अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 994, कुल 2600 में से
संदर्भ में पढ़ेंवदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ ननु ज्ञेयत्वावचनमसिद्धम् । पूर्वं निर्देशमात्रमुक्त्वाऽग्रे ज्ञेयत्ववचनात् । 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते' ॥ इत्युत्तरवाक्ये वदतीति चेन्न । प्रकरणस्य नियामकत्वेनैकवाक्यत्वे द्वयोः सर्वैकवाक्यत्वेन प्राज्ञः परमात्मैव निचाय्यः । न तु द्वयोरेवैकवाक्यत्वं वक्तुं शक्यम् । तस्मात् प्रकरणस्य नियामकत्वे अशब्दवाक्यमपि भगवत्परमेव ॥ ५ ॥ भाष्यप्रकाशः । वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ प्रकरणस्येत्यादि अव्यक्तश्रुतेः परत्वलिङ्गस्य तद्धटितवाक्यस्य च साधारणत्वात् प्रकरणस्य निर्णायकत्वं वक्तव्यम् । अतस्तस्य नियामकत्वेनैकवाक्यत्वे वाच्ये, 'महतः परमव्यक्तम्' इति, 'अशब्दमस्पर्शम्' इति द्वयोरेवैक- रश्मिः । वाक्यमाशङ्क्य समाधातुं प्रसङ्गसंगत्या षष्ठं द्विसूत्रमनुकूलधिकरणम् । ततः प्रसङ्गसंगत्या जीवस्य मुक्तिदशायां ब्रह्माविर्भावेन विरुद्धधर्माश्रयत्वं फलितुं सप्तमं द्विसूत्रं 'शब्दादेव प्रमितः' इत्यधिकरणम् । ततः प्रसङ्गसंगत्या देवादीनां ब्रह्मविद्याधिकारं विचारयितुमष्टममष्टसूत्रं तदुपर्यपीत्यधिकरणम् । ततोऽनु प्रसङ्गसंगत्या शूद्राणां ब्रह्मविद्याधिकारं निराकर्तुं नवमं पञ्चसूत्रं शुगस्येत्यधिकरणम् । ततः प्रसङ्गसंगत्या- वतारदशायामपि भगवतो दण्डपाणित्वं बोधयितुं दशममेकसूत्रं कम्पनाधिकरणम् । ततः प्रसङ्गसं- गत्या उपसंपत्तव्यत्वोपसंपन्नस्वरूपामिनिष्पादकत्वपूर्ववाक्यगतहृदयत्वोत्तरवाक्यगतसत्यपदोक्तमर्त्या- मृतनियामकत्वरूपाणां चतुरो धर्मान् निष्क्रष्टुमेकादशमेकसूत्रं ज्योतिर्दर्शनाधिकरणम् । ततः प्रसङ्ग- संगत्यान्यवाचकपदवाच्यस्य यत्रैवान्तर्धर्मातिरिक्तधर्मकथनं तत्रान्यवाचकपदस्य ब्रह्मपरत्वमिति न्यायं बोधयितुं द्वादशमेकसूत्रमर्थान्तरव्यपदेशाधिकरणम् । ततः प्रसङ्गोपोद्धातान्यतरसंगत्या मुक्तिदशायामपि जीवस्यानुकारित्वमेव तदात्मकत्वात् न त्वत्यन्ताभेदः सर्वथा तौल्यं वेति ब्राह्मणद्वये विचारयितुं त्रयोदशं द्विसूत्रं सुषुप्त्युत्क्रान्त्योरित्यधिकरणम् । एवं निरूपणेन परापरभावासंगतिनिरूपणे प्रतिबन्धकीभूतायाः कथमदृश्यत्वादिगुणकस्याक्षरस्य परमात्मत्वादिकमित्यस्यानिवृत्ताववश्यवक्तव्यत्वं चकारार्थहेताववसर इत्युक्तं भाष्ये । स्मारितो व्यासपादैश्चकारप्रयोगेण । तस्मादिति ज्ञेयत्वावचनाच्चकारसूचितहेतोश्च ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ भाष्ये । पूर्वमिति महतः परमव्यक्त- मित्यत्र । वदतीति महतः परमित्यव्यक्तमुक्त्वा तन्निचाय्य ज्ञात्वेति वदति । प्रकरणापेक्षया श्रुत्यादीनामुपन्यासः सूत्र उचित इत्याशङ्क्य तेषां साधारण्येनाप्रयोजकत्वमाहुः अव्यक्तेति । महतः परमव्यक्तमित्यव्यक्तश्रुतिः निरपेक्षस्वरूपा महतः परं ध्रुवमिति परपदश्रुतिरिति अक्षरप्रकृत्योः साधारण्यं श्रुतेः परत्वरूपपरशब्दसामर्थ्यस्य । तद्धटितेति लिङ्गघटितवाक्यस्य पदानां वाक्यानां वा एकवाक्यता रूपस्य वाक्यस्य साधारण्यं तत्र लिङ्गघटितत्वं वाक्यद्वये पूर्वमीमांसोक्तवाक्यलक्षण- घटनायोग्यत्वाय । तदित्थं वाक्यद्वयं महतः परमव्यक्तमिति महतः परं ध्रुवं निचाय्य तमिति च । अत्र परत्वलिङ्गघटितत्वं तेनोभयोः पदानां वाक्यानां चैकवाक्यताघटनायोग्यत्वम् । वाक्यं नाम १०७ ब्र० सू० २०