अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 53, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहिता । (४७) तदितर इतरमभिवदति तदितर इतरं मनुते तदि- तर इतरं विजानातीति यत्र वाऽन्यदिव स्यात्तत्रान्यो- न्यत्पश्येदन्योन्यञ्जिघ्रेदन्योऽन्यद्रसयेत्” इत्यादिश्रुतेः चशब्दः पूर्वोक्ताद्वैलक्षण्यं सूचयति यदा यस्मिन् ज्ञानकाले सर्वमात्मत्वेन भवेत् तत्र तस्मिन् ज्ञानकाले इतरोऽपि किंचिदप्यन्यन्नपश्यति यत्रवा “अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्” इत्या- दिश्रुतेः सकार्याज्ञाननिवृत्त्या न द्वैतमिति भावः॥५३॥ भा. टी. जिस अवस्थामैं अज्ञान दशासे द्वैत होयहै उसी अवस्थामैं एक पदार्थ दूसरे पदार्थका दर्शन करै है जब आत्मज्ञान होजाय है तब किसीको कुछ अन्य नहीं मालूम होयहै ॥ ५३ ॥ यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ॥ न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४ ॥ सं. टी. ननु द्वैतादर्शने कः पुरुषार्थ इत्याशंक्य तत्प्रतिपादिकाम्“यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजा- नतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति श्रुतिमर्थः पठति यस्मिन्निति । यस्मिन्नवस्थाविशेषे सर्वाणि भूतान्यात्मत्वेनात्मभावेन विजानतः अपरो- क्षेण साक्षात्कुर्वतोऽधिकारिणः पुरुषस्य तस्येति षष्ठी