अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 42, कुल 109 में से
संदर्भ में पढ़ें( ३६ ) अपरोक्षानुभूतिः । तदिति देहपातादनंतरं तत्फलमनित्यं कर्मफलं यत आत्मा भुंक्तेऽतो नित्य इत्यर्थः चकारात् न्यायसांख्या दावप्येवमेव देहात्मनोर्भेदो वर्णित इति दर्शितम् ॥३८॥ भा. टी. "यावज्जीवमग्निहोत्रं जुहुयात्" "अहरहः सन्ध्या मुपासीत"। जबतक जिये अग्निहोत्र करै । प्रतिदिन सन्ध्या करै । इत्यादि कर्मकाण्डमेंभी आत्मा देहसे अलग नित्य देहपात होनेके अनन्तर कर्मोंके फलोंका भोगनेवाला कहाहै इसप्रकारभी आत्मा देहातीतसा प्रतीत होयहै ॥ ३८ ॥ लिंगं चानेकसंयुक्तं चलं दृश्यं विकारि च॥ अव्यापकमसद्रूपं तत्कथं स्यात्पु मानयम् ॥ ३९ ॥ सं.टी. नन्वेवंसति वेदांतिनामपसिद्धांतःस्यादित्यत आह लिंगमिति । लिंगं लिंगशरीरं तत्परोक्षादिधर्मवि- शिष्टं अयं नित्यापरोक्षस्वभावः पुमान् कथं स्यान्नकथं- चिदित्यर्थः चकारात्कारणशरीरमपि निराकृतं अनयो- रपिभेदे लिंगदेहस्य वैलक्षण्यसूचकानि विशेषणान्याह अनेकेति अनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरी- रसंबधयुक्तं यद्वा श्रोत्रादिबुद्ध्यंतसप्तदशकलासंयुक्तं तथा चलं चंचलं मनःप्रधानत्वादित्यर्थः पुनर्दृश्यं ममेदं श्रोत्रं ममेदं मन इत्यादिममतास्पदत्वेनात्मन उपस- र्जनभूतं च पुनर्विकारि उपचयादिमत् अव्यापकं परि-