अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 14, कुल 109 में से
संदर्भ में पढ़ें( ८ ) अपरोक्षानुभूतिः । शेषो ज्ञेयः सक इत्यतआह एवमिति यं एवं प्रकारेण स- म्यक् संशयादिशून्यो निश्चयः एवं कथमित्यतआह नि- त्यमिति हीति विद्वदनुभवप्रसिद्धमात्मस्वरूपं नित्यम- विनाशि अबाध्यं सत्यमित्यर्थः “अविनाशी वा अरेयमा- त्मा” इति श्रुतेः दृश्यमानात्मस्वरूपं तद्विपरीतगं तदा- त्मस्वरूपं तस्माद्विपरीतत्वेन गच्छति प्राप्नोति व्यवहार- भूमिमिति तथाविधं विनाशि बाध्यमित्यर्थः अत्रेदमनु- मानमपि सूचितं भवति आत्मस्वरूपं नित्यं द्रष्टृत्वात् यन्न नित्यं तन्न द्रष्टृ यथा घटादीति केवलव्यतिरेकीहेतुः तथाऽनात्मस्वरूपमनित्यं दृश्यत्वात् यन्नानित्यं तन्नदृश्यं यथात्मस्वरूपमित्ययमपि केवलव्यतिरेकी हेतुः ॥ ५ ॥ भा. टी. आत्मा नित्यहै और जो कुछ संसारकी वस्तु देखनेमें आवै है सो अनित्यहै इस प्रकारका अच्छी तरह जो पुरुषको निश्चय होनाहै सो वस्तुका विवेक कहावै है ॥ ५ ॥ ( शमदमका स्वरूप ) सदैव वासनात्यागः शमोयमिति श- ब्दितः ॥ निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६ ॥ सं.टी. तदेवं वैराग्यकारणं विवेकं व्याख्याय वैराग्य- कार्यं शमादिषट्कं लक्षयति सदैवत्यादितिभिः श्लोकैः स- दैव सर्वस्मिन्नपि काले वासनात्यागः पूर्वसंस्कारोपेक्षायंऽ-