अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 37, कुल 109 में से
संदर्भ में पढ़ें⸱संस्कृतटीका-भाषाटीकासहिता। (३१) 'आत्मा'है इसप्रकार व्यवहारके कारण आत्माका आकारभान होयहै परन्तु तुमसे मूर्खोंके दृष्टिगोचर नहीं होय है ॥ ३० ॥ अहंशब्देन विख्यात एक एव स्थितः परः॥ स्थूलस्त्वनेकतां प्राप्तः कथं स्या- देहकः पुमान् ॥ ३१ ॥ सं.टी. तदेवाह अहंमित्यादिसप्तभिः। परः देहादन्य आत्माऽहंशब्देन शब्द इत्युपलक्षणं प्रत्ययस्यापि वि- ख्यातः प्रसिद्धः किंलक्षण इत्यत आह एकइति एक एव स्थित एवेति प्रत्येकमवधारणं तुशब्दः पूर्वोक्तादात्मनः स्थूलदेहस्य वैलक्षण्यद्योतकः।स्थूलो देहकः देहएव देह- कः स्वार्थे कः प्रत्ययः कथं पुमान् पुरुषः आत्मा स्यान्न कथंचिदित्यर्थः देहस्यानात्मत्वे हेतुमाह अनेकतामिति अनेकतां परस्परं भिन्नतां प्राप्तः एवं तमःप्रकाशवदति विलक्षणत्वेपि देहस्यात्मत्वं ब्रुवन्नतिमूढत्वादुपेक्ष्य इति भावः ॥ ३१ ॥ भा. टी. अहं शब्द करिकै कहाजायहै और एकहै और सबसे उत्कृष्टहै तब किसप्रकार स्थूल अनेकताको प्राप्त देहमय होसकै है ॥ ३१ ॥ अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ॥ ममायमितिनिर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२ ॥