आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 125, कुल 399 में से
संदर्भ में पढ़ें११४ आपस्तम्बधर्मसूत्रे [ (प. ७.) क. २०. ज्ञाः । वृद्धाः परिणतवयसः। यौवने विषयवश्यताऽपि स्यादितीदमुक्तम् । आत्मवन्तो जितेन्द्रियाः। अलोलुपा अकृपणाः । अदाम्भिका अधर्मध्वजा, एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्याणां सर्वजनपदेषु यदेकान्तेनाऽव्य- भिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न मातुलसुतापरिणयनवत्क- तिपयविषयम्, तद्वृत्तसादृश्यं भजेत । तदनुरूपं चेष्टेत । न तेषामनुष्ठानं निर्मूलम्। सम्भवति च वेदिकानामुत्सन्नपाठब्राह्मणानुभव इति ॥ ८ ॥ एवमुभौ लोकावभिजयति ॥ ९ ॥ एव श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति इमं चाऽमुं च ॥ ९ ॥ अविहिता ब्राह्मणस्य वणिज्या ॥ १० ॥ क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिर्न विहिता प्राप्तानुवादोऽ(१)यमपवादविधानार्थ ॥ १० ॥ आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥ ११ ॥ ब्राह्मणवृत्तेरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । (२)व्यवहृ- पणोः समर्थयो'रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्य- वहारः, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि व्युदस्यन् वर्जयन् । कृत्स्नाया वैश्यवृत्तेरुपलक्षणमिदम् । क्षत्रियवृत्तिश्च (३)दण्डापूपिकया सिद्धा । तथा च गौतमः—(४)'तदलाभे क्षत्रिय- वृत्तिः । स्तदलाभे वैश्यवृत्ति'रिति ॥ ११ ॥ अपण्यान्याह— मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्ले- ष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं मांसमायुधं सुकृताशां च ॥१२॥ मनुष्या दारदासादयः । रसा गुडलवणादयः, क्षीरादयो वा । रागाः कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः । १. नापदि विधानार्थं इति क पु २. पा सू २. ३. ५७. ३. कश्चित् दण्डे प्रोतान् अपूपान् कस्यचित् निकटे निक्षिप्य बहिर्गत्वा पुनः प्रति- निवृत्य तं पृष्टवान्-क्व मे दण्ड इति । तेनोक्तम्-मूषिकैर्भक्षित इति । तदा तेनाऽर्थापत्त्या कल्पित यदा दण्डोऽपि मूषिकैर्भक्षितः तदा किमु वक्तव्यमपूपास्तैर्भक्षिता इति । अय दण्डा- पूपिकान्यायः ॥ ४. गौ. ध. ७ ६, ७