आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 136, कुल 399 में से
संदर्भ में पढ़ेंआत्मज्ञानप्रशंसा ] उज्ज्वलोपेतं प्रथमः प्रश्नः । १२५ यथा क्षीरावस्थागतं घृतं क्षीरे दध्यात्मना परिणमति तामप्यवस्था- नुप्रविशति तद्वदिहापि । तदिदमुच्यते-(१) 'तत्त्सृष्ट्वा तदेवानुप्राविश' दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् । तदेवं स्वभावतः स्वच्छोऽप्यात्मा प्रकृत्या सहाभेदमापन्नः तद्धर्मा भवति । एवं तद्विकारेण महता तद्विकारेणाऽहङ्कारेण, इत्याशरीराद्द्रष्ट- व्यम् । स्थूलोऽहं कृशोऽहं देवोऽहं मनुष्योऽहं तिर्यगहमिति । तस्यैवं- तस्यापेक्षितव्यस्वरूपलाभः नीचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा- शबरादिभिर्बाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीय- मात्मानमवगमयन्मात्रा स्वरूपे कथित लब्धस्वरूप इव भवति । तथा प्रकृत्या (२)वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया(३) 'त- त्वमसी' ति श्रुत्या स्वभावं नीयते-यदेवंविधं परिशुद्धं वस्तु तदेव त्व- मसि, यथा मन्यसे 'मनुष्योऽहं दुःख्यह' मित्यादि न तथेति । यथा य एवभूतो राजा स त्वमसीति राजपुत्रः । ननु तत्त्वमसीति ब्रह्मणा तादात्म्यमुच्यते । को ब्रूते ? नेति । ब्रह्माऽपि नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना ? किमनेन ज्ञानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मलः संसर्गात्क- लुषतामिव गतः । तद्वियोगश्च ते मोक्षः । त्वयि मुक्ते यद्यन्ये सन्ति ते संसरिष्यन्ति । का ते क्षतिः ? अथ न सन्ति तथापि कस्ते लाभ इत्य- लमियता । महत्येषा कथा । तदप्येते श्लोका भवन्ति- नीचानां वसतौ तदीयतनयैः सार्धं चिरं वर्धित स्तज्जातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा । संघाते महदादिभिस्सहवसंसंस्तद्गतत्परः पूरुषः स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव धिङ्मन्यते ॥ १ ॥ दाता भोगपरः समग्रविभवो यः शासिता दुष्कृतां राजा स त्वमसीति मातृमुखतः श्रुत्वा यथावत्स तु । राजीभूय(४) जयार्थमेव यतते तद्वत्पुमान् बोधितः श्रुत्या तत्त्वमसीत्यपास्य दुरितं ब्रह्मैव सम्पद्यते ॥ २ ॥ इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीदृशीं नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् । किं तु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा १. तै. उ. २. ६. २. वश्यया. इति. ख. पु ३. छा. उ. ६. ९. ३, ४. यथार्थमेव क. पु.