आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 115, कुल 399 में से
संदर्भ में पढ़ें१०४ आपस्तम्बधर्मसूत्रे [ (प.६)क. १८. ब्राह्मणस्यान्न प्रकृत्या स्वभावैनैव भोक्तव्यम्। कारणादेव स्वभोज्यम्॥१०॥ कारणमाह- यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥ (१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽप्राय- श्चित्तं कर्माऽऽसेवते तात्पर्येण करोति प्रायश्चित्तवत्यात्मनि चोदितं प्रा- यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा पत- स्मात् कारणात् ब्राह्मणस्याऽन्नमभोज्यमिति ॥ ११ ॥ चरितनिर्वेशस्य भोक्तव्यम् ॥ १२ ॥ चरितो निर्वेशः प्रायश्चित्तं येन तस्याऽन्नं भोक्तव्यम्। तद्भोजने न दोषः। निष्ठया भूतकालस्याऽभिधानाच्चर्यमाणेऽपि निर्वेशे न भोक्तव्यम्। किं तर्हि ? चरिते ॥ १२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्रवर्जमित्येके ॥ १३ ॥ शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम्। न ब्राह्मणस्यैवेत्येके मन्यन्ते ॥ १३ ॥ तस्याऽपि धर्मोपनतस्य ॥ १४ ॥ तस्याऽपि शूद्रस्याऽन्नं भोज्यम् , यद्यसौ धर्मार्थमुपनतः आश्रितो भ- वति । धर्मग्रहणदर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥ सुवर्णं दत्वा पशुं वा भुञ्जीत नाऽत्यन्तमन्वव- स्येद्द्वृत्तिं प्राप्य विरमेत् ॥ १५ ॥ गतम् ॥ १५ ॥ सङ्घान्न मभोज्यम् ॥ १६ ॥ सङ्घो गणः तस्य यत् स्वमन्न न त्वेकस्य । तदभोज्यं यद्यपि ते सर्वे दद्युः ॥ १६ ॥ १. यत्र यदा अग्निहोत्रवैश्वदेवाकरणे प्रायश्चित्तं मुक्त्वा तदनुरूप, नित्यमाभ्यु- दयिक वा कर्मासेवते तात्पर्येण करोति न प्रायश्चित्तवत्यात्मनि चोदिते प्रायश्चित्तं, तदैत- स्मात्कारणादभोज्यमिति इति - क पु. । २ प्राणायामपथिकृदादि इति. ख. पु