आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 120, कुल 399 में से
संदर्भ में पढ़ेंभोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०९ सर्वतोपेतं वार्ष्यायणीयम् ॥ ८ ॥ सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप- न्नम् । तत्सर्ववर्णेष्वपि भोज्यमिति वार्ष्यायणीय मतम् ॥ ८ ॥ इदानीं स्वमतमाह— पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥ कण्वकुत्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ ९ ॥ पुण्यस्याऽप्यनीप्सतो न भोक्तव्यम् ॥ १० ॥ यः प्रार्थितोऽपि नेत्यसकृदुक्त्वा कथंचिदापादितेप्सः(२) सोऽनी- प्सन्नित्युच्यते, तस्य पुण्यस्याप्यभोज्यमिति । अपर आह—अनीप्सत इति कर्तरि षष्ठी । पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा- दिना स्वयमनीप्सन् भवतीति ॥ १० ॥ यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥ ‘सर्वतोपेत’ (१९८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥ तमाह— नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥ ‘अद्य तुभ्यमिदमाहरिष्यामि तद्भवता ग्राह्य’मिति निवेदनं नियो गः। तदभावः अनियोगः । पुनर्नञ्समासः । द्वौ नञौ प्रकृतमर्थं गम- यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥ अथ पुराणे श्लोकावुदाहरन्ति— (३)उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥ १. 'आचार्यस्य पक्षेण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु. ३. नाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४. २५१ २५२.