अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 32, कुल 109 में से
संदर्भ में पढ़ें( २६ ) अपरोक्षानुभूतिः । इत्येवंप्रकारम् "अहं ब्रह्मास्मि"इत्यादिमहावाक्यजन्या- ऽखंडाकारबुद्धिरूपं ज्ञानं बुधैरात्मतत्त्वज्ञैरुच्यते कथ्यत इत्यर्थः। एतद्विलक्षणः सर्वोऽज्ञानाभास इतिभावः॥२४॥ भा. टी. मैं सम अर्थात् सर्वमय प्रकाशद्वाराहूँ । और शान्तहूँ अर्थात् निर्विकारहूँ त्रिकाल में विद्यमान चैतन्य- स्वरूप आनन्दमयस्वरूप ब्रह्म हूँ । नाशवान् देह मैं नहीं हूं इस प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २४ ॥ निर्विकारो निराकारो निरवद्योऽहम- व्ययः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमि- त्युच्यते बुधैः ॥ २५ ॥ सं. टी. नन्वहं जातो मृतःसुखीदुःखीत्याद्यनेकविक। रत्त्वेनाहंशब्दप्रत्ययालंबनस्य प्रतीयमानत्वात् कथं तस्य ब्रह्मत्वमित्यत आह निर्विकार इति अहमहंशब्दप्र- त्ययालंबनः प्रत्यगात्मा निर्विकारोऽस्मीति शेषः निर्गतो विकारजन्मदायो यस्मात् स तथाविधः तेषां देहधर्म- त्वादिति भावः । तत्र हेतुः निराकारः देहाद्याकाररहितः अत एव निरवद्यो वातपित्तादिजन्याध्यात्मिकादि- तापत्रयरहितइत्यर्थः। अत एवाऽव्ययः अपक्षयादिरहित इत्यर्थः अहं मनुष्य इत्यादिप्रतीतेः । कथं निर्विकारत्व- मिति चेत्सा प्रतीतिः शुक्तिरजतादिवद्बाध्यत्वाद्भ्रांतिरि- त्याह नाहमिति । नाहमित्युत्तरार्द्धं व्याख्यातं पूर्वश्लोके