आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 119, कुल 399 में से
संदर्भ में पढ़ें१०८ आपस्तम्बधर्मसूत्रे [(प.६.)क.१९ यद्यप्येते अभोज्यान्ना इत्युक्ते परिशिष्टा भोज्यान्ना इति गम्यते । तथा- प्यनेकमतोपन्यासार्थं प्रश्नपूर्वक आरम्भः ॥ २ ॥ य ईप्सेदिति कण्वः ॥ ३ ॥ य एव प्रार्थयते स एवाऽऽश्यान्न इति कण्व ऋषिर्मन्यते (१)प्रति- षिद्धवर्जम् ॥ ३ ॥ पुण्य इति कौत्सः ॥ ४२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानाना' (१८.१३.) मित्युकत्वात् भोज्यान्ना- स्सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्थम् । तपोहोमजप्यैः स्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थ्यमानोऽपि भोज्यान्न इति कौ- त्सस्य पक्षः ॥ ४ ॥ यः कश्चिद्दद्यादिति वार्ष्यायणिः ॥ ५ ॥ यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान्न इति वार्ष्या- यणिराह । तथा च मनुः— (२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।' इति ॥ ५ ॥ अत्रोपपत्तिः— यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन निर्दोषो भवति ॥ ६ ॥ रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण क्षीयते तदा ततः प्रतिग्रहेऽपि भोक्तरि संक्रमाभावात् भोक्तव्यम् । अथ चेच्चलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त- मपि पापमवतिष्ठत इति कुतो भोक्तुर्दोष इति ॥ ६ ॥ शुद्धा भिक्षा भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ॥ ७ ॥ धार्मिकेणोद्यता आहृता भिक्षा शुद्धा । सा भोज्येत्येकादीनां पञ्चानां पक्षः । पुष्करसादिः(३) पौष्करसादिः । आदिवृद्ध्यभावश्छान्दसः ॥ ७ ॥ १. प्रतिषिद्धवर्जम् , इति नास्ति क. पुस्तके । २. म. स्मृ ४ २२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके,