आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 114, कुल 399 में से
संदर्भ में पढ़ेंअनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३ तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण- विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥ न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्तिं प्राप्य विरमेत् ॥ ८ ॥ यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स- कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा- यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे' इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति । अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ- त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण- मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं प्राप्य विरमेदिति ॥ ८ ॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह— त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ॥ ९ ॥ समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥ प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥ १ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो- ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे” इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.