आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 127, कुल 399 में से
संदर्भ में पढ़ें११६ आपस्तम्बधर्मसूत्रे [(प.७.)क.२१. रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥ अन्नादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । तथा च वसिष्ठः(१)—रसा रसैस्समतो हीनतो वा ॰॰॰॰ । तिलतण्डुलपक्वान्नं विद्यामनुष्याश्च विहिताः परिवर्तनेन' इति । मानवे तु विशेषः— (२)'रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥' इति । गौतमीये तु—(३)'विनिमयस्तु । रसानां रसैः । पशूनां च । न लवण- कृतान्नयोः । तिलानां च । समेनाऽऽमेन तु पक्वस्य सम्प्रत्यर्थ' इति । तस्मा- दत्र प्रतिषेधानुवृत्तिर्न शङ्कनीया । पूर्वत्र चोक्त 'ब्रह्मणि मिथो विनियोगे न गतिर्विद्यत' (१३.१७) इति । (४)विनिमयाभ्यनुज्ञानादेव विद्यादीनां विक्रयोऽपि प्रतिषिद्धो वेदितव्यः ॥ १५ ॥ अक्रीतपण्यैर्व्यवहरेत् ॥ १६ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ विंशतितमी कण्डिका ॥ २० ॥ मुञ्जबल्बजैर्मूलफलैः ॥ १ ॥ अक्रीतानि स्वयमुत्पादितानि अरण्यादाहृतानि वा यानि पण्यानि तैर्व्य- वहरेत मुञ्जादिभिः ॥ १६ ॥ मुञ्जबल्बजास्तृणविशेषाः ॥ १ ॥ तृणकाष्ठैराविकृतैः ॥ २ ॥ तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकारः स्थूणादिभावः । तृणत्वादेव सिद्धे मुञ्जबल्बजग्रहणं विकारार्थम् ॥ २ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ३ ॥ प्रतिषिद्धानामपि विक्रयविनिमयाभ्यां जीवेत् । न पुनरत्यन्तमन्व- वस्येत् अवसीदेत् । तथा च गौतमः(५) 'सर्वथा तु वृत्तिरशक्तावशौद्रेण । तदप्येके प्राणसंशय' इति । मनुरपि-- (६)'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाशमिव पङ्केन न स दोषेण लिप्यते' ॥ इति ॥ ३ ॥ १ व. ध. २-३२—३९ २. म. स्मृ १०. ९४. ३. गौ ध ७ १६—२१ ४. नियमाभ्य. इति क. पु. ५. गौ. ध. ७ २२, २३ ६. म. स्मृ १०-१०४