अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 50, कुल 109 में से
संदर्भ में पढ़ें( ४४ ) अपरोक्षानुभूतिः। मनुष्य मायासे वञ्चित होकर जगतके नानात्वका अनुभव करै है ॥ ४८ ॥ ब्रह्मणः सर्वभूतानि जायन्ते परमात्म- नः॥ तस्मोदेतानिब्रह्मैव भवतीत्यव- धारयेत् ॥ ४९ ॥ सं.टी. तर्हि किं कुर्यादित्यत आह ब्रह्मण इति। बृह- त्त्वादपरिच्छिन्नत्वाद्व्रह्म तद्रूपात्परमात्मनः सर्वाणि भू- तानि जायन्ते उत्पद्यंते जायंतइति स्थितिप्रलययोरप्यु- पलक्षणं "यतोवा इमानि भूतानि जायन्ते" इत्यादिश्रुतेः यस्मादेवं तस्माद्धेतोरेतानि भूतानि ब्रह्मैव भवंति सन्मात्रब्रह्मरूपाणीत्यवधारयेन्निश्चिनुयादिति ॥ ४९ ॥ भा. टी. "यतो वा इमनि भूतानि जायन्ते" इतिश्रुतिः अर्थात् जिससे प्राणी उत्पन्न होतेहैं इत्यादि श्रुतिसे समस्त प्राणी ब्रह्मसेही उत्पन्न होते हैं इसीकारण सबही ब्रह्मस्वरूप हैं ऐसा निश्चय है ॥ ४९ ॥ ब्रह्मैवसर्व नामानि रूपाणि विविधा- निच॥ कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५० ॥ सं. टी. ननु नानानामरूपकर्मभेदेन विचित्राणि भूतानि कथं ब्रह्मात्मकानीत्याशंक्याह ब्रह्मैवेति "त्रयं वा इदं नाम रूपं कर्म" इति बृहदारण्यकश्रुतिर्जगौ गायनं