आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 106, कुल 399 में से
संदर्भ में पढ़ेंअभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९५ यत्र शूद्र उपस्पृशेत् ॥ १ ॥ भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जान- ग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु—सदा भव- त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥ अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥ सर्वत्र वाशब्दः समुच्चये । अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥ २ ॥ भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥ ३ ॥ समानपङ्क्ताविति वर्तते । समानपङ्क्तौ बहुषु भुञ्जानेषु यद्येको ऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥ कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥४॥ मूर्ख, वैश्ववेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्य भोज्यम् ॥ ४ ॥ मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥ मनुष्यैरन्यैर्वा मार्जारादिभिरमेध्यैरवघ्रातमन्नमभोज्यम् । (२)अवेत्युपसर्ग- योगात् दूरस्थैर्गन्धाघ्राणे न दोषः ॥ ५ ॥ न नावि भुञ्जीत ॥ ६ ॥ नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥ ६ ॥ तथा प्रासादे ॥ ७ ॥ प्रासादो दारुमयो मञ्चः । तत्रापि न भुञ्जीत ॥ ७ ॥ कृतभूमौ तु भुञ्जीत ॥ ८ ॥ भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर आह—प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८ ॥ १. कोऽपि. इति. ग. पु. २ अवोपसर्गयोगात् इति क. पु. ३. इदं व्याख्यान्तरं नास्ति. ग. पुस्तके ।