आत्मा तत्त्वभावेन तस्य चात्मनो भावस्तत्त्वं तस्य भावः सत्ता तयोपलब्धव्या जीवात्मा तत्राप्युभयोर्ज्ञानब्रह्मणोः । निर्धारणे षष्ठी । पूर्वमस्तीत्येवोपलब्धव्यः । आत्मा प्रसीदति तत्त्व- भावो जीवसत्ता प्रसीदति योग ऐक्यान्न चकारप्रयोगः । अधुना जीवन्मुक्तिप्रकार उच्यते । 'यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुते' ॥ इति स्पष्टम् । जीवन्मुक्तिप्रकार एष सलिङ्गदेहस्य । 'यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्धनुशासनम्' ॥ इति । हृदयस्य ग्रन्थयो लिङ्गदेहास्तेषां भेदनेऽमृतो भवति । इहेति पदाद्वयमपि जीवन्मुक्त- प्रकारौ द्वितीयः । मुक्तिप्रकारमाह शतमिति स्पष्टम् ।
८६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० ६ रश्मिः । ‘शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ ॥ इति श्रुतिः । सर्वविद्यायोपसंहारार्थमाह । ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतम्’ ॥ इति । मुञ्जादिति श्रीभागवते स्पष्टम् । शुक्रमिति शुच शोके भ्वा. प. से. शोचति ऋज्रेन्द्रेति रन् तमङ्गुष्ठमात्रं जीवसहितं शोचन्तं जीवं संचितकर्मसद्भावात् । अमृतमानन्दरूपमात्मानं विद्याज्जानी- यात् पुनर्वचनं कर्ममार्गीयजीवाङ्गुष्ठमात्रयोः ग्रहणाय । भक्तिमार्गे तु ‘ततः संसारदुःखस्य निवृत्तिर्ब्रह्म- बोधनम्’ इति न शोकान्वयः मनुष्यानधिकृत्येदं मृत्यूपाल्यानं प्रवृत्तम् । अतो मनुष्याणां हृदयस्या- ङ्गुष्ठमात्रत्वाद्रह्मण्यमङ्गुष्ठमात्र उपसंहार उक्त इति ‘शब्दादेव प्रमितः’ इत्यधिकरणे उक्तम् । ‘हृद्यपेक्ष- या तु मनुष्याधिकारत्वात्’ इतिसूत्रे मुक्तिप्रकारकथनानन्तरमङ्गुष्ठमात्ररूपोपिजीवस्य मुक्तिदशायां ब्रह्मा- विर्भावेन विरुद्धधर्माश्रयत्वे फलिष्यतीति वेदान्ताधिकरणमालायामभिप्राय उक्तः । सोपि साकारस्या- नन्तमूर्तेरनेकाखसाग्रहणे बाधकाभाव इत्यभिप्रायेण । नचिकेत उपास्यानावगतसाधनस्य फलमाह । मृत्युनोक्ता नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योप्येवं यो विदध्यात्ममेव ॥ श्रुतेर्वचनान्नम श्रुतेरिव । अन्योर्थः । अन्योप्येवं यः सोध्यात्मविदेवेति । मनुष्याधिकारं ज्ञानकाण्डे निरूपयन्ती श्रुतिर्विमयांचकार निःश्वसितत्वेन वायुत्वात् । वायुः शब्दतामापद्यत इति । ततश्च गयादिन्द्रश्च वायुश्चेति श्रुतेर्धयमस्याः सा श्रुतिराह सं ह नाववतु इति स आत्मा ह प्रसिद्धः नौ वक्तृश्रोतारौ अवतु आमन्त्रणे लोट् अधीष्टे वा, न प्रार्थने ‘प्रार्थिते वा ततः किंस्यात् स्वाम्यभिप्राय- संशयात्’ इति वाक्यात् । ननु ज्ञानकाण्डीयस्याधिकारात्प्रच्यावनेन भगवान् मारयेदिति चेत्तन्नाह सह नौ भुनक्तु इति पालयतु अभ्यवहरतु वा । ‘यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ । सह वीर्यं करवावहै वीर्यं विद्याकृतं सामर्थ्यं तेन सह भावां करवावहै यथा न द्विप्यात् । तथा च तृतीयप्रश्नोत्तरे प्रधानीकृत्य वीर्यं करवावहै भावामिति भावः । तेजस्वि नावधीतमस्तु यथा तेजस्वि नौ आवयोः वक्तृश्रोत्रोरधीतमस्तु मा विद्विषावहै मा निषेधे आत्मानं सर्वप्रशस्तारं भावां मा विद्विषावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति । ननु वीर्ये कृतेप्युपक्रमोपसंहारयोर्मनुष्याधिकाराद्विद्याया ज्ञानकाण्डे कोपयोग इत्यत आह शान्तिरिति । शम उपशमे दि. प. से. शम आलोचने चु. आ. से. लोमृदर्शने चु. प. से. उपालोचनं विद्याया ज्ञानकाण्डीयब्रह्मज्ञाने कर्तव्यम् । मार्गत्वये शान्तित्रयम् । अन्यभ्यास्याने शान्तिपदे योगरूढ्यापत्तिः । अत्र वेदान्ते योगमात्रादरणादेवं व्याकृतमिति । प्रकृतमनुसर्यते तथावसायादिति लीलालने य एषु सुप्तेष्वित्यादिषु पदार्थेष्वङ्गीकारावसायात् । अतो दैवेत्रापि इत्यत्र उत्तरम् । प्रश्नोत्तरयोः समान- विषयत्वस्य को घटः कम्बुग्रीवादिमान् घट इत्यादिषु दर्शनादिति भाष्यार्थः । तृत्राण व्युत्पत्तिः । संगतिः ग्रन्थ उक्ता । यद्धर्मप्रकारक्यद्विषयिणी जिज्ञासा तद्धर्मावच्छिन्नतदुद्देशकं लक्षणदि- निरूपणमिति नियमसासोदाहरणं को घटः कम्बुग्रीवादिमान् घटः इति । किंच मान्यं प्रति मधीमि 912
Here is the complete and accurate Devanagari text transcription of the provided image, line by line:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । [८५३] भाष्यप्रकाशः । यत्तु वरदानानुरोधेन ब्रह्मप्रश्नस्य जीवप्रश्नान्तर्गतत्वं शंकराचार्यैरङ्गीकृतं तदसङ्गतम् । वस्तुप्रसादस्यैवात्र प्रश्नकारणतादर्शनात् । नच त्रीन् वरान् वृणीष्वेति वाक्यबाधापत्तिः । स्वस्ति मेऽस्त्विति वाक्येोक्तस्य स्वाविनाशार्थणावरत्रयस्य सौमनसाग्निजीवप्रश्नाभ्यां च पूर्त्या तदभावात् । नच तृतीयप्रश्नस्य काल्पनिकत्वम् । वदेति श्रुत्यैव तन्निरासात् । नचाधिक्यं दोषः । दोषत्वाभावस्योपपादितत्वात् । अतोऽस्य भिन्नप्रश्नत्वेऽपि कल्पनाया अभावेन, यथा वरव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पनायामप्यदोष इति । साङ्गोक्तप्रतिबन्देरपि परिहारादू व्यर्थ एव प्रष्टव्यभेदमनादृत्य, रश्मिः । इत्यग्रिमश्लोचरमुक्तं तदपि शंकराचार्यैः 'लोकादिमग्निं तमुवाच तस्मै' इति तदग्रिमवाक्यस्यो- त्तरत्वमुक्तं तन्निरासितुम् । न च 'प्रति ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्' इत्यस्य प्रतिज्ञावचनत्वात् तदेवोत्तरमिति शङ्क्यम् । 'अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहा- याम्' इत्युत्तराधैनास्यैवोत्तरत्वात् । यदपि 'न जायते म्रियते वा विपश्चित्' इति तृतीयप्रश्नोत्तरमुक्तं तस्यात्रामिप्रायोऽभावाददर्शनाच्च 'सर्वे वेदा' इत्येवोत्तरम् । वरदानेति न वयमिह वरदानव्यति- रेकेण प्रश्नं कंचित्कल्पयामो वाक्येोपक्रमसामर्थ्यात् । वरदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन् वरान् ददौ । नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनसं वव्रे, द्वितीयेनाग्निविद्यां, तृतीयेनात्मविद्यां 'येयं प्रेते' इति 'वराणामेष वरस्तृतीयः' इति लिङ्गात् । तत्र यदि 'अन्यत्र धर्मात्' इत्यपूर्वोऽन्यन्यः प्रश्न उत्थाप्यते ततो वरव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्यतेति भाष्येण यत्स्वित्यादिः । प्रभेति वरप्रदानद्वारा प्रश्नकारणता । स्वस्तीति । मे नचिकेतसे । स्वेति नचिकेतोऽविनाशार्थकवरत्रयस्य । तदभावादिति तथा च वरप्रदानव्यतिरेकेण प्रश्नाङ्गीकारः श्रुतिं विरुणद्धीति श्रुत्यन्तरोक्तरूपो- ङ्गीकृत इति भावः । भाष्योपपादने समाहितमपि काल्पनिकत्वं मतान्तरे प्रश्नद्वयस्यैक्यसाधनप्रयासस्य व्यर्थत्वसाधने पुनराहुः न चेति । एतच्च पूर्वमुपपादितम् । पूर्वं वरत्रयान्तर्गततृतीयवरस्य काल्प- निकत्वमुक्तमत्र तु वरत्रयपृथगितिभेदः । ननु त्रीन् वरानित्युक्ते चतुर्थीयमाधिक्यं निग्रहस्थानदोषः । यथाह दिनकर्याम् । अधिकसाधिकहेत्वाद्यभिधानरूपस्य गुणेन्तर्भाव इति वाच्यम् । उपेति न च निर्हेतुकत्वमित्यादिनोपपादितत्वात् । अत इति उक्तोपपादनात् । यथाश्रुतग्रन्थव्याकरणपक्षेऽत्र तृतीयप्रश्ने वरप्रवेशाभावादाहुः वरव्यतिरेकेणेति । अत्रोच्यते नैव वयमिह वरदानव्यतिरेकेण प्रश्नं कंचित् कल्पयाम इति शंकरभाष्यं पूर्वोक्तयुक्त्याक्षिप्तं तेन च तेषामस्य पूर्वपक्षग्रन्थः । यथैष वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पनायामदोषः स्यादिति तत्रापि वरप्रदानव्यतिरेकेण प्रश्नकल्पना युक्तियुक्ता, प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पना युक्तियुक्ता न भवतीति दृष्टान्तदार्शन्तिकयोः वैषम्यं सूचितम् । पूर्वपक्षग्रन्थे न प्रतिबन्दिः । अपरीति । अत्रो- च्यते । नैव वयमित्यादेः सिद्धान्तग्रन्थस्योकरीत्या वैचित्र्येन पूर्वपक्षश्लोकस्यापरिहारात् । प्रष्टव्येति द्वितीयतृतीयप्रश्नयोः जीवब्रह्मणोर्भेदं स च ननु च ब्रह्मप्रमेदाद् द्वयोर्न प्रश्नो भवितुमर्हति । पूर्वो हि प्रश्नो जीवविषयः येयं प्रेते मनुष्येस्ति नास्तीति विचिकित्साभिधानात्, जीवस्य धर्मादिगोचरत्वात्, स
१. विम्बाय हिताम् । १०९ म० सू० २० 913