आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 137, कुल 399 में से
संदर्भ में पढ़ें१२६ आपस्तम्बधर्मसूत्रे [ (प.८.)क. २२. क्षेत्रज्ञा इति तत्त्वमादिवचसः का भेदवादे क्षतिः ॥ ३ ॥ तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता । यद्वान्ये न भवेयुरेवमपि को लाभोऽस्य तद्द्रुतिः पुंसामित्यभिदां भिदां च न वयं निर्बन्ध्य निश्चिन्महे॥४॥ इति॥ तत्राऽऽत्मलाभीयाञ्छ्लोकानुदाहरिष्यामः॥ ३ ॥ विवरणम् । सत्य क्रोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिर्नि र्ह(न्य?ष्य)न्ते; तथापि न मूलोद्धर्तनेन निवृत्तिः क्रोधादीनाम्, सर्वदोष- बीजभूतमज्ञानं न निवृत्तमिति तस्य चाऽनिवृत्तौ बीजस्याऽनिवर्तित त्वात् सकृन्निवृत्ता अपि क्रोधादयो दोषा पुनरुद्भविष्यन्तीति ससा- रस्याऽऽत्यन्तिकोच्छेदो न स्यात् । तद्दोषबीजभूतस्याऽज्ञानस्य मदान्, ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायात्मज्ञानाय मदान् शाखान्तरोपनिषदृचः, तत्र तस्मिन् आत्मलाभप्रयोजने निमित्ते । आ त्मानं करतलन्यस्तमिव ल(म्भि ? म्भयि)तुं समर्थान् आत्मलाभीयान् श्लोकानुदाहरिष्यामः उद्धृत्याऽऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम इत्यर्थः ॥ ३ ॥ उज्ज्वला । तदिहाऽपेक्षितमात्मज्ञानमुपदिश्यते । तच्च त्रिविधम्-श्रुतं मननं निदिध्यासनमिति । (२)श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्यं ज्ञानम् । मननमुपपत्तिभि र्निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा निरन्तरं भावना(३)निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं ज्ञानं तावदाह- तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रव- चनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पादबद्धानौपनिषदाम् मन्त्रान् । उदाहरिष्यामः उज्जृत्याहरिष्यामः ग्रन्थे निवेशयिष्यामः ॥ ३ ॥ पूः प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेतं येऽनुति- ष्ठन्ति तेऽमृताः ॥ ४ ॥ १. बृ. उ. २. ४. ५ २. ध्यानमिति. ख. च. पु.