भारतकोश
अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

Aparokshanubhuti with Dipika & Hindi Commentary

आदि शङ्कराचार्य द्वारा

स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)

DevanagariSanskritpublished109 पृष्ठ

पृष्ठ 31, कुल 109 में से

संदर्भ में पढ़ें
पृष्ठ 31

संस्कृतटीका-भाषाटीकासहिता । (२५) ब्रह्मैवाहं समः शान्तः सच्चिदानन्दल- क्षणः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि- त्युच्यते बुधैः ॥ २४ ॥ सं. टी. नन्वतस्मिंस्तद्वुद्धिरिति लक्षणभ्रमापरप- र्यायमोहकार्य्यलिंगानुमेयमज्ञानमीदृक् तर्हि तन्निवर्त्तकं किमित्याकांक्षायां तद्विरोधित्वादात्मज्ञानमेवात्मा- ऽज्ञाननिवर्त्तकमित्यभिप्रेत्य तल्लक्षणमाह ब्रह्मेत्यादिपं- चभिः । अहमहंशब्दप्रत्ययालंबनः प्रत्यगात्मा ब्रह्मै- वास्मि एतयोस्तत्त्वंपदार्थयोरैक्ये हेतुगर्भितानि विशे- षणान्याह सम इति समः सत्ताप्रकाशाभ्यां सर्वा- भिन्नः पुनः किंलक्षणः शांतः निरस्तसमस्तोपा- धित्वाद्विक्षेपादिविकारशून्यः पुनः किंलक्षणः सच्चिदा- नंदलक्षणः । सच्चिदानंदैरनृतजडदुःखप्रतियोगिभिर्ल- क्ष्यते विरुद्धांशत्यागरूपया भागलक्षणया ज्ञायत इति सच्चिदानंदलक्षणः । ब्रह्मबोधे हि द्विविधं द्वारं विधिर्निषे- धश्चेति तत्र सत्यज्ञानादिसाक्षाद्वाचकशब्दप्रयोगलक्ष- णो विधिरुक्तः । इदानीमतन्निरसनलक्षणो निषेधः प्रद- र्श्यते नाहमिति अहमहंशब्दप्रत्ययालंबन आत्मा देहो नेत्यन्वयः देह इत्युपलक्षणं प्राणेंद्रियादीनामपि हीति विद्वज्जनप्रसिद्धं देहादेरनात्मत्वेहेतुमाह असदिति । अस- द्रूपोसद्वाध्यमनृतं तादृग्रूपं स्वरूपं यस्य स तथाविध २

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित) · पृष्ठ 31, कुल 109 में से · BharatKosha