आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 107, कुल 399 में से
संदर्भ में पढ़ें९६ आपस्तम्बधर्मसूत्रे [ (प.५) क. १७. अनाप्रीते मृण्मये भोक्तव्यम् ॥ ९ ॥ यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका- दावुपयुक्तम् ॥ ९ । आप्रीतं चेदभिदग्धे ॥ १० ॥ आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥ परिमृष्टं लौहं प्रयतम् ॥ ११ ॥ लौहं लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं सत् प्रयतं भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥ निर्लिखितं दारुमयं ॥ १२ ॥ दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥ यथागमं यज्ञे ॥ १३ ॥ यज्ञपात्रं तु यथागमं शोधितं प्रयतं भवति । तद्यथा अग्निहोत्र- हवणी दर्भैरद्भिः प्रक्षालिता, सोमपात्राणि (१) मार्जालीये प्रक्षालितानि, आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥ नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥ आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तदापणीयम् । तच्च कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥ तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥ रसाः रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात् । (२) आममांसादि वर्जयित्वा ॥ १५ ॥ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥ तैलसर्पिषी त्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिच्य पाकेन तैल- सर्पिषी(३)शांधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं- सृज्येत्यन्ये(४) ॥ १६ ॥ १. मार्जालीयः सोमयागे सदोनामकमण्डपस्याग्नेयकोणे स्थितः स्थानविशेषः । २. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु. ४ व्याचक्षते इत्यधिकं ख. ग. पु