अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 992, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८४३ तस्मादिन्द्रियेभ्यः परवाक्ये नानुमानिकं किंचिदस्ति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ पूर्वापरसंबन्धेनार्थः प्रतिपादितः । केवलैतद्वाक्यविचारेऽपि न तदभीष्टं प्रकृतिरूपमव्यक्तं सिध्यतीत्याह। अत्र हि वाक्ये अव्यक्तं ज्ञेयत्वेन नोक्तं, तेषां तु प्रकृतिपुरुषान्तरं ज्ञातव्यम् । न हि सिद्धवन्मात्रनिर्देशे तेषां मते पुरुषार्थः सिद्ध्यति। अपुरुषार्थसाधनत्वे वा असंबद्धार्थवाक्यत्वमेव स्यात् । परत्व- भाष्यप्रकाशः । इत्यादि स्वश्रद्धाजाड्याद् वदन्तो वेदान्तविरुद्धवादित्वाच्चेत्यर्थः । सिद्धमाहुः तस्मा- दित्यादि ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ सूत्रमवतारयन्तः प्रयोजनमाहुः पूर्वेत्यादि । व्याकुर्वन्ति अत्र हीत्यादि । ज्ञातव्यमिति । 'गुणपुरुषान्तरज्ञानात् कैवल्यम्' इति प्रवचनसूत्रात् । विभूतिविशेषार्थे प्रधानस्यापि ज्ञेयत्वस्मरणाच्च तथेत्यर्थः । परत्वेत्यादि । परापरभावो हि रश्मिः । अक्षरस्य निर्गुणत्वात् मुख्यार्थस्य भाष्ये गीतोपन्यासेनोक्तवैष्णवमार्गस्यासंबद्धाभिलापत्वम् । शैवा- चार्यमतेप्येवं ज्ञात्वा वक्तव्यम् । सिद्धमाहुः तथा चेति । शिव इति । सौन्दर्यलहरीस्थं शिवपदं ब्रह्मपरं शक्तिर्माया । वेदान्तेति ॐमित्येकाक्षरं ब्रह्मेत्युक्तवेदान्तविरुद्धवादित्वात् तथा ते सन्मार्गा- द्वहिःकृतत्वेन प्रकारेण संपन्नाः । तस्मादितीति अत्र भाष्ये तस्मात् अव्यक्तपदस्याप्रधान- वाचकत्वात् । परस्य वाक्यं परवाक्यं 'इन्द्रियेभ्यः परा ह्यर्था' इति वाक्यं तस्मिन् । ननु कस्मात्पर- वाक्यमित्यत आहुः इन्द्रियेभ्य इति । ननु इन्द्रियेभ्यः परा इति वाक्ये इति वक्तव्ये इन्द्रियेभ्यः परवाक्य इति विलम्बोपस्थितिकप्रयोगः कुत इति चेन्न सर्वशब्दत्वात् । आचार्याणां प्रयोगेऽतार- तम्यात् ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ गुणेति गुणश्च प्रकृतिरूपः तदन्यः पुरुषश्च तयोर्ज्ञानात् । पुस्तकान्तरस्थं सूत्रं शंकरभाष्ये उक्तमिहोपन्यस्तं सूत्रं तु तदा सर्वावरणमलापगे तस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पमिति तदा पूर्वसूत्रोक्तसमाधिः ततः क्लेशकर्मनिवृत्तिः इति सूत्रं ततस्तदेति सूत्रमतस्तदा नाम समाध्यनन्तरं क्लेशकर्मनिवृत्तिकाले । विभूतीति 'मन्त्रौषधितपःसमाधिजाः सिद्धयः' इति सांख्यप्रवचनसूत्रात् । विभूतिविशेषाः परिणामत्रयसंयमादतीतानागतज्ञानमिति स्मरणम् । तथेति ज्ञातव्यत्वेन । परिणामत्रयसंयमो हि प्रधानरूपप्रधानकार्यज्ञानाधीनस्तस्यैव श्रीभागवते चैकादशस्य पञ्चदशेऽध्याये क्वचित्स्मर्यते । 'उदासीने मयि परे प्रकृतेर्गुणवृत्तिषु । चिन्मये धारयेच्चेतो द्वन्द्वैर्नैवाभिभूयते' ॥ इति । अत्र विभूतिविशेषो द्वन्द्वाभिभवाभावः । यद्वा गुण इत्यास्यायमर्थः सत्त्वादिगुणरूपात्प्रधाना- त्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । न हि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यते इति । न केवलं प्रधानस्य भेदप्रतियोगितया ज्ञेयत्वं तैरिष्टं किं तु तत्सोपासनयाऽणिमादिप्राप्तयेपीत्याहुः विभूतीति । भाष्ये । ननु 'अव्यक्तात्पुरुषः परः' इति शाब्दज्ञानविषयत्वमस्त्येव समाध्यनन्तरं 895