अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 996, कुल 2600 में से
संदर्भ में पढ़ेंतवत्, एष सर्वेषु भूतेष्विति पुरुषज्ञानम् । अशब्दमिति तु प्रकृतिज्ञानम् । तस्मादेतावत्प्रकरणे साङ्ख्यमतनिरूपणादशब्दत्वमसिद्धमित्याशङ्क्य परिहरति ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ असाधुक्तव्याख्याने त्रिप्रकरणत्वमन्यथा भाष्यप्रकाशः। तयोरन्तरमेव ज्ञातं भवतीति नेदमीश्वरबोधकत्वेन वक्तुं शक्यमिति प्रधानसाङ्ख्यद्वत्वक- थनयुक्तमित्यर्थः । असाधुक्तेत्यादि । अयमर्थः । उभयाऽऽकाङ्क्षा हि प्रकरणम् । साऽत्र त्रयाणामग्निजीवब्रह्मणामेव प्रश्नोत्तराभ्यां प्रतीयते । यदि तृतीस्यां वह्न्याम्, 'इन्द्रियेभ्यः' इत्यारभ्य प्रकरणान्तरं स्यात् तदा पूर्ववदत्रापि प्रश्नोत्तरे स्याताम् । यदि च स्वत एव वरान्तरं दद्यात्, तदा, 'तमब्रवीत् प्रीयमाणः' इतिवत् तमप्युपक्षिपेत । किञ्चैतस्य प्रकरणा- न्तरस्य किं प्रयोजनमित्यपि विचारणीयम् । यदि मुक्तिस्तदा तु