आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 126, कुल 399 में से
संदर्भ में पढ़ेंअपण्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ११५ गन्धाश्चन्दनादयः । गवां मध्ये वशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः, येन विश्लिष्टं चर्मादि सन्धीयते । 'यथा(१) श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषये' दिति बह्वृचब्राह्मणे दर्शनात् । उदकं कुम्भजलम् । तोक्म ईषदङ्कुरितानि व्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृतं पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । (२)एतान्यपण्यानि वर्जयित्वा अन्येषां पण्यानां व्यवहरेत् । मनुष्यादीन्वर्जायित्वेत्येव सिद्धे 'अपण्यानी'ति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनु- (३)सर्वान् रसानपोहेत कृतान्नं च तिलैस्सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च। अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलीं च लाक्षां च सर्वांश्चैकशफान् पशून् ॥' इति ॥ १२ ॥ तिलतण्डुलांस्त्वेव धान्यस्य विशेषेण न विक्रीणीयात् ॥ १३ ॥ धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेन न विक्रीणीयान् न वि- क्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे हि श्रुतम् (४)— 'काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । विक्रीणीत तिलाञ्छुद्धान् धर्मार्थमचिरस्थितान् ॥' इति ॥१३॥ अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥ विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनि- मयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥ १४ ॥ तेष्वेव केषां चिद्विनिमयोऽनुज्ञायते— अन्नेन चाऽन्नस्य मनुष्याणां च मनुष्यै रसानां च १. ऐ. ब्रा. ५ प. ३२. ख २. आपणीयानि इति क. पु ३. म. स्मृ. १०. ८६, ८९. ४. म. स्मृ. १०-९०.