अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 21, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहिता । (१५) सूक्ष्मदेहाभ्यां विपरीतधर्मकोस्मि'अस्थूलमण्वह्रस्वम्' इत्यादि श्रुतेः कश्चिदिति जात्यादिरहितत्वान्मनो- वाचामगोचरत्वं दर्शितं अयमीदृशः सविचार इति व्या- ख्यातार्थश्चतुर्थः पादः श्लोकचतुष्टयेपि बोद्धव्यः॥१३॥ भा. टी. मैं भूतगण समष्टिरूप देह नहीं हूँ मैं समष्टि रूप इन्द्रियोंका समूह नहीं हूँ इससे विलक्षण कोई है सो विचार कहावे है ॥ १३ ॥ अज्ञानात्प्रभवं सर्वं ज्ञानेन प्रविलीय- ते ॥ सङ्कल्पो विविधः कर्त्ता विचारः सोऽयमीदृशः ॥ १४ ॥ सं. टी. तदेवं कोहमित्येतन्निश्चित्येदानीं कथमिदं जातमित्यस्य निश्चयः क्रियते तत्र पृथिव्यादिभूतानि कार्यत्वात्स्वस्वपरमाणुभ्यो जायंते इति तार्किकादयो मन्यंते कर्मणो जायंते इतिमीमांसकाः प्रधानादेवेति सांख्याः तदेतन्निराकुर्वन्नाह अज्ञानेति सर्वं जगदिदं ना- मरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्तस्वस्वरूपस्फुर- णात्प्रभवति तथाविधं अतएवैतद्विरोधिना ज्ञानेन स्व- स्वरूपस्फुरणेन तम इव प्रकाशेन प्रविलीयते निश्शे- षलीनं भवतीत्यर्थः। को वै कर्त्तेत्यस्य निर्णयमाह संक- ल्प इति विविधो नानाप्रकारः संकल्पः इदं करिष्यामी