अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 995, कुल 2600 में से
संदर्भ में पढ़ें८४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० ६ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ ननु न वयं सर्वमेकं प्रकरणमिति वदामः । किंतु, 'इन्द्रियेभ्यः पराः' इत्या- रभ्य, नाचिकेतमुपाख्यानमित्यन्तं भिन्नं प्रकरणम् । तत्र प्रथमं पदार्थनिर्देशः । भाष्यप्रकाशः । वाक्यत्वं नान्येषामित्यत्र नियामकाभावात् सर्वेषामेवैकवाक्यत्वं वक्तव्यम् । प्रकरणं च, 'ऋतं पिबन्तौ इत्यारभ्य 'नाचिकेतमुपाख्यानम्' इत्यन्तमेकम् । तत्र चात्मानावेव परामृश्य जीवात्मनो रथित्वं, तदुपकरणं तत्फलं चोक्त्वाग्रे, एष सर्वेषु भूतेष्वित्यारभ्य वल्लीसमाप्तिपर्यन्तं परमात्मैव ज्ञेयत्वेन परामृष्टः । मृत्युमुखप्रमोकरूपफलदर्शनात् । प्रधानज्ञानेन सांख्यैस्तदनभ्युपगमात् चेतनात्मज्ञानादेव तदभ्युपगमाच्च । अतः प्रकरणस्य